अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् । विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥
Metre: वियोगिनी
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥
Metre: वियोगिनी
अथ तेन दशाहतः परे गुणशेषामपदिश्य भामिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥
Metre: वियोगिनी
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥
Metre: वियोगिनी
अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः । अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥
Metre: वियोगिनी
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् । न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम् ॥
Metre: वियोगिनी
मयि तस्य सुवृत्त! वर्तते लघुसंदेशपदा सरस्वती । श्रृणु विश्रुतसत्त्वसार! तां हृदि चैनामुपधातुमर्हसि ॥
Metre: वियोगिनी
पुरुषस्य पदेष्वजन्मनः समतीतं च भवञ्च भावि च । स हि निष्प्रतिधेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥
Metre: वियोगिनी
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥
Metre: वियोगिनी
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् । अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि ॥
Metre: वियोगिनी