रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 86 verses
Verse 41
स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्वेति॥ स्वासिधारया स्वखङ्गधारया परिहृतः। अच्छिन्न इत्यर्थः। दशमो मूर्धा मे मम चक्रस्य कामं पर्याप्तो लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः। तत्सर्वथा तमहं हनिष्यामीत्यर्थः ॥

Verse 42
स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्रष्टुरिति॥ किंतु स्रष्टुर्ब्रह्मणो वरातिसर्गाद्वरदानाद्धेतोः। मया तस्य दुरात्मनो रिपो रावणस्यात्यारूढमत्यारोहणम्। अतिवृद्धिरित्यर्थः। नपुंसके भावेक्तः। भोगिनः सर्पस्यात्यारूढं चन्दनेनेव सोढम्। चन्दनद्रुमस्यापि तथा सहनं स्रष्टुर्नियतेरिति द्रष्टव्यम् ॥

Verse 43
धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): धातारमिति॥ स राक्षसस्तपसा प्रीतं संतुष्टं धातारं ब्रह्माणाम्। मर्त्येषु विषय आस्थापराङ्मुखः आदरविमुखः सन्। मर्त्याननादृत्येत्यर्थः। दैवादष्टविधात् सर्गाद्दैवसृष्टेरवध्यत्वं ययाचे हि ॥

Verse 44
सोऽहं दाशरथिर्भूत्वा रणभूमेर्वलिक्षमम् । करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोञ्चयम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सोऽहमिति॥ सोऽहम्। दशरथस्यापत्यं पुमान् दाशरथिः। `अत इञ्` (पा.8।1।95) इतीञ्प्रत्ययः। रामो भूत्वा तीक्ष्णैः शरैस्तस्य रावणस्य शिरांस्येव कमलानि तेषामुञ्चयं राशिं रणभूमेर्बलिक्षमं पूजार्हं करिष्यामि। पुष्पविशदा हि पूजेति भावः ॥

Verse 45
अचिराद्यज्वभिर्भागं कल्पितं विधइवत्पुनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अचिरादिति॥ हे देवाः! यज्वभिर्याज्ञिकैर्विधिवत् कल्पितमुपहृतं भागं हवि र्भागं मायाविभिर्मायावद्भिः। `अस्मायामेधास्रजो विनिः` (पा.5।2।121)इति विनिप्रत्ययः। निशाचरै रक्षोभिरनालीढमनास्वादितं यथा तथाऽचिरात् पुनरादास्यध्वे ग्रहीष्यध्वे ॥

Verse 46
वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि । पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वैमानिका इति॥ मरुतां देवानां पथि व्योम्नि वैमानिका विमानैश्चरन्तः। `चरति` (पा.4।4।8) इति ठक्प्रत्ययः। मेघावरणतत्परा रावणभयान्मेघेष्वन्तर्धानतत्पराः। पुण्यकृतः सुकृतिनः पुष्पकालोकेन यदृच्छया रावणविमानदर्शनेन यः संक्षोभो भयचकितं तं त्यजन्तु । `संक्षोभो भयचकितम्` इति शब्दार्णवः ॥

Verse 47
मोक्ष्यध्वे स्वर्गब्दीनां वेणीबन्धानदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मोक्ष्यध्व इति॥ हे देवाः! यूयं शापेन नलकूबरशापेन यन्त्रिताः प्रतिबद्धाः पौलस्त्यस्य रावणस्य बलात्कारेण ये कचग्रहाः केशाकर्षास्तैरदूषिताननुपहतान् स्वर्गबन्दीनां हृतस्वर्गाङ्गनानां वेणीबन्धान् मोक्ष्यध्वे। पुरा किल नलकूबरेणात्मानमभिसरन्त्या रम्भाया बलात्कारेण संभोगात्क्रुद्धेन दुरात्मा रावणः शप्तः-`स्त्रीणां बलाद्ग्रहणे मूर्धा ते शतधा भविष्यति`-इति भारतीया कथानुसंधेया ॥

Verse 48
रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृषअणमेघस्तिरोदधे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रावणेति॥ स कृष्णो विष्णुः स एव मेघो नीलमेघश्च। विश्रवसोऽपत्यं पुमानिति विग्रहे रावणः। `विश्रवः`शब्दाच्छिवादित्वादणि `विश्रवसो विश्रवणरवणौ`इत्यन्तर्गणसूत्रेण `विश्रवः`शब्दस्य वृत्तिविषये रवणादेशे रावण इति सिद्धम्। स एवावग्रहो वर्षप्रतिबन्धः, तेन क्लान्तं म्लानं मरुतो देवा एव सस्यं तत्। इत्येवंरूपेण वागमृतेन वाक्सलिलेन। `अमृतं यज्ञशेषे स्यात्पीयूषे स्यात्पीयूषे सलिले।़मृतम्`इति विश्वः। अभिवृष्याभिषिच्य तिरोदधेऽन्तर्दधे ॥

Verse 49
पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः । अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पुरुहूतेति॥ पुरुहूतप्भृतय इन्द्राद्याः सुराः सुरकार्ये रावणवधरूप उद्यतं विष्णुमंशैर्मात्राभिः। द्रुमाः पुष्पैः स्वांशैर्वायुमिव। अनुययुः। सुग्रीवादिरूपेण वानरयोनिषु जाता इत्यभिप्रायः ॥

Verse 50
अथ तस्य विशांपत्युरन्ते कामस्य कर्मणः । पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ स्य विशांपत्युर्दशरथस्य संबन्धिनः काम्यस्य कर्मणः पुत्रकामेष्टेरन्तेऽवसानेऽग्नेः पावकात् पुरुषः कश्चिद्दिव्यः पुमान्। ऋत्विजां विस्मयेन सह प्रबभूव प्रादुर्बभूव। तदाविर्भावात्तेषामपि विस्मयोऽभूदित्यर्थः ॥

Showing 41 to 50 of 86 verses