रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 86 verses
Verse 41
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी । येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ आगमवृद्धसेवी श्रुतवृद्धसेवी प्रतीप इति। ख्यात इति शेषः। एष भूपतिस्तस्य कार्तवीर्यस्यान्वये वंशे जातः। येन प्रतीपेन संश्रयस्याश्रयस्य पुंसो दोषैर्व्यसनादिभी रूढमुत्पन्नं श्रियः संबन्धि स्वभावलोला प्रकृतिचञ्चलेत्येवंरूपमयशो दुष्कीर्तिः प्रमृष्टं निरस्तम्। दुष्टाश्रयत्यागशीलायाः श्रियः प्रकृतिचापलप्रवादो मूढजनपरिकल्पित इत्यर्थः। अयं तु दोषराहित्यान्न कदाचिदपि श्रिया त्यज्यत इति भावः ॥

Verse 42
आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वघस्य संभावयत्युत्पलपत्रसाराम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आयोधन इति॥ यः प्रतीप आयोधने युद्धे कृष्णगतिं कृष्णवर्त्मानमग्निं सहायमवाप्य क्षत्रियाणां कालरात्रिम्। संहाररात्रिमित्यर्थः। रामपरश्वधस्य जामददग्न्यपरशोः। `द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः` इत्यमरः (अ.को.2|8|92)। शितां तीक्ष्णां धारां मुखम्। `खङ्गादीनां च निशितमुखे धारा प्रकीर्तिता`इति विश्वः। उत्पलपत्रस्य सार इव सारो यस्यास्तां तथाभूतां संभावयति मन्यते। एतन्नगरजिगीषयागतान्रिपून्स्वयमेव धक्ष्यामीति भगवता वैश्वानरेण दत्तवरोऽयं राजा दह्यन्ते च तथागताः शत्रव इति भारते (वन.अ.117)कथानुसंधेया॥

Verse 43
अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् । प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): अस्येति॥ दीर्घबाहारस्य प्रतीपस्याङ्कलक्ष्मीर्भव। एनं वृणीष्वेत्यर्थः। अनेनायं विष्णुतुल्य इति ध्वन्यते। माहिष्मती नामास्य नगरी। तस्या वप्रः प्राकार एव नितम्बः। तस्य काञ्चीं रशनाभूतां जलानां वेण्या प्रवाहेण रम्याम्। `ओघः प्रवाहो वेणी च` इति हलायुधः। रेवां नर्मदां प्रासादजालैर्गवाक्षैः। `जालं समूह आनायो गवाक्षक्षारकावपि` इत्यमरः। प्रेक्षितुं काम इच्छाऽस्ति यदि॥

Verse 44
तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ प्रकामं प्रियं प्रीतिकरं दर्शनं यस्य सोऽपि। दर्शनीयोऽपीकत्यर्थः। स क्षितीशः। शरदा प्रमृष्टाम्बुधरोपरोधो निरस्तमेघावरणः पर्याप्तरुचिं नाजीजनदित्यर्थः। लोको भिन्नरुचिरिति भावः ॥

Verse 45
सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् । आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ लोकान्तरे स्वर्गादावपि गीतकीर्तिमाचारेण शुद्धयोरुभयोवंशयोर्मातापितृकुलयोर्दीपं प्रकाशकम्। `उभयवंश`इत्यत्रोभयपक्षवन्निर्वाहः। शूरसेनानां देशानामधिपतिं सुषेणं नाम नृपतिमुद्दिश्याभिसंधाय शुद्धान्तरक्ष्याऽन्तःपुरपालिकया। `कर्मण्यण्` (पा.3।2।1)। `टिड्ढाणञ्-` (पा.4।1।15)इति ङीप्। सा कुमारी जगदे ॥

Verse 46
नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण । सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नीपेति॥ यज्वा विधइवदिष्टवान्। `सुयजोर्ङ्वनिप्` (पा.3।2।103)इति ङ्वनिप्प्रत्ययः। एष पार्तिवः। नीपो नामान्वयोऽस्येति नीपान्वयो नीपवंशजः। यं सुषेणमाश्रित्य गुणैर्ज्ञानमौनादिभिः। शान्तं प्रसन्नं सिद्धाश्रममृष्याश्रममेत्य प्राप्य सत्त्वैर्गजसिंहादिभिः प्राणिभिरिव। नैसर्गिकः स्वाभाविकोऽपि परस्परेण विरोध उत्ससृजे त्यक्तः ॥

Verse 47
यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्टा । हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): यस्येति॥ हिमांशोः कान्तिश्चन्द्रकिरणा इव नयनयोरभिरामा यस्य सुषेणस्या कान्तिः शोभाऽऽत्मगेहे स्वभवने संनिविष्टा संक्रान्ता। अविषह्यं विसोढुमशक्यं तेजः प्रतापस्तु। हर्म्याग्रेषु धनिकमन्दिरप्रान्तेषु। `हर्म्यादि धनिनां वासः` इत्यमरः (अ.को.2|2|10)। संरूढास्तृणाङ्कुरा येषां तेषु। शून्येष्वित्यर्थः। रिपुमन्दिरेषु शत्रुनगरेषु। `मन्दिरं नगरे गृहे` इति विश्वः। संनिविष्टम्। स्वजनाह्लादकोऽयं द्विषंतपश्चेति भावः ॥

Verse 48
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेव भाति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यस्येति॥ यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधानामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः कलिन्दो नाम शैलस्तत्कन्या यमुना। `कालिन्दी सूर्यतनया यमुना शमनस्वसा` इत्यमरः (अ.को.1|10|32)। मथुरा नामास्य राज्ञो नगरी। तां गतापि। गङ्गाया विप्रकृष्टापीत्यर्थः। मथुरायां गङ्गाभावं सूचयति`अपि`शब्दः। कालिन्दीतीरे मथुरा लवणासुरवधकाले शत्रुघ्नेन निर्मास्यतेति वक्ष्यति। तत्कथमधुना मथुरासंभव इति चिन्त्यम्। मथुरा मधुरापुरीति शब्दभेदः। यद्वा, -साम्येति गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति। धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासंगतेव भातीत्यर्थः। `सितासिते हि गङ्गायमुने` इति घण्टापथः ॥

Verse 49
त्रस्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः । वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभ ह्नेपयतीव कृष्णम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): त्रस्तेनेति॥ तार्क्ष्याद्गरुडात्त्रस्तेन। यमुनौकः स्थानं यस्य तेन। कालियेन नाम नागेन विसृष्टं किलाभयदाननिष्क्रयत्वेन दत्तम्। `किल`इत्यैतिह्ये। वक्षःस्थलव्यापिरुचं मणि दधानो यः सुषेणः सकौस्तुभं कृष्णं विष्णुं ह्रपयतीव व्रीडयतीव । `अर्तिह्री-` (पा.7।3।36) इत्यादिना पुगागमः। कौस्तुभमणेरप्युत्कृष्टोऽस्य मणिरिति भावः ॥

Verse 50
संभाव्य र्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि! यौवनश्रीः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): संभाव्येति॥ युवानममुं सुषेणं भर्तारं संभाव्य मत्वा। पतित्वेनाङ्गीकृत्येत्यर्थः। मृदुप्रवालोत्तरोपरिप्रस्तारितकोमलपल्लवा पुष्पशय्या यस्मिंस्तत्तस्मिश्चैत्ररथात्कुबेरोद्यानादनूने वृन्दावने वृन्दावननामक उद्याने हे सुन्दरि!यौवनश्रीर्यौवनफलं निर्विश्यतां भुज्यताम् ॥

Showing 41 to 50 of 86 verses