'पुरुषेणानेन भवितव्यमि'ति। स यथा—(विक्र. १.१०)
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः श्रृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ ३१॥
४. बहूनामैकमुख्यः प्रायोवादः— 'प्रायेणौशीनरास्तक्रपायिण' इति। स यथा—
ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वाऽऽलापं कलयति कथामात्मविषयाम्।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमतुलं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा॥ ३२॥
५. कार्यार्थं प्रवर्तितस्य यथोक्तावान्तरचिह्नदर्शनं सम्प्रत्ययः; यथैतद्घट्टद्वारं तथाग्रे नागकन्यकानगरमिति, स यथा— (मामा. ४.९)
प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम्।