रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 86 verses
Verse 31
ततः परं दुःप्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ । निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततोऽनन्तरं प्रतिहारभूमौ द्वारदेशे नियुक्ता दौवारिकी। `स्त्री द्वार्द्वारं प्रतीहारः` इत्यमरः (अ.को.2|2|16)। द्विषद्भिः शत्रुभिर्दुःप्रसहं दुःसहम्। शूरमित्यर्थः। विशेषेण दृश्यं दर्शनीयम्। रूपवन्तमित्यर्थः। परमन्यं नृपम्। नवोत्थानं नवोदयमिन्दुमिव। इन्दुमत्यै निदर्शयामास ॥

Verse 32
अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अवन्तीति॥ उदग्रबाहुर्दीरघबाहुर्विशालवक्षास्तनुवृत्तमध्यः कृशवर्तुलमध्योऽयं राजाऽवन्तिनाथोऽवन्तिदेशाधीश्वरः। त्वष्ट्रा विश्वकर्मणा। भर्तुस्तेजोवेगमसहमानया दुहित्रा संज्ञादेव्या प्रार्थितेनेति शेषः। चक्रभ्रमं चक्राकारं शस्त्रोत्तेजनयन्त्रम्। `भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुण्डाख्ये शिल्पियन्त्रके` इति विश्वः। आरोप्ययत्नेनोल्लिखित उष्णतेजाः सूर्य इव विभाति। अत्र मार्गण्डेयः-`विश्वकर्मात्वनुज्ञातः शाकद्वीपे विवस्वता। भ्रममारोप्य तत्तेजः शातनायोपचक्रमे ॥` इति ॥

Verse 33
अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अस्येति॥ समग्रशक्तेः शक्तित्रयसंपन्नस्यास्यावन्तिनाथस्य प्रयाणेषु जैत्रयात्रास्वग्रेसरैर्वाजिभिरश्वैरुत्थितानि रजांसि सामन्तानां समन्ताद्भक्तानां राज्ञां ये शिखामणयश्चूडामणयस्तेषां प्रभाप्ररोहास्तमयं तेजोऽङ्कुरनाशं कुर्वन्ति। नासीरैरेवास्य शत्रवः पराजियन्त इति भावः ॥

Verse 34
असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः । तमिस्रपक्षेऽपि सह प्रियामिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ असाववन्तिनाथः महाकालं नाम स्थानविशेषशः, तदेव निकेतनं स्थानं यस्य तस्य चन्द्रमौलेरीश्वरस्याऽदूरे समीपे वसन्। अत एव हेतोस्तमिस्रपक्षे कृष्णपक्षेऽपि प्रियाभिः सह ज्योत्स्नावतः प्रदोषान्रात्रीर्निर्विशत्यनुभवति किल। नित्यज्योत्स्नाविहारत्वमेतस्यैव नान्यस्येति भावः ॥

Verse 35
अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते । सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरुस्तस्याः संबोधनम्। हे रम्भोरु! `ऊरूत्तरपदादौपम्ये` (पा.4।1।69) इत्यूङ्प्रत्ययः। नदीत्वाद्ध्रस्वः। यूनाऽनेन पार्थिवेन सह। सिप्रा नाम तत्रत्या नदी तस्यास्तरंगाणामनिलेन कम्पितासूद्यानानां परंपरासु पङ्क्तिषु विहर्तुं ते तव मनसो रुचिः कञ्चित्? स्पृहाऽस्ति किमित्यर्थः। `अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्` इत्यमरः (अ.को.3|3|35) ॥

Verse 36
तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के । बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ उत्तमसौकुमार्योत्कृष्टाङ्गमार्दवा सेन्दुमती। अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन्। प्रतापेन तेजसा संशोषिताः शत्रव एव पङ्काः कर्दमा येन तस्मिन्। तस्मिन्नवन्तिनाथे कुमुद्वती। `कुमुदनडवेतसेभ्यो डतुपु` (पा.4।2।87)इति ङ्मतुप्प्रत्ययः। भानुमत्यंशुमतीव। भावं चित्तं न बबन्ध। न तत्रानुरागमकरोदित्यर्थः। बन्धूनां पद्मत्वेन शत्रूणां पङ्कत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ॥

Verse 37
तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् । विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्तिम्। कनकगौरीमित्यर्थः। गुणैरनूनाम्। अधिकामित्यर्थः। शोभना दन्ता यस्याः सा सुदती। `वयसि दन्तस्य दतृ` (पा.5।4।141) इति दत्रादेशः। `उगितश्च` (पा.4।1।6)इति ङीप्। तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टम्। मधुरनिर्माणां स्त्रियमित्यर्थः। अनुगता आपो येषु तेऽनूपा नाम देशाः। `ऋक्पूरब्धूः पथामानक्षे` (पा.5।4।74) इत्यप्रत्ययः समासान्तः। `ऊदनोर्देशे` (पा.6।3।98) इत्यूदादेशः। तेषां राज्ञोऽनूपराजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ॥

Verse 38
सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सङ्ग्रामेति॥ सङ्ग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः। युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः। अष्टादशसु द्वीपेषु निखाताः स्थापिता यूपा येन स तथोक्तः। सर्वक्रतुयाजी सार्वभौमश्चेति भावः। जरायुजादिसर्वभूतरञ्जनादनन्यसाधारणो राजशब्दो यस्य स तथोक्तः। योगी। ब्रह्मविद्वानित्यर्थः। स किल भगवती दत्तात्रेयाल्लब्धयोग इति प्रसिद्धिः। कृतवीर्यस्यापत्यं पुमान् कार्तवीर्यो नाम राजा बभूव किलेति। अयं चास्य महिमा सर्वोऽपि दत्तात्रेयवरप्रसादलब्ध इति भारते(वन.अ.115;अनु.अ.152) दृश्यते ॥

Verse 39
अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् । अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अकार्येति॥ विनेता शिक्षको यः कार्तवीर्यः। अकार्यस्यासत्कार्यस्य चिन्तया च `अहं चौर्यादिकं करिष्यामी`ति बुद्ध्या। समकालमेककालमेव यथा तथा पुरस्तादग्रे चापधरः। अन्तः शरीरेष्वन्तःकरणेषु। `शरीर`शब्देनेन्द्रियं लक्ष्यते। अविनयमपि प्रत्यादिदेश। मानसापराधमपि निवारयामासेत्यर्थः। अन्ये तु वाक्कायापराधमात्रप्रतिकर्तार इति भावः ॥

Verse 40
ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरंपरेण । कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ज्यान्धेति॥ ज्याया मौर्व्या बन्धेन बन्धनेन निष्पन्दा निश्चेष्टा भुजा यस्य तेन विनिःश्वसती जायाबन्धोपरोधाद्दीर्धं निःश्वसती वक्त्रपरंपरा दशमुखी यस्य तेन निर्जितवासवेनेन्द्रविजयिना। अत्रेन्द्रादयोऽप्यनेन जितप्राया एवेति भावः। लङ्केश्वरेण दशास्येन यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे। `कारा स्याद्बन्धनालये` इत्यमरः। आ प्रसादादनुग्रहपर्यन्तमुषितं स्थितम्। `नपुंसके भावे क्तः` (पा.3।3।114)। एतत्प्रसाद एव तस्य मोक्षोपायो न तु क्षात्रमिति भावः ॥