रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 91 to 95 of 95 verses
Verse 91
स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् । तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥
Metre: तोटकम्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽज उदारमतेर्विनेतुर्गुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनिं वसिष्ठशिष्यं विससर्ज प्रेषयामास। किंतु तद्वचः शोकघने दुःखसान्द्रेऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियातमिव प्रतिनिवृत्तं किमु-इत्युत्प्रेक्षा। तोटकवृत्तमेतत्-`इह तोटकमम्बुधिसैः प्रथितम्` इति तल्लक्षणात् ॥

Verse 92
तेनाष्टौ परिगमिताः समाः कथंचिद्वालत्वादवितथसूनृतेन सूनोः । सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥
Metre: प्रहर्षिणी
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ अवितथं यथार्थं सूनृतं प्रियवचनं यस्य तेनाजेन। सूनोः पुत्रस्य बालत्वात्। राज्याक्षमत्वादित्यर्थः। प्रियाया इन्दुमत्याः सादृश्यं वस्त्वन्तरगतमाकारसाम्यं प्रतिकृतिश्चित्रं तयोर्दर्शनैः। स्वप्नेषु क्षणिकाः क्षणभङ्गुरो ये समागमोत्सवास्तैश्च। कथंचित् कृच्छ्रेण। अष्टौ समा वत्सराः। `संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः` इत्यमरः (अ.को.1|4|22)। परिगमिता अतिवाहिताः। उक्तं च-`वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि। तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः॥` इति। प्रकृते सादृश्यादित्रितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम्। प्रहर्षिणीवृत्तमेतत् ॥

Verse 93
तस्यता प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद । प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमने त्वरया स मेने ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ शोक एव शङ्कुः कीलः। `शङ्कुः कीले शिवेऽस्त्रे च` इति विश्वः। तस्याजस्य हृदयम्। प्लक्षप्ररोहः सौधतलमिव। प्रसह्य बलात्किल बिभेद। सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्यवसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने। तद्विरहस्यातिदुःसहत्वात्तत्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ॥

Verse 94
सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम् । रोगापसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): सम्यगिति॥ अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणार्हवयस्कः। `वयसि च` (पा.3।2।10)इत्यच्प्रत्ययः। तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यर्हम्। यथाशास्त्रमित्यर्थः। `तदर्हम्` (पा.5।1।117) इति वतिप्रत्ययः। आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसतिं दुःखावस्थइतिं मुमुक्षुर्जिहासुः सन्। प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव। `प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि` इति विश्वः। अत्र पुराणवचनम्-`समासक्तो भवेद्यस्तु पातकौर्महदादिभिः। दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः। स्वयं देहविनाशस्य काले प्राप्ते महामतिः। आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया। प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा। एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु। नराणामथ नारीणां सर्ववर्णेषु सर्वदा॥` इति। अनयोर्वसन्ततिलकाच्छन्दः। तल्लक्षणम्-`उक्ता वसन्ततिलका तभजा जगौ गः` इति ॥

Verse 95
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥
Metre: मन्दाक्रान्ता
सञ्जीविनीटीका (मल्लिनाथः): तीर्थ इति॥ असावजो जह्नुकन्यासरय्वोस्तोयानां जलानां व्यतिकरेण संभेदेन भघवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरगणनायां लेख्यं लेखनम्। `तयोरेव कृत्यक्तखलर्थाः` (पा.3।4।70)इति भावार्थे ष्यत्प्रत्ययः। आसाद्य प्राप्य। पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन्। नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत। `यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि॥` इति स्कान्दे। मन्दाक्रान्ताच्छन्दः। तल्लक्षणम्-`मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्गुरू चेत्` इति॥

Showing 91 to 95 of 95 verses