रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 95 verses
Verse 1
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव। `कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले` इति शाश्वतः। तस्याजस्य। अपरामिन्दुमतीमिव। वसुधामपि हस्तगामिनीमकरोत्। अस्मिन्सर्गे वैतालीयं छन्दः ॥

Verse 2
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् । तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): दुरितैरिति॥ नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरपि आत्मसात् स्वाधीनम्। `तदधीनवचने` (पा.5।4।54) इति सातिप्रत्ययः। कर्तुं प्रयतन्ते हि। प्रवर्तन्त एवेत्यर्थः। `हि` शब्दोऽवधारणे। `हि हेताववधारेण` इत्यमरः (अ.को.3|3|272)। उपस्थितं स्वतःप्राप्तं तद्राज्यम्। अजः पितुराज्ञेति हेतोरग्रहीत् स्वीचकार। भोगतृष्णया तु नाग्रहीत् ॥

Verse 3
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् । विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अनुभूयेति॥ मेदिनी भूमिर्महिषी च ध्वन्यते। वसिष्ठेन संभृतैः सलिलैस्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्बृहणेन। आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते। कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव। न चैतावता पूर्वेषामपकर्षः;प्रशंसापरत्वात्। `सर्वत्र जयमन्विच्छेत् पुत्रादिच्छेत्पराजयम्` इत्यङ्गीकृतत्वाञ्चज ॥

Verse 4
स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृताक्रियः । पवनाग्निसमागमो ह्ययं सहतिं ब्रह्म यदस्त्रतेजसा ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अथर्वविदाऽथर्ववेदाभिज्ञेन गुरुणा वसिष्ठेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः। सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव। तथा हि-अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि तत्कल्प इत्यर्थः। `पवनाग्नि`इत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् `द्वन्द्वे घि` (पा.2।232)इति नाग्निशब्दस्य पूर्वनिपातः। तथा च काशिकायाम्-`अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्`इति। क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः। अत्र मनुः-`नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते। ब्रह्मक्षत्रे तु संयुक्ते हहामुत्र च वर्धते॥` इति ॥

Verse 5
रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): रघुमिति॥ प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त। न किंचिद्भेदकमस्तीत्यर्थः। कुतः? हि यस्मात् सोऽजस्तस्य रघोः केवलामेकां श्रियं न प्रतिपेदे। किंतु सकलान्गुणान् शौर्यदाक्षिण्यदीनपि प्रतिपेदे। अतस्तद्गुणयोगात्तंद्बुद्धिर्यथेत्यर्थः ॥

Verse 6
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् । पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अधिकमिति॥ द्वयमेव शुभंयुना शुभवता। `शुभंयुस्तु शुभान्वितः` इत्यमरः (अ.को.3|1|50)। `अहंशुभमोर्युस्` (पा.5।2।140) इति युस्प्रत्ययः। द्वितयेन संगतं युतं सदधिकं शुशुभे। किं केनेत्याह-पदमिति। पैतृकं पितुरागतम्। `ऋतष्ठञ्` (पा.4।3।78)इति ठञ्प्रत्ययः। ऋद्धं समृद्धं पदं राज्यमजेन अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च। `विजयो हीन्द्रियजयस्तद्युक्तः शास्त्रमर्हति` इति कामभ्दकः। राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥

Verse 7
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहरणां वधूमिव ॥
Metre: गीति
सञ्जीविनीटीका (मल्लिनाथः): सदयमिति॥ सहाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनीं भुवम्। नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव। सहसा बलात्कारेण चेत्। `सहो बलं सहा मार्गः` इत्यमरः (अ.को.3|3|247)। इयं मेदिनीर्वा। उद्वेगं भयं व्रजेदिति हेतोः। सदयं सकृपं बुभुजे भुक्तवान्। `भुजोऽनवने` (पा.1।3।66) इत्यात्मनेपदम् ॥

Verse 8
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अहमिति॥ प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः। अथवा, -प्रकृतिष्वित्यस्याहमित्यनेनान्वयः। व्यवधानं तु सह्यम्। सर्वोऽपि जनः प्रकृकतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः। `मतिबुद्धिपूजार्थेभ्यश्च` (पा.3।2।188)इति वर्तमाने क्तः, `क्तस्य च वर्तमाने` (पा.2।3।67)इति षष्ठी। इत्यचिन्तयदमन्यत। उदधेर्निम्रगाशतेष्विवास्य नृपस्य कर्तुः। `कर्तृकर्मणोः कृति` (पा.2।3।65)इति कर्तरि षष्ठी। क्वचिदपि जनविषये विमाननाऽवगणना तिरस्कारो नाभवत्, यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः ॥

Verse 9
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न। भूयसा मृदुरतिमृदुरपि न। कुंतु पुरस्कृतमध्यमक्रमः सन्, मध्यमपरिपाटीमवलम्ब्येत्यर्थः। पवमानो वायुः पृथिवीरुहांस्तरूनिव नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास। अत्र कामन्दकः-`मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः। तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः ॥` इति ॥

Verse 10
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया । विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ रघुरात्मजं पुत्रमात्मवत्तया। निर्विकारमनस्कतयेत्यर्थः। `उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते। आत्मवान्सत्त्ववानुक्तः` इत्युत्पलमालायाम्। प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु। अनित्येष्वित्यर्थः। `धर्मादनिच्केवलात्` (पा.5।4।124) इत्यनिच्प्रत्ययः समासान्तः। त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ॥

Showing 1 to 10 of 95 verses