रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 86 verses
Verse 11
तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये । निपेतुरन्तः करणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ नेत्रशतानामेकलक्ष्य एकदृश्ये कन्यामये कन्यारूपे तस्मिन्विधातुर्विधानातिशये सृष्टिविशेषे नरेन्द्रा अन्तःकरणैर्निपेतुः। आसनेषु देहैः केवलं देहैरेव स्थिताः। देहानपि विस्मृत्य तत्रैव दत्तचित्ता बभूवुरित्यर्थः। अन्तःकरणकर्तृके निपतने नरेन्द्राणां कर्तृत्वव्यपदेश आदरातिशयार्थः ॥

Verse 12
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवालशोभा इव पादपानां श्रृङ्गारचेष्टा विविधा बभूवुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ तामिन्दुमतीं प्रति। अभिव्यक्तमनोरथानां प्ररूढाभिलाषाणां महीपतीनां राज्ञां प्रणयाग्रदूत्यः। प्रणयः प्रार्थना प्रेम वा। `प्रणयास्त्वमी। विस्रम्भयाच्ञाप्रेमाणः` इत्यमरः। प्रणयेष्वग्रदूत्यः प्रथमदूतिकाः। प्रणयप्रकाशकत्वसाम्याद्दूतीत्वव्यपदेशः। विविधाः श्रृङ्गारचेष्टाः शृङ्गारविकारः पादपानां प्रवालशोभाः पल्लवसंपद इव बभूवुरुत्पन्नाः। अत्र शृङ्गारलक्षणं रससुधाकरे-`विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः। नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते ॥`रतिरिच्छाविशेषः। तञ्चोक्तं तत्रैव-`यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृता` इति॥ `चेष्टा`शब्देन तदनुभावविशेषा उच्यन्ते। तेऽपि तत्रैवोक्ताः-`भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये। तेऽनुभावा इति ख्याता भ्रूविक्षेपस्मितादयः। ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसंभवाः॥` इति। तत्र गात्रारम्भसंभवांश्चेष्टाशब्दोक्ताननुभावान् `कश्चित्`(6।13) इत्यादिभिः श्लोकैर्वक्ष्यति। शृङ्गाराभासश्चायम्; एकत्रैव प्रतिपादनात्। तदुक्तम्-`एकत्रैवानुरागश्चेत्तिर्यक्शब्दगतोऽपि वा। योषितां बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः॥` इति ॥

Verse 13
कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कश्चिदिति॥ कश्चिद्राजा कराभ्यां पाणिभ्यामुपगूढनालं गृहीतनालम्। आलोलैश्चञ्चलैः पत्रैरभिहततास्ताडिता द्विरेफा भ्रमरा येन तत्तथोक्तम्। रजोभिः परगैरन्तः परिवेषं मण्डलं बध्नातीत्यन्तः परिवेषबन्धि। लीलारविन्दं भ्रमयांचकार। `करस्थलीलारविन्दवत्त्वयाऽहं भ्रमयितव्यः` इति-नृपाभिप्रायः। `हस्तघूर्णकोऽयमपलक्षणकः`-इतीन्दुमत्यभिप्रायः ॥

Verse 14
विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् । प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृतचारुवक्त्रः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): विस्रस्तमिति॥ विलसनशीलो विलासी। `वौ कषलसकत्थस्रम्भः` (पा.3।2।143) इति घिनुण्प्रत्ययः। अपरो राजा । अंसाद्विस्रस्तं रत्नानुविद्धं रत्नखचितं यदङ्गदं केयूरं तस्य कोटिलग्नं प्रालम्ब मृजुलम्बिनीं स्रजम्। `प्रालम्बमृजुलम्बि स्यात्कण्ठात्` इत्यमरः (अ.को.2|6|137)। `प्रावारम्` इति पाठे तूत्तरीयं वस्त्रम्। उत्कृष्योद्धृत्य साचीकृतं तिर्यक्कृतं चारु वक्त्रं यस्य स तथोक्तः सन्, यथावकाशं स्वस्थानं निनाय। `प्रावारोत्क्षेपणच्छलेनाहं त्वामेवं परिरप्स्ये`- इति नृपाभिप्रायः। `गोपनीयं किंचिदङ्गेऽस्ति ततोऽयं प्रावृणुते`-इतीन्दुमत्यभिप्रायः ॥

Verse 15
आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः । तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): आकुञ्चितेति॥ ततः पूर्वोक्तादन्योऽपरो राजा किंचित्समावर्जितनेत्रशोभ ईषदर्वाक्पातितनेत्रशोभः सन्। आकुञ्चिता आभुग्रा अग्राङ्गुलयो यस्य तेन तिर्यग्विसंसर्पिण्यो नखप्रभा यस्य तेन च पादेन हैमं हिरण्मयं पीठं पादपीठं विलिलेख लिखितवान्। पादाङ्गुलीनामाकुञ्चनेन `त्वं मत्समीपमागच्छ`-इति नृपभिप्रायः। `भूमिविलेखकोऽयमपलक्षणकः`-इतीन्दुमत्याशयः। भूमिविलेखनं तु लक्ष्मीविनाशहेतुः ॥

