४. तेऽमी त्रयोऽपि वैपरामर्शिकभेदाः, विपरामृश्य स्वेच्छया प्रवर्तमानत्वात्।
स एव कालः कार्त्स्येन द्विरूप उपदर्शितः।
क्रियापदैकवाच्योऽयं क्रियायाः साधनं च यः॥ १०९॥
प्रत्ययार्थो द्वयं चैतत् समवेतमुदाहृतम्।
प्रकृत्यर्थानुरोधेन विप्रलम्भे चतुर्विधे॥ ११०॥
यो विप्रलम्भः प्रथमानुरागो मानः प्रवासः करुणः स एव।
साधर्म्यवैधर्म्यवशेन चैषामभेदभेदावथ तौ वदामः॥ १११॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे विप्रलम्भान्वर्थप्रकाशनो नाम
॥ चतुर्विंशः प्रकाशः॥ २४॥
सनातनेनास्य नितान्तसूक्ष्मविमर्शरम्यस्य परिच्छिदैव।