पृथिवीं शासतस्तस्य पाकशासवतेजसः । किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥
Metre: अनुष्टुप्
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् । सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥
Metre: अनुष्टुप्
अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः । प्राङ्यन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥
Metre: अनुष्टुप्
ऋष्यश्रृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः । आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ॥
Metre: अनुष्टुप्
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् । अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥
Metre: अनुष्टुप्
ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥
Metre: अनुष्टुप्
भोगिभोगासनासीनं ददृशुस्तं दिवौकसः । तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् ॥
Metre: अनुष्टुप्
श्रियः पद्मनिषण्णायाःऋ क्षौमान्तरितमेखले । अङअके निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥
Metre: अनुष्टुप्
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥
Metre: अनुष्टुप्