रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 95 verses
Verse 61
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): मिथुनमिति॥ ननु हे प्रिये! सहकारस्तरुविशेषः फलिनी प्रियंगुलता चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यमानि। अनयोः फलिनी-सहकारयोर्विवाहसत्क्रियां विवाहमङ्गलमविधायाकृत्वा गम्यत इत्यसांप्रतमुक्तम्। मातृहीनानां न किंचित्सुखमस्तीति भावः ॥

Verse 62
कुसुमं कृतदोहदस्त्वया यदशोकोऽयतमुदीरयिष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम्? ॥
Metre: गीति
सञ्जीविनीटीका (मल्लिनाथः): कुसुममिति॥ वृक्षादिपोषकं दोहदम्। त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरममाभरणभूतं तत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्ध्यतां नेष्यामि? `निवापः पितृदानं स्यात्` इत्यमरः ॥

Verse 63
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् । अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि! शोच्यसे ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): स्मरतेति॥ अन्यदुर्लभम्। किंतु स्मर्तव्यमेवेत्यर्थः। सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तद्वर्षिणाऽमुना पुरोवर्तिनाऽशोकेन। हे सुगात्रि!`अङ्गगात्रकण्ठेभ्यश्च` इति वक्तव्यान्ङीप्। त्वं शोच्यसे ॥

Verse 64
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया । असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि! सुप्यते? ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): तवेति॥ तव निःश्वसितानुकारिभिर्बकुलैर्बकुसुमैर्मया समं सार्धमर्धचितामर्धं यथा तथा रचितां विलासमेखलामसमाप्यापूरयित्वा। किंनरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किन्नरकण्ठि!`अङ्गगात्रकण्ठेभ्यश्च` इति ङीप्। किमिदं सुप्यते निद्रा क्रियते? `वचिस्वपि-` (पा.6।1।15)इत्यादिना संप्रसारणम्। अनुचितमिदं स्वपनमित्यर्थः ॥

Verse 65
समदुःखसुखः सखीजनः प्रतिपञ्चन्द्रनिभोऽयमात्मजः । अहमेकरसस्तथापि ते व्यवसायः प्रतिपात्तिनिष्ठुरः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): समेति॥ सखीजनः समदुःखसुखः, त्वद्दुःखेन दुःखी, त्वत्सुखेन सुखीत्यर्थः। अयमात्मजो बालः, प्रतिपञ्चन्द्रनिभः। दर्शनीयो वर्धिष्णुश्चेत्यर्थः। `प्रतिपत्`शब्देन द्वितीया वक्षअयते; प्रतिपदि चन्द्रस्यादर्शनात्। अहमेकरसोऽभिन्नरामः। `शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः` इत्यमरः (अ.को.3|3|242)। तथापि। जीवितसामग्रीसत्त्वेऽपीत्यर्थः। ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुरः क्रूरः। `प्रतिपत्तिः पदप्राप्तौ प्रकृतौ गौरवेऽपि च। प्रागल्भ्ये च प्रबोधे च` इति विश्वः। स्मर्तुं न् शक्यः किमुताधिकर्तुमिति भावः ॥

Verse 66
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): धृतिरिति॥ अद्य मे धृतिर्धैर्यं प्रतीतिर्वाऽस्तं नाशमिता। रतिः क्रीडाच्युता गता। गेयं गानं विरतम्। ऋतुर्वसन्तदिर्निरुत्सवः। आभरणानां प्रयोजनं गतमपगतम्। शेतेऽस्मिन्निति शयनीयं तल्पम्। `कृत्यल्युटो बहुलम्` (पा.3।3।113)इत्यधिकरणार्थेऽनीयर्प्रत्ययः। परिशून्यम्। त्वां विना सर्वमपि निष्फलमिति भावः ॥

Verse 67
गृहीणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥
सञ्जीविनीटीका (मल्लिनाथः): गृहीणीति॥ त्वमेव गृहिणी दाराः। अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः। सचिवो बुद्धिसहायो मन्त्री। सर्वो हितोपदेशस्त्वदायत्त इत्यनेनोच्यते। मिथो रहसि सखी नर्मसचिवः। सर्वोपभागस्त्वदाश्रय इत्यमुना प्रकटितम्। ललिते मनोहरे कलाविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या। प्रियत्वं प्राज्ञत्वादित्यभिसंधिः। सर्वानन्दोऽनेन त्वन्निबन्धन इत्युद्वाटितम्। अतस्त्‌वां समष्टिरूपां हरताऽत एव करुणाविमुखेन कृपाशून्येन मृत्युना मे मत्संबन्धि किं वत्सु न हृतं वद। सर्वमपि हृतमित्यर्थः ॥

Verse 68
मदिराक्षि! मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): मदिरेति॥ माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि `नार्यो मदिरलोचनाः` इत्यादिप्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे आक्षिणी यस्यास्तत्संबुद्धिर्हे मदिराक्षि! मदाननेनार्पितं रसवत् स्वादुतरं मधु मद्यं पीत्वा बाष्पदूषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलिं तिलोदकाञ्जलिं कथं न्वननन्तरं पास्यसि? तदनन्तरमिदमनर्हमित्यर्थः। यथाह भट्टमल्लः-`अनुपानं हिमजलं यवगोधूमनिर्मिते। दध्नि मद्ये विषे द्राक्षे पिष्टे पिष्ठमयेऽपि च॥` इति । तञ्चेहैव युज्यते। इदं तूष्णं लोकान्तरोपयोगि चेत्यायुर्वेदविराधात्कथमनुपास्यसीति भावः ॥

Verse 69
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): विभव इति॥ विभव ऐश्वर्ये सत्यपि त्वया विनाऽजस्यैतावदेव सुखं गण्यताम्। यावत्त्या सह भुक्ते ततोऽन्यन्न किंचिद्भविष्यतीत्यर्थथः। कुतः? विलोभनान्तरैरन्यैर्विशेषेण लोभजनकवस्तुभिरैश्वर्यादिभिरहृतस्यानाकृष्टस्य मम सर्वे विषया भोगादयः। त्वदाश्रयास्त्वदधीनाः। त्वां विना मे न किंचिद्रोचत इत्यर्थः ॥

Verse 70
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत्पृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): विलपन्निति॥ कोसलानामधिपोऽज इति करुणः शोकरसः स एवार्थस्तेन ग्रथितं संबद्धं यथा तथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्, पृथिवीरुहान् वृक्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैर्दूषितानकरोत्। अचेतनानप्यरोदयदित्यर्थः ॥