रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 82 verses
Verse 61
तेनाभिघातरभसस्य विकृष्य पत्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख स्तं पातयां प्रथममास पपात पश्चात् ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ अभिघातो सभस औत्सुक्यं यस्य तस्य। अभिहन्तुमुद्यतस्येत्यर्थः। वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य। शोणितलिप्तो न भवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन्। तं महिषं प्रथमं पातयाभवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन्। तं महिषं प्रथमं पातयामास। स्वयं पश्चात्पपात। `कृञ्चानुप्रयुज्यते लिटि` (पा.3।1।40)इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् `पातयां प्रथममास` इत्यपप्रयोग इति पाणिनीयाः। यथाह वार्तिककारः-`विपर्यासनिवृत्त्यर्थः व्यवहितवृत्त्यर्थं च` इति ॥

Verse 62
प्रायो विषाणपरिमोक्षलघूत्तमाङ्गान्खङ्गांश्चकार नृपतिर्निक्षितैः क्षुरप्रैः । श्रृङ्गं स दृप्तविनयाधिकृतः परेषामत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): प्राय इति॥ नृपतिर्निशितैः क्षुरप्रैः शरविशेषैः खङ्गान् खङ्गाख्यान्मृगान्। `गण्डके खङ्गखङ्गिनौ` इत्यमरः (अ.को.3|3|31)। प्रायो बाहुल्येन विषाणपरिमोक्षेण शृङ्गभङ्गेन लघून्यगुरूण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार। न त्ववधीदित्यर्थः। कुतः? दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं श्रृङ्गं विषाणं प्राधान्यं च। `शृङ्गं प्राधान्यसान्वोश्च` इत्यमरः (अ.को.3|3|31)। न ममृषे न सेहे। दीर्घमायुर्जीवितकालम्। `आयुर्जीवितकालो ना` इत्यमरः (अ.को.2|8|120)। न ममृषे इति न। किंतु ममृष एवेत्यर्थः ॥

Verse 63
व्याघ्रनभीरभिमुखोत्पतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया निमेषात्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): व्याघ्रानिति॥ अभीर्निर्भीकः स धन्वी गुहाभ्योऽभिमुखमुत्पतितान्। वायुना रुग्णान्भग्नान्। फुल्ला विकसिताः। `अनुपलर्गात्फुल्लक्षीवकृशोल्लाघाः` (पा.3।2।55) इति निष्ठातकारस्य लत्वनिपातः। येऽसनस्य सर्जवक्षस्य। `सर्जकासनबन्धूकपुष्पप्रियकजीवकाः` इत्यमरः (अ.को.2|4|44)। अग्रविटपास्तानिव स्थितान्। इषुधिभूतानित्यर्थः। व्याघ्राणां चित्ररूपत्वादुपमाने `फुल्ल`विशेषणम्। शरैः पूरितानि वक्त्ररन्ध्राणि येषां तान्व्याघ्रान्। शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषात्तूणीचकार। तूणं शरैः पूरितवानित्यर्थथः॥

Verse 64
निर्घातोग्नैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् । नूनं तेपामभ्यसृयापरोऽभूद्वीर्योदग्रे राजशब्दो मृगेषु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निर्घातेति॥ कुञ्जेषु लीनान्। `निकुञ्जकुञ्जौ वा क्लीवे लतादिपिहितोदरे` इत्यमरः (अ.को.2|3|9)। सिंहाञ्जिघांसुर्हन्तुमिच्छुः। निर्घातो व्योमोत्थित औत्पातिकः शब्द विशेषः। तद्वदुग्रै रौद्रैर्ज्यानिर्घोषैर्मौर्वीशब्दैः क्षोभयामास। अत्रोत्प्रेक्षते-तेषां सिंहानां संबन्धिनि वीर्येणोदग्र उन्नते मृगेषु विषये यो राजशब्दस्तस्मिन्नभ्यसूयापरोऽभून्नृनम्। अन्यथा कथमेतानन्विष्य हन्यादित्यर्थः। `मृगाणाम्` इति पाठे समासे गुणभूतत्वात् `राज`शब्देन संबन्धो दुर्घटः। शालिनीवृत्तम्-`शालिन्युक्ता स्तौ तगौ गोऽब्धिलोकैः` इति लक्षणात् ॥

