रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 82 verses
Verse 41
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अलिभिरिति॥ अञ्जनबिन्दुमनोहरैः कज्जलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चह्नितस्तिलकः श्रीमान्नाम वृक्षः। `तिलकः क्षुरकः श्रीमान्` इत्यमरः (अ.को.2|4|40)। वनस्थलीम्। तिलको विशेषकः। `तमालपत्रतिलकचित्रकाणि विशेषकम्। द्वितीयं च तुरीयं च न स्त्रियम्` इत्यमरः (अ.को.2|4|40)। प्रमदामिव। न शोभयति स्मेति न खलु। अपि त्वशोभयदेवेत्यर्थः। `लट् स्मे` (पा.3।2।118) इति `स्म`शब्दयोगाद्भूतार्थे लट् ॥

Verse 42
अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः । कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अमदयदिति॥ तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाखअया लता। `सप्तला नवमल्लिका` इत्यमरः। मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया। गन्धप्रधानयेत्यर्थः। किसलयमेवाधरस्तत्र संगतया। प्रसृतरागयेत्यर्तः। कुसुमैः संभृतया संपादितया। कुसुमरूपयेत्यर्थः। स्मितरुचा हासकान्त्या मनः। पश्यतामिति शेषः। अमदयत् ॥

Verse 43
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अरुणेति॥ विलासिनो विलसनशीलाः पुरुषाः। `वौ कषलस-` (पा.3।2।143) इत्यादिना घिनुण्प्रत्ययः। अरुणस्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनः। तैः। कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थथः। `तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति। तस्येवानुकरोतीति शब्दाः सादृश्यवाचकाः॥` इति दण्डी। अंशुकैरम्बरैः। श्रवणेषु कर्णेषु लब्धपदैः। निवेशितैरित्यर्थः। यवाङ्कुरैश्च परभृताविरुतैः कोकिलाकूजितैश्च। इत्येतैः स्मरबलैः। कामसैन्यैः। अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ॥

Verse 44
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): उपचितेति॥ शुचिभिः शुभ्रैः कणै रजोभिरुपचितावयवा पुष्टावयवा। अलिकदम्बकयोगमुपेयुषी प्राप्ता। तिलकजा तिलकवृक्षोत्था मञ्जरी। अलकेषु जय्यालकमाभरणविशेषस्तस्मिन्मौक्तिकैः सदृशकान्तिः। अलक्ष्यत। भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नीलालकसक्ताजालमिवालक्ष्यतेति वाक्यार्थः ॥

Verse 45
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः । कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): ध्वजेति॥ अलिव्रजाः षट्पदनिवहा धनुर्भृतो धानुष्कस्य मदनस्य कामस्य ध्वजपटं पताकाभूतम्। ऋतुश्रियो वसन्तलक्ष्म्याश्छविकरं शोभाकरं मुखचूर्णं मुखालंकारचूर्णभूतं सपवनोपवनोत्थितं सपवनं पवनेन सहितं यदुपवनं तस्मिन्नुत्थितम्। कुसुमानां केसरेषु किञ्जल्केषु यो रेणुस्तम्। अन्वयुरन्वगच्छन्। यातेर्लङ् ॥

Verse 46
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । अनयदासनरज्जुपरिग्रहे भुजलतां जलतामवलाजनः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अनुभवन्निति॥ नवो दोला प्रेङ्खा यस्मिंस्तं नवदोलमृतूत्सवं वसन्तोत्सवमनुभवन्नबलाजनः पटुरपि निपुणोऽपि प्रियकण्ठस्य जिघृक्षया ग्रहीतुमालिङ्गितुमिच्छया आसनरज्जुपरिग्रहे पीठरज्जुग्रहणे भुजलतां बाहुलतां जलतां शैथिल्यम्। डलयोरभेदः। अनयत् दोलाक्रीडासु पतनभयनाटितकेन प्रियकण्ठमाश्लिष्यदित्यर्थः ॥

Verse 47
त्यजत मानमालं बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): त्यजतेति॥ `बत`इत्यामन्त्रणे। `खेदानुकम्पासंतोषविस्मयामन्त्रणे बत` इत्यमरः। बत अङ्गाना मानं कोपं त्यजत। तदुक्तम्-`स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये`इति। विग्रहैर्विरोधैरलम्। विग्रहो न कार्य इत्यर्थः। गतमतीतं चतुरमुपभोगक्षमं वयो यौवनं पुनर्नैति नागच्छति। इत्येवंरूपे स्मरमते स्मराभिप्राये। नपुंसके भावे क्तः। परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे। कोकिलाकूजितोद्दीपितस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः ॥

Verse 48
अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः । नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथानन्तरं मधुं मथ्नातीति मधुमद्विष्णुः। संपदादित्वात्क्विप्। पधुर्वसन्तः। मध्नातीति भावः। पचाद्यच्। मनसो मथो मन्मथः कामः। तेषां संनिभः सदृशो मधुमन्मधुमन्मथसंनिभः स नरपतिर्दशरथो विलासवतीसखः स्त्रीसहचरः सन्। ऋतुः प्राप्तोऽस्यार्तवः। तमुत्सवं वसन्तोत्सवं यथा-सुखं समनुभूय मृगयारतिं मृगयाविहारं चकम आचकाङ्क्ष ॥

Verse 49
परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितवोधनम् । श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): परिचयमिति॥ असौ मृगया। चललक्ष्याणि मृगगवयादीनि। तेषां निपातने परिचयमभ्यासं करोति। भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति। तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति। अतो हेतोः सचिवैरनुमतोऽनुमोदितः सन् ययौ। सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ॥

Verse 50
मृगवनोपगमक्षमवेषमृद्विपुलकण्ठनिषक्तशरासनः । गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): मृगेति॥ मृगाणां वनं तस्योपगमः प्राप्तिः। तस्य क्षममर्हं वेषां बिभर्तीति स तथोक्तः। मृगयाविहारानुगुणवेषधारीत्यर्थः। विपुलकण्ठे निषक्तशरासनो लग्नधन्वा। ना सवितेव नृसविता पुरुषश्रेष्ठः। उपमितसमासः। स राजाऽश्वखुरोद्धतरेणुभिर्गगनं वितानं तुच्छमसदिवाकरोत्। गगनं नालक्ष्यतेत्यर्थः। `वितानं तुच्छमन्दयोः` इति विश्वः। अथवा, -`सवितानम्` इत्येकं पदम्। सवितानमुल्लोचसहितमिवाकरोत् । `अस्त्री वितानमुल्लोचः` इत्यमरः (अ.को.2|6|121) ॥

Showing 41 to 50 of 82 verses