रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 71 verses
Verse 61
प्रियंवदात्प्राप्तमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः । गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रियंवदादिति। अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नवितृष्णः। जागरूक इत्यर्थः। असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तं गान्धर्वं गन्धर्वदेवताकम्। `सास्य देवता` (पा.4।2।24) इत्यण्। प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रायुङ्क्त प्रयुक्तवान् ॥

Verse 62
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो धनुष्कर्षणे चापकर्षणे मूढहस्तमव्यापृतहस्तम्। एकस्मिन्नंसे पर्यस्तं स्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत्। ध्वजस्तम्भेषु निषण्णा अवष्टब्धा देहा यस्य तत्। नरदेवानां राज्ञां सेनैव सैन्यम्। चतुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः। निद्राविधेयं निद्रापरतन्त्रं तस्थौ ॥

Verse 63
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः । तेन स्वहस्तार्जितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरस आस्वादितमाधुर्ये। अतिश्लाघ्य इति भावः। अधरोष्ठे जलजं शङ्खं निवेश्य। `जलजं शङ्खपद्मयोः`इति विश्वः। दध्मौ मुखमारुतेन पूरयामास। तेनौष्ठनिविष्टेन शङ्खेनैकवीरः स स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिबन्निवाबभासे । यशसः शुभ्रत्वादिति भावः ॥

Verse 64
शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः । निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): शङ्खेति॥ शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञतया प्रत्यभिज्ञातत्वान्निवृत्ताः प्रक्पलाय्य संप्रति प्रत्यागताः स्वयोधाः सन्नशत्रुं निद्राणशत्रुं तमजम्। निमीलितानां मुकुलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्कं प्रतिबिम्बचन्द्रमिव ददृशुः ॥

Verse 65
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् । यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सशोणितैरिति॥ संप्रति राघवेण रघुपुत्रेण। पूर्वं रघुणेति भावः। हे राजानः। वो युष्माकं यशो हृतं, जीवितं तु कृपया न हृतम्। न त्वशक्त्येति भावः। इत्येवंरूपा वर्णाः। एतदर्थप्रतिपादकं वाक्यमित्यर्थः। सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन प्रयोजककर्त्रा। पार्थिवानां राज्ञां केतुषु ध्वजस्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः लेखिता इत्यर्थः। क्षिपतेर्ण्यन्तात्कर्मणि क्तः ॥

Verse 66
स चापकोटीनिहितैकबाहु शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ चापकोट्यां निहित एकबाहुर्येन सः। शिरस्त्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः। `चूडाकिरीटं केशाश्च संयता मौलयस्त्रयः` इत्यमरः। ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो बभाषे ॥

Verse 67
इतः परार्भकहार्यशस्त्रान्वैदर्भि! पश्यानुमता मयासि । एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): इत इति॥ हे वैदर्भि इन्दुमति! इत इदानीमर्भकहार्यशस्त्रान् बालकापहार्यायुधान् पराञ्शत्रून्पश्य। मयाऽनुमतासि। द्रष्टुमिति शेषः। एभिर्नृपैरेवंविधेन निद्रारूपेणाहवचेष्टितेन रणकर्मणा मम हस्तगता। हस्तगतवद्दुर्ग्रहेत्यर्थः। त्वं प्रार्थ्यसे। अपजिहीर्ष्यस इत्यर्थः। `एवंविधेन`इत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ॥

Verse 68
तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबगभासे । निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ प्रतिद्वन्द्विभवाद्रिपूत्थाद्विषादाद्दैन्यात् सद्यो विमुक्तं तस्या मुखम्। निःश्वासस्य यो बाष्प ऊष्मा। `बाष्पो नेत्रजलोष्मणोः` इति विश्वः। तस्यापगमाद्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः। आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शो दर्पण इव। आबभासे ॥

Verse 69
हृष्टापि सा विजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् । स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): हृष्टेति॥ सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया बिजिता यतोऽतः प्रियमजं साक्षात् स्वयं नाभ्यनन्दन्न प्रशशंस। किंतु नवैरम्भः षृषतैः पयोबिन्दुभिरभिवृष्टाऽभिषिक्ता स्थल्वकृत्रिमा भूमिः। `जानपदकुण्डगोणस्थल-` (पा.4।1।49)इत्यादिनाऽकृत्रिमार्थे ङीष्। अभ्रवृन्दं मेघसंघं मयूरकेकाभिरिव सखीनां वाग्भिरभ्यनन्दत् ॥

Verse 70
इति शिरसि स वामं पादमाधाय राज्ञामुदवहदनवद्यां तामवद्यादपेतः । रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ नोद्यते नोच्त इत्यवद्यं गर्ह्यम्। `अवद्यपण्य-` (पा.3।1।101)इत्यादिना निपातः। `कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः` इत्यमरः (अ.को.3|1|54)। तस्मादपेतः। निर्दोष इत्यर्थः। सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुदवहदुपानयत्। आत्मसाञ्चकारेत्यर्थः। अयमर्थः `तमुद्वहन्तं पथि भोजकन्याम्`(7।35)इत्यत्र न श्लिष्टः। तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव। एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः॥

Showing 61 to 70 of 71 verses