रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 82 verses
Verse 1
पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः । दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): पितुरिति॥ समाधिना संयमेन जितेन्द्रियः। `समाधिर्नियमे ध्याने` इति कोशः। यमवतां संयमिनामवतां रक्षतां राज्ञां च धुर्यग्रे स्थितो महारथः। `एको दश सहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते॥` इति। दशरथः पितुरनन्तरमुत्तरकोसलाञ्जनपदान्समधिगम्य प्रशशास। अत्र मनुः(7।144)-`क्षत्रियस्य परो धर्मः प्रजानां परिपालनम्` इति। द्रुतविलम्बितमेतद्वृत्तम्। तल्लक्षणम्-`द्रुतविलम्बितमाह नभौ भरौ` इति ॥

Verse 2
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् । अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रुकरौजसः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अधिगतमिति॥ अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागतं सनगरं नगरजनसहितं प्रकृतिमण्डलं जानपदमण्डलम्। अत्र `प्रकृति`शब्देन प्रजामात्रवाचिना नगरशब्दयोगाद्गोबलीवर्दन्यायेन जानपदमात्रमुच्यते। यद्यस्माद्विधिवद्यथाशास्त्रमपालयत्। ततो हेतोः। रन्ध्रं करोतीति रन्ध्रहेतुरित्यर्थः। `कृञो हेतुताच्छील्यानुलोम्येषु` (पा.3।2।20)इति टप्रत्ययः। नगस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः। `कुमारः क्रौञ्चदारणः` इत्यमरः (अ.को.1|1|50)। तदोजसस्तत्तुल्यबलस्यास्य दशरथस्य गुणवत्तरमभवत्। तत्पौरजानपदमण्डलं तस्मिन्नतीवासक्तमभूदित्यर्थः ॥

Verse 3
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् । बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): उभयमिति॥ मनस ईषिणो मनीषिणो विद्वांसः। पृषोदरादित्वात्साधुः। बलनिषूदनमिन्द्रम्। दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थं पतिं दशरथं चेत्युभयमेव। समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी। तस्य भावः समयवर्षिता तया हेतुना कृतकर्मणां स्वकर्मकारिणाम्। नुदतीति नुत्। `इगुपधज्ञाप्रीकिरः कः` (पा.3।2।135) इति कप्रत्ययः। श्रमस्य नुदं श्रमनुदम्। क्विबन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यादिति वदन्ति ॥

Verse 4
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः । क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): जनपद इति॥ शमरते शान्तिपरेऽमरतेजस्यजनन्दने दशरथे पार्थिवे पृथिव्या ईश्वरे सति। `तस्येश्वरः` (पा5।1।42)इत्यण्प्रत्ययः। जनपदे देशे गदो व्याघिः। `उपतापरोगव्याधिगदामयाः` इत्यमरः (अ.को.2|6|51)। पदं नादधौ। नाचक्रामेत्यर्थः। सपत्नजः शत्रुजन्योऽभिभवः कुत एव? असंभावित एवेत्यर्थः। क्षितिः फलवत्यभूञ्च ॥

Verse 5
दशदिगन्तजिता रघुणा यथआ श्रइयमपुष्यदजेन ततः परम् । तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): दशेति॥ मही। दशदिगन्ताञ्जितवानिति दशदिगन्तजित्। तेन रघुणा यथा श्रियं कान्तिमपुष्यत्। ततः परं रघोरनन्तरमजेन च यथा श्रियमपुषअयत्। तथैवाहीनपराक्रमं न हीनः पराक्रमो यस्य तमन्यूनपराक्रमं तं दशरथमिनं स्वामिनमधिगम्य पुनर्न बभाविति न। बभावेवेत्यर्थः। द्वौ नञौ प्रकृतमर्थं गमयतः ॥

Verse 6
समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः । अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): समतयेति॥ नराधिपो दशरथः समतया समवर्तित्वेन। मध्यस्थत्वेनेत्यर्थः। वसुवृष्टेर्धनवृष्टेर्विसर्जनैः। असतां दुष्टानां नियमनान्निग्रहाञ्च। सवरुणौ वरुणसहितौ यमपुम्यजनेश्वरौ यमकुबेरौ यमकुबेरवरुणान्। यथासंख्यमनुययावनुचकार। रुचा तेजसाऽरुणाग्रसरमरुणसारथिं सूर्यमनुययौ ॥

Verse 7
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु । तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ उदयाय यतमानमभ्युदयार्थं व्याप्रिमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्ष। `आक्षोटनं मृगव्यं स्यादाखोटो मृगया स्त्रियाम्` इत्यमरः (अ.को.3|3|180)। दुष्टमासमन्तादुदमस्येति दुरोदरं द्यूतं च नापाहरत्। `दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्` इत्यमरः (अ.को.3|3|180)। शशिनः प्रतिमा प्रतिबिम्बमाभरणं यस्य तन्मधु नापाहरत्। न वेति पदच्छेदः। `वा`शब्दः समुञ्चये। नमयौवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत्। जातावेकवचनम्। अत्र मनुः(7।50)`पानमक्षाः स्त्रियश्चेति मृगया च यथाक्रमम्। एतत्कष्टतमं विद्याञअचतुष्कं कामजे गणे`॥ इति॥

Verse 8
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि । न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ तेन राज्ञा प्रभवति प्रभौ सति वासवेऽपि कृपणा दीना वाङ् नेरिता नोक्ता। परिहासकथास्वपि वितथाऽनृता वाङ् नेरिता। किंचापरुषा रोषशून्येन तेन सपत्नजनेष्वपि शत्रुजनेष्वपि परुषाक्षरं निष्ठुराक्षरं यथा तथा वाङ् नेरिता। किमुतान्यत्रेति सर्वत्र `अपि`शब्दार्थः। किंत्वदीना सत्या मधुरैव वागुक्तेति फलितार्थः ॥

Verse 9
उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः । स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): उदयमिति॥ वसुधाधिपा राजानः। उद्वहतीत्युद्वहो नायकः। पचाद्यच्। रघूणामुद्वहो रघुनायकः। तस्माद्रघुनायकादुदयं बृद्धिम्। अस्तमयं नाशं च। इत्युभयमानशिरे लेभिरे। कुतः? हि यस्मात्, स दशरथो निदेशमाज्ञामलङ्घ्यताम्। शोभनं हृदयमस्येति सुहृन्मित्रमभूत् `सुहृद्दुर्हृदौ मित्रामित्रयोः` (पा.5।4।150) इति निपातः। प्रतिगर्जतां प्रतिस्पर्धिनाम्। अय इव हृदयं यस्येति अयोहृदयः कठिनचित्तोऽभूत्। आज्ञाकारिणो रक्षति, अन्यान्मारयतीत्यर्थः ॥

Verse 10
अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः । जयमघोषयदस्य तु केवलं गजवती जवतीव्रहया चमूः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अजयदिति॥ अधिज्यशरासनः स दशरथ उदधिनेमिं समुद्रवेष्टानां मेदिनीमेकरथेनाजयत्। स्वयमेकरथेनाजैषीदित्यर्थथः। गजवती गजयुक्ता। जवेन तीव्रा जवाधिका हया यस्यां सा चमूस्त्वस्य नृपस्य केवलं जयमघोषयदप्रथयत्। स्वयमेकंवीरस्य चमूरुपकरणमात्रमिति भावः॥

Showing 1 to 10 of 82 verses