रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 86 verses
Verse 1
पृथिवीं शासतस्तस्य पाकशासवतेजसः । किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पृथिवीमिति॥ पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः। अनूनर्द्धेर्महासमृद्धेस्तस्य दशरथस्य किंचिदूनमीषन्न्यूनं शरदां वत्सराणाम्। `स्यादृतौ वत्सरे शरत्` इत्यमरः (अ.को.3|3|100)। अयुतं दशसहस्रं ययौ। `एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयुतम्। कोट्यर्बुदं च पद्मं स्थानात्स्थानं दशगुणं स्यात्॥` इत्यार्यभट्टः। इदं च मुनिशापात्परं वेदितव्यं, न तु जननात्। `षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक!। दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि॥`(बाल.20।10)इतिरामायणविरोधात्। नाप्यभिषेकात्परम्, तस्यापि `सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम्`(8।94) इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ॥

Verse 2
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् । सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): न चेति॥ स दशरथथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम्। `एष वा अनृणो यः पुत्री` इति श्रुतेः। पितॄणामृणनिर्मुक्तिकारणम्। सद्यः शोक एव तमस्तदपहन्तीति शोकतमोपहम्। अत्र`अभयंकर` इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य `अपे क्लेशतमसोः` (पा.3।2।50)इति डप्रत्ययः। सुताभिधानं सुताख्यं ज्योतिर्नोपलेमे न प्राप च ॥

Verse 3
अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः । प्राङ्यन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अतिष्ठदिति॥ प्रत्ययं हेतुमपेक्षत इति प्रत्ययापेक्षा संततिर्यस्य स तथोक्तः। `प्रत्ययोऽधीनशपथज्ञानविशअवासहेतुषु` इत्यमरः। स नृपः। मन्थात्प्राङ्यन्थनात्पूर्वमनभिव्यक्ताऽदृष्टा रत्नोत्पत्तिर्यस्य सोऽर्णव इव। चिरमतिष्ठत्। सामग्र्यभावाद्विलम्बो न तु वन्ध्यत्वादिति भावः ॥

Verse 4
ऋष्यश्रृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः । आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ऋष्यशृङ्गेति॥ ऋष्यशृङ्गादयः। ऋष्यशृङ्गो नाम कश्चिदृषिः। तदादयः। ऋतुमृतौ वा यजन्तीत्यृत्विजो याज्ञिकाः। `ऋत्विग्दधऋक्-` (पा.3।2।59)इत्यादिना क्विबन्तो निपातः। जितात्मानो जितान्तःकरणाः सन्तः संतानकाङ्क्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम्। `पुत्राच्छ च` (पा.5।1।40)इति छप्रत्ययः। इष्टिं यागमारेभिरे प्रचकमिरे ॥

Verse 5
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् । अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ तस्मिन्नवसरे पुत्रकामेष्टिप्रवृत्तिसमये देवाः। पुलस्त्यस्य गोत्रापत्यं पुमान् पौलस्त्यो रावणः। तेनोपप्लुताः पीडिताः सन्तः निदाघार्ता धर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पान्थाः। `अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः` (पा.3।2।48)इति डप्रत्ययः। छायाप्रधानं वृक्षं छायावृक्षमिव। शाकपार्थिवादित्वात्समासः। हरिं विष्णुमभिजग्मुः ॥

Verse 6
ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते देवाश्चोदन्वन्तं समुद्रम्। `उदन्वानुदधौ च` (पा.8।2।13) इति निपातः। प्रापुः। आदिपूरुषो विष्णुश्च बुबुधे। योगनिद्रां जहावित्यर्थः। गमनप्रतिबोधयोरविलम्बार्थौ चकारौ। तथा हि-अव्याक्षेपो गम्यस्याव्यासङ्गः। अविलम्ब इति यावत्। भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्गं हि॥ उक्तं च-`अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम्` इति॥

Verse 7
भोगिभोगासनासीनं ददृशुस्तं दिवौकसः । तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भोगीति॥ द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः। यद्वा, -`दिव`शब्दोऽदन्तोऽप्यस्ति। तथा च बुद्धचरिते-`न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम्`इति । तत्र `दिवु क्रीडादौ`इति धातोः `इगुपध-` (पा.3।1।135) इति कः। दिवमोक एषामिति विग्रहः। भोगिनः शेषस्य भोगः शरीरम्। `भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।` इत्यमरः (अ.को.3|3|28)। स एवासनं सिंहासनम्। तत्रासीनमुपविष्टम्। आसोः शानच्। `ईदासः` (पा.7।2।83)इतीकारादेशः। तस्य भोगिनः फणामण्डले य उदर्चिष उद्रश्मयो मणयस्तैर्द्योतितविग्रहं तं विष्णुं ददृशुः ॥

Verse 8
श्रियः पद्मनिषण्णायाःऋ क्षौमान्तरितमेखले । अङअके निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥
सञ्जीविनीटीका (मल्लिनाथः): श्रिय इति॥ कीदृशं विष्णुम्? पद्मे निषण्णाया उपविष्टायाः श्रियः क्षौमन्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन्। आस्तीर्णौ करपल्लवौ वाणिपल्लवौ यस्मिन्। विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते। तस्मिन्नङ्के निक्षिप्तौ चरणौ येन तम् ॥

Verse 9
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रबुद्धेति॥ पुनः कीदृशम्? प्रबुद्धे विकसिते पुण्डरीके इवाक्षिणी यस्य त्तम्। दिवसे तु पुण्डरीकमेवाक्षि यस्येति विग्रहः। बालातपनिभमंशुकं यस्य तम्। पीताम्बरधरमित्यर्थः। अन्यत्र, -बालातपव्याजांशुकमित्यर्थः। `निभो व्याजसदृक्षयोः` इति विश्वः। प्रकृष्ट आरम्भो योगो येषां ते प्रारम्भा प्रकृष्टोद्योगा योगिनः। तेषां सुखदर्शनम्। अन्यत्र, -प्रारम्भ आदौ सुखदर्शनं शारदं शरत्संबन्धिनं दिवसमिव स्थितम्॥

Verse 10
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रभेति॥ पुनः किंविधम्? प्रभयाऽनुलिप्तमनुरञ्जितं श्रीवत्सं नाम लाञ्छनं येन तम्। लक्ष्म्या विभ्रमदर्पणं कौस्तुभ इत्याख्या यस्य तम्। अपां समुद्राणां सारं स्थिरांशम्। अम्मयमणिमित्यर्थः। बृहतोरसा बिभ्राणम् ॥

Showing 1 to 10 of 86 verses