आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम्॥ ४१॥
माने प्रतिश्रुत्यादानमपि व्याविद्धम् ; यथा—(अमरु. १८)
एकत्रासनसंस्थिति; परिहृता प्रत्युद्गमात्॥ ४२॥
अप्रतिषिद्धमपि विसंवादनम् ; यथा—(रत्ना. २.२१)
भ्रूभेदे सहसोद्गतेऽपि वदनं॥ ४३॥
प्रवासे प्रत्यादानमपि विविधम्; यथा—(रामाभ्युदये)
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता— स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ ४४॥