स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् । तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥
Metre: तोटकम्
तेनाष्टौ परिगमिताः समाः कथंचिद्वालत्वादवितथसूनृतेन सूनोः । सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥
Metre: प्रहर्षिणी
तस्यता प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद । प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमने त्वरया स मेने ॥
Metre: वसन्ततिलका
सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम् । रोगापसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव ॥
Metre: वसन्ततिलका
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥
Metre: मन्दाक्रान्ता