उदाहरणमालैषां रूपव्यक्त्यै निदर्श्यते॥ १०॥
१. तत्र कृताभिलाषा यथा—(शाकु. २.२०)
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः अनाविद्धं/मुक्तं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमपि च तद्रूपमनघं न जाने भोक्तारं कमिह/व समुपस्थास्यति विधिः॥ ११॥
२. आकाङ्क्षा यथा—(गास. ४.४२)
एक्कक्कम—संदेसाणुराअ—वड्ढंत—कोउहल्लाइं।
दुक्खं असमत्तमणोरहाइँ अच्छंति मिहुणाइँ॥ १२॥
(अन्योन्यसन्देशानुरागवर्धमानकौतूहलानि ।
दुःखमसमाप्तमनोरथानि तिष्ठन्ति मिथुनानि॥)
३. अपेक्षा यथा—(गास. २.१००)