रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 71 verses
Verse 41
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः । स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): रथ इति॥ सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नदिन विजज्ञे। आत्मपरावबोधः स्वपरविवेकः। योधानामिति शेषः। स्वभर्तॄणां स्वस्वामिनां नामग्रहणान्नामोञ्चारणाद्बभूव। रजोऽन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजह्रुरित्यर्थः ॥

Verse 42
आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आवृण्वत इति॥ लोचनमार्गमावृण्वतो दृष्टिपथमुपरुन्धतः। आजौ युद्धे विजृम्भितस्य व्याप्तस्य। रज एवान्धकारं तस्य। शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत्। `अरुणो भास्करेऽपि स्यात्` इत्यमरः (अ.को.3|3|55)। बालविशेषणं रुधइरसावर्ण्यार्थम् ॥

Verse 43
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ क्षतजेन रुधइरेण छिन्नमूलः। त्याजितभूतलसंबन्ध इत्यर्थः। तस्य क्षतजस्योपरिष्टात् पवनावधूतो वाताहतः स रेणुः। अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव। आबभासे दिदीपे ॥

Verse 44
प्रहारमूर्च्छापगमे रथस्था यन्तॄनुपालभ्य निवर्तिताश्वान् । यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रहारेति॥ रथस्था रथिनः प्रहारेण या मूर्च्छा तस्या अपगमे सति। मूर्च्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा। निवर्तिताश्वान्यन्तॄन् सारथीनुपालभ्य `असाधु कृतम्`इत्यधिक्षिप्य। पूर्वं यैः स्वयं सादिता हताः। लक्षितपूर्वकेतून्। पूर्वदृष्टैः केतुभिः प्रत्यभिज्ञातानित्यर्थः। तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजह्रुः ॥

Verse 45
अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः । संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अपीति॥ अर्धश्चासौ मार्गश्च तस्मिन्नर्धमार्गे परेषां बाणैर्लूनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भृतां पृषत्काः शरा आत्मजवानुवृत्त्या स्ववेगानुबन्धेन हेतुना फलिभिर्लोहाग्रवद्भिः। `सस्यबाणाग्रयोः फलम्` इति विश्वः। पूर्वार्धभागैः। शृणातीति शरुः। तस्मै हितं शरव्यं लक्ष्यम्। `उगवादिभ्यो यत्` (पा.5।1।2)इति यत्प्रत्ययः। `लक्षं लक्ष्यं शरव्यं च` इत्यमरः (अ.को.2|8|86)। संप्रापुरेव, न तु मध्ये पतिता इत्यर्थः॥

Verse 46
आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः । हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आधोरणानामिति॥ गजसंनिपाते गजयुद्धे निशितैरत एव क्षुराग्रैः क्षुरस्याग्रमिवाग्रं येषां तैश्चक्रैरायुधविशेषैर्हृतानि छिन्नान्यपि। श्येनानां पक्षिविशेषाणाम्। `पक्षी श्येनः` इत्यमरः (अ.को.2|8|59)। नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि। आधोरणानां हस्त्यारोहाणाम्। `आधोरणा हस्तिपका हस्त्यारोहा निषादिनः` इत्यमरः (अ.को.2|8|59)। शिरांसि चिरेण पेतुः पतितानि। शिरः पातात्प्रागेवारुह्य पश्चादुत्पततां पक्षिणां नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ॥

Verse 47
पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी । तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पूर्वमिति॥ पूर्वं प्रथमं प्रहर्ताऽश्वसादी तौरंगिकः प्रतिहारेऽक्षममशक्तं तुरंगमस्कन्धे निषण्णदेहम्। मूर्च्छितमित्यर्थः। रिपुं भूयो न जघान पुनर्न प्रजहार। किंतु प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष। `नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम्`(मनु.7।93) इति निषेधादिति भावः ॥

Verse 48
तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः । उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तनुत्यजामिति॥ तनुत्यजाम्। तनुषु निःस्पृहाणामित्यर्थः। वर्मभृतां कवचिनां संबन्धिभिर्बृहत्सु दन्तेषु पतद्भिरत एव विकोशैः पिधानादुद्धृतैः। `कोशोऽस्त्री कुङ्मले खङ्गपिधानेऽथौघदिव्ययोः` इत्यमरः। असिभिः खङ्गैरुद्यन्तमुत्थितमग्निं विविग्ना भीता गजाः करशीकरेण शुण्डादण्डजलकणेन शमयां बभूवुः शान्तं चक्रुः ॥

Verse 49
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): शिलीमुखेति॥ शिलूमुखैर्बाणैरुत्कृत्तानि शिरांस्येव फलानि तैराढ्या संपन्ना। च्युतैर्भ्रष्टैः शिरांसि त्रायन्त इति शिरस्त्राणि शीर्षण्यानि। `शीर्षण्यं च शिरस्त्रे च` इत्यमरः (अ.को.2|8|64)। तैश्चषकोत्तरा चषकः पानपात्रमुत्तरं यस्याः सेव। `चषकोऽस्त्री पानपात्रम्` इत्यमरः (अ.को.2|8|64)। शोणितान्येव मद्यं तस्य कुल्याः प्रवाहा यस्यां सा। `कुल्याल्पा कृत्रिमा सरित्` इत्यमरः (अ.को.1|10|34)। रणक्षितिर्युद्धभूमिर्मृत्योः पानभूमिरिव रराज ॥

Verse 50
उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि । केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उपान्तयोरिति॥ उपान्तयोः प्रान्तयोर्विहंगैः पक्षिभिर्निष्कुषितं खण्डितम्। `इण्निष्ठायाम्` (पा.7।2।47)इतीडागमः। भुजच्छेदं भुजखण्डं तेभ्यां विहंगेभ्य आक्षिप्याच्छिद्य पिशितप्रिया मांसप्रियाऽपि शिवा कोष्ट्री। `शिवः कीलः शिवा क्रोष्ट्री` इति विश्वः। केयूरकोट्याऽङ्गदाग्रेण क्षतस्तालुदेशो यस्याः सा सती। अपाचकारापसारयामास। किरतेः करोतेर्वा लिट्॥