मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥
Metre: वियोगिनी
कुसुमं कृतदोहदस्त्वया यदशोकोऽयतमुदीरयिष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम्? ॥
Metre: गीति
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् । अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि! शोच्यसे ॥
Metre: वियोगिनी
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया । असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि! सुप्यते? ॥
Metre: वियोगिनी
समदुःखसुखः सखीजनः प्रतिपञ्चन्द्रनिभोऽयमात्मजः । अहमेकरसस्तथापि ते व्यवसायः प्रतिपात्तिनिष्ठुरः ॥
Metre: वियोगिनी
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥
Metre: वियोगिनी
गृहीणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥
मदिराक्षि! मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥
Metre: वियोगिनी
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥
Metre: वियोगिनी
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत्पृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान् ॥
Metre: वियोगिनी