Verse 65
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुस्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ॥
Metre: प्रहर्षिणी
सञ्जीविनीटीका (मल्लिनाथः): तानिति॥ काकुत्स्थो दशरतः। गजकुलेषु बद्धं तीव्रं वैरं यैस्तान्। कुटिलेषु नखाग्रेषु लग्ना मुक्ता गजकुम्भमौक्तिकानि येषां तान्सिंहान्हत्वा आत्मानं रणेषु कृतकर्मणां कृतोपकाराणां गजानामानृण्यमनृणत्वं मार्गणैः शरैः। `मार्गणो याचके शरे` इति विश्वः। गतं प्राप्तवन्तमिवामंस्त मेने ॥

Verse 66
चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी । नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शान्तिम् ॥
Metre: औपच्छन्दसिक
सञ्जीविनीटीका (मल्लिनाथः): चमरानिति॥ क्वचिञ्चमरान्परितः। `अभितः परितः समया-`(वा1442) इत्यादिना द्वितीया। प्रवर्तिताश्वः प्रधाविताश्वः। आकर्णविकृष्टभल्लानिषुविशेषान्वर्षतीति तथोक्तः स नृपः। नृपतीनिव तांश्चमरान्सितबालव्यजनैः शुभ्रचामरैर्वियोज्य विरहय्य सद्यः शान्तिं जगाम। शूराणां परकीयमैश्वर्यमेकसह्यम्, न तु जीवितमिति भावः। औपच्छन्दसिकं वृत्तम् ॥

Verse 67
अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): अपीति॥ स नृपस्तुरगसमीपादुत्पतन्तमपि। सुप्रहारमपीत्यर्थः। रुचिरकलापं भासुरबर्हम्। मह्यामतिशयेन रौतीति मयूरो बर्ही। पृषोदरादित्वात्साधुः। तं चित्रेण माल्येनानुकीर्णे रतौ विगलितबन्धे प्रियायाः केशपाशे सपदि गगतमनस्कः प्रवृत्तचित्तः। `उरः प्रभृतिभ्यः कप्` (पा.1।4।151) इति कप्प्रत्ययः। न बाणलक्ष्यीचकार। न प्रजहारेत्यर्थः ॥

Verse 68
तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् । आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ कर्कशविहारादतिव्यायामात्संभवो यस्य तम्। आनने विलग्नजालकं बद्धकदम्बकं तस्य नृपस्य स्वेदम्। सतुषारशीकरः शिशिराम्बुकणसहितः। भिन्ना निर्दलिताः पल्लवानां पुटाः कोशा येन सः। वनानिल आचचाम। जहारेत्यर्थः। रथोद्धतावृत्तमेतत् ॥

Verse 69
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् । परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥
Metre: मञ्जुभाषिणी
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति पूर्वोक्तप्रकारेण। आत्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम्। विस्मृतात्मकार्यान्तरमित्यर्थः। सचिवैरवलम्बिता धृता धूर्यस्य तम्। `ऋक्पूरब्धूः पथामानक्षे` (पा.5।4।74) इति समासान्तोऽच्प्रत्ययः। अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपम्। मृग्यन्ते यस्यां मृगा इति मृगया। `परिचर्यापरिसर्यामृगयाटाट्यादीनामुपसंख्यानम्`(वा.2215) इति शप्प्रत्ययान्तो निपातः। चतुरा विदग्धा कामिनीव। जहाराचकर्ष। `न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥` इति भावः ॥

Verse 70
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथम् । नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥
Metre: पुष्पिताग्रा
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स नरपतिः ललितानि कुसुमानि प्रवालानि पल्लवानि शय्या यस्यां ताम्। ज्वलिताभिर्महौषधिभिरेव दीपिकाभिः सनाथाम्। तत्प्रधानामित्यर्थः। त्रियामां रात्रिं क्वचिदसमेतपरिच्छदः। परिहृतपरिजनः सन्नित्यर्थः। अतिवाहयांबभूव गमयामास। पुष्पिताग्रावृत्तम् ॥