रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 95 verses
Verse 71
अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् । विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ स्वजनो बन्धुवर्गः। तस्याजस्याङ्कत उत्सङ्गात् कथंचिदपिनीय। तद्दिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्ताम्। तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मा अनलायाग्नये विससर्ज विसृष्टवान्। `क्रियाग्रहणमपि कर्तव्यम्` इति क्रियामात्रप्रयोगे संप्रदानत्वाञ्चतुर्थी ॥

Verse 72
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): प्रमदामिति॥ नृपतिरजः सन्नपि विद्धानपि शुचा शोकेन प्रमदामनुप्रमदया सह संस्थितो मृत इति वाच्यदर्शनान्निन्दादर्शनाद्देव्येन्दुमत्या सह शरीरमग्निसादग्न्यधीनं न चकार। `तदधीनवचने` (पा.5।4।54) इति सातिप्रत्ययः। जीविताशया प्राणेच्छया तु नेति ॥

Verse 73
अथ तेन दशाहतः परे गुणशेषामपदिश्य भामिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ विदुषा शास्त्रज्ञेन तेनाजेन। गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमपदिश्योद्दिश्य। दशानामह्रां समाहारो दशाहः। `तद्धितार्थ-` (पा.2।1।51) इत्यादिना समासः। समाहारस्यैकत्वादेकवचनम्। `राजाहःसखिभ्यष्टच्` (पा.5।4।51) इति टच्। `रात्राह्राहाः पुंसि` (पा.2।4।29) इति पुंवत्। ततस्तसिल्। तस्माद्दशाहतः पर ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः। `दशाहतः` इत्यत्र `विप्रः शुद्ध्योद्दशाहेन द्वादशाहेन भूमिपः`(5।83) इति मनुवचनविरोधो नाशङ्कनीयः; तस्य निर्गुणक्षत्रियविषयत्वात्। गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः-`क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः`इति। सूच्यतेऽस्यापि गुणवत्त्वं `विदुषा` इत्यनेन ॥

Verse 74
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ तयेन्दुमत्या विना। क्षणदाया रात्रेरपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः। प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः। दृश्यत इति कर्मार्थे ल्युट्। सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशोकस्य परिवाहं जलोच्छ्वासमिवावलोकयन्। `जलोच्छ्वासाः परीवाहाः` इत्यमरः (अ.को.1|10|10)। स्वदुःखपूरातिशयमिव पश्यन् पुरीं विवेश। `वधू`ग्रहणात्तस्यामिन्दुमत्यां सख्याभिमानादजसमानदुःखसूचकपरीवाहोक्तिर्निर्वहति ॥

Verse 75
अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः । अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ आश्रमे स्वकीयाश्रमे स्थितः सन्। तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाञ्चित्तैकाग्र्याद्विजज्ञिवाञ्ज्ञातवान्। `क्वसुश्च` (पा.3।2।107) इति क्वसुप्रत्ययः। इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोधयत्किल। बुधेर्ण्यन्ताण्णिचि लङ् ॥

Verse 76
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् । न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): असमाप्तेति॥ यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्निपि । `विदेः शतुर्वसुः` (पा.7।1।36) इति वस्वादेशः। `न लोक-` (पा.2।3।69)इत्यादिना षष्ठीप्रतिषेधः। पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम्। समाश्वासयितुमित्यर्थः। स्वयं नोपस्थितो नागतः ॥

Verse 77
मयि तस्य सुवृत्त! वर्तते लघुसंदेशपदा सरस्वती । श्रृणु विश्रुतसत्त्वसार! तां हृदि चैनामुपधातुमर्हसि ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): मयीति॥ हे सुवृत्त सदाचार! संदिश्यत इति संदेशः संदेष्टव्यार्थः। तस्य पदानि वाचकानि लघूनि संक्षिप्तानि संदेशपदानि यस्यां सा लघुसंदेशपदा तस्य मुनेः सरस्वती वाक् मयि वर्तते। हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय। तां सरस्वतीं शुणु। एनां वाचं हृद्युपधातुं धर्तुं चार्हसि ॥

Verse 78
पुरुषस्य पदेष्वजन्मनः समतीतं च भवञ्च भावि च । स हि निष्प्रतिधेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): पुरुषस्येति॥ अजन्मनः पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु विक्रमषु। त्रिभुवनेष्वपीत्यर्थः। समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यञ्चेति त्रितयं स मुनिर्निष्प्रतिधेनाप्रतिबन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्ट्या पश्यति हि। अतस्तदुक्तिषु न संशयितव्यमित्यर्थथः॥

Verse 79
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): चरत इति॥ पुरा किल दुश्चरं तीव्रं तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामकात्कस्माञ्चिदृषेः परिशङ्कितो भीतः। कर्तरि क्तः। `भीत्रार्थानां भयहेतुः` (पा.1।4।25)इत्यपादानात्पञ्चमी। हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरिणीं नाम सुराङ्गनामस्मै तृणबिन्दवे प्रजिघाय प्रेरितवान् ॥

Verse 80
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् । अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स मुनिः। शमः शान्तिरेव वेला मर्यादा यस्याः। प्रलयोर्मिणा प्रलवकासतरङ्गेण। शमविघातकेनेत्यर्थः। `अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि` इत्यमरः (अ.को.3|3|207)। तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना। प्रमुखेऽग्रे आविष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप ॥