कल्लोलन्ति जनस्येव दुर्लभे जने दृष्टे॥}
२.११ प्रभातविषयो यथा—(किराता. ९.७८)
गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधरोष्ठ्याः।
विरहविधुरमिष्टा सत्सखीवाङ्गनायाः हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः॥ २७॥
२.१२. (क) वसन्तचर्या यथा—(गास. ५.९९)
खेमं? कत्तो खेमं? जो सो खुज्जंबओ घरद्दारे।
तस्स इर मत्थआओ को वि अणत्थो समुप्पण्णो॥ २८॥
(क्षेमं? कुतः क्षेमं? योऽसौ कुब्जाम्रको गृहद्वारे।
तस्य किल मस्तकात् कोऽप्यनर्थः समुत्पन्नः॥)
२.१२. (ख) ग्रीष्मचर्याविषयो यथा—