Verse 16
निवेश्य वामं भुजमासनार्धे तत्संनिवेशादधिकोन्नतांसः । कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निवेश्येति॥ कश्चिद्राजा वामं भुजमासनार्धे सिंहासनैकदेशे निवेश्य संस्थाप्य तत्संनिवेशात्तस्य वामभुजस्य संनिवेशात्संस्थापनादधिकोन्नतोंऽसो वामांस एव यस्य स तथोक्तः सन्। विवृत्ते परावृत्ते त्रिके त्रिकप्रदेशे भिन्नहारो लुण्ठितहारः सन्। `पृष्ठवंशाधरे त्रिकम्` इत्यमरः (अ.को.2|6|77)। सुहृत्समाभाषणतत्परोऽभूत्। वामपार्श्ववर्तिनैव मित्रेण संभाषितुं प्रवृत्त इत्यर्थः। अत एव विवृत्तत्रिकत्वं घटते। `त्वया वामाङ्गे निवेशितया सहैवं वार्तां करिष्ये`-इति नृपाभिप्रायः। परं `दृष्ट्वा पराङ्मुखोऽयं न कार्यकर्ता`- इतीन्दुमत्यभिप्रायः ॥

Verse 17
विलालिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः । प्रियानितम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): विलासिनीति॥ अन्यो युवा विलासिन्याः प्रियाया विभ्रमार्थं दन्तपत्रं दन्तपत्रभूतमापाण्डुरं केतकबर्हं केतकदलम्। `दलेऽपि बर्हम्` इत्यमरः (अ.को.3|3|251)। प्रियानितम्ब उचितसंनिवेशैरभ्यस्तनिक्षघेपणैर्नखाग्रैर्विपाटयामास। `अहं तव नितम्ब एवं नखव्रणादीन्दास्यामि`- इति नृपाशयः। `तृणच्छेदकवत् पत्रपाटकोऽयमपलक्षणकः`-इतीन्दुमत्याशयः ॥

Verse 18
कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन । रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कुशेशयेति॥ कश्चिद्राजा कुशेशयं शतपत्रमिवाताम्रं तलं यस्य तेन। `शतपत्रं कुशेशयम्` इत्यमरः (अ.को.1|10|40)। रेखारूपो ध्वजो लाञ्छनं यस्य तेन करेण। अङ्गुलिषु भवान्यङ्गुलीयान्यूर्मिकाः। `अङ्गुलीयकमूर्मिका` इत्यमरः (अ.को.2|6|108)। `जिह्वामूलाङ्गुलेश्छः` (पा.4।3।62) इति छप्रत्ययः। रत्नानामङ्गुलीयानि तेषां प्रभयाऽनुविद्धान् व्याप्तानक्षान् पाशान्। `अक्षास्तु देवनाः पाशकाश्च ते` इत्यमरः (अ.को.1|10|40)। सलीलमुदीरयामासोञ्चिक्षेप। `अहं त्वया सहैवं रंस्ये`-इति नृपाभिप्रायः। `अक्षचातुर्ये कापुरुषोऽयम्-` इतीन्दुमत्यभिप्रायः। `अक्षार्मा दीव्यः` इति श्रुतिनिषेधात् ॥

Verse 19
कश्चिद्यथाभागमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव । वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कश्चिदिति॥ कश्चिद्यथाभागं यथास्थानमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव स्वस्थानाञ्चलित इव किरीटे वज्राणां किरीटगतानामंशवो गर्भे येषां तान्यङ्गुलिरन्ध्राणि यस्य तमेकं करं व्यापारयामास। `किरीटवन्मम शिरसि स्थितामपि त्वां भारं न मन्ये`- इति नृपाभिप्रायः। `शिरसि न्यस्तहस्तोऽयमपलक्षणः`-इतीन्दुमत्यभिप्रायः ॥

Verse 20
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततोऽनन्तरं नृपाणां श्रुतवृत्तवंशा। श्रुतवृत्तावंशेत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। प्रगल्भा वाग्मिनी सुनन्दा सुनन्दाख्या प्रतिहारं रक्षतीति प्रतिहाररक्षी द्वारपालिका। कर्मण्यण्प्रत्ययः। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। प्राक् प्रथमं कुमारीमिन्दुमतीं मगधेश्वरस्य संनिकर्षं समीपं नीत्वा पुंवत् पुंसा तुल्यम्। `तेन तुल्यं क्रिया चेद्वतिः` (पा.5।1।115) इति वतिप्रत्ययः। अवदत् ॥

Showing 11 to 20 of 86 verses