रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 86 verses
Verse 21
असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ असौ राजा। `असौ` इति पुरोवर्तिनो निर्देशः। एवमुत्तरत्रापि द्रष्टव्यम्। शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः। इति यत्प्रत्ययः। शरणं भवितुमर्हः शरण्य इति-नाथनिरुक्तिर्निर्मूलैव। अगाधसत्त्वो गम्भीरस्वभावः। `सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः` इति विश्वः। मगधा जनपदाः, तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः। `प्रतिष्ठाकृत्यमास्पदम्` इत्यमरः (अ.को.3|3|101)। प्रजारञ्जने लब्धवर्णो विचक्षणः। यद्वा, -प्रजारञ्जनेन लब्धोत्कर्षः। पराञ्शत्रूंस्तापयतीति परंतपः परंतपाख्यः। `द्विषत्परयोस्तापेः` (पा.3।2।39)। इति खच्प्रत्ययः। `खचि ह्रस्वः` (पा.6।4।94) इति ह्रस्वः। `अरुर्द्विषदजन्तस्य मुम्` (पा.6।3।67)इति मुमागमः। नामेति प्रसिद्धौ। यथार्थनामा। शत्रुसंतापनादिति भावः ॥

Verse 22
कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ अन्ये नृपाः कामं सहस्रशः सन्तु। भूमिमनेन राजन्वतीं शोभनराजवतीमाहुः। नैतादृक्कश्चिदस्तीत्यर्थः। `सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्` इत्यमरः (अ.को.2|1|14)। `राजन्वान्सौराज्ये` (पा.8।2।14) इति निपातनात्साधुः। तथा हि - नक्षत्रैरश्विन्यादिभिस्ताराभिः साधारणैर्ज्योतिर्भिर्ग्रहैर्भौमादिभिश्च संकुलाऽपि रात्रिश्चन्द्रमसैव ज्योतिरस्या अस्तीति ज्योतिष्मती। नान्येन ज्योतिषेत्यर्थः ॥

Verse 23
क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसस्रनेत्रः । शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): क्रियेति॥ अयं परंतपोऽध्वराणां क्रतूनां क्रियाप्रबन्धादनुष्ठानसातत्यात्, अविच्छिन्नादनुष्ठानादित्यर्थः। अजस्रं नित्यमाहूतसहस्रनेत्रः सन्, चिरं शच्या अलकान् पाण्डुकपोलयोर्लम्बान्स्रस्तान्। पचाद्यच्। मन्दारैः कल्पद्रुमकुसुमैः शून्यांश्चकार। प्रोषितभर्तृका हि केशसंस्कारं न कुर्वन्ति। `प्रोषिते मलिना कृशा` इति `क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम्। हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका॥` (याज्ञ.1।3।84) इति च स्मरणात् ॥

Verse 24
अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे । प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ वरेण्येन वरणीयेन। वृणोतेरौणादिक एण्यप्रत्ययः। अनेन राज्ञा गृह्यमाणं पाणिमिच्छसि चेत्। पाणिग्रहणमिच्छसि चेदित्यर्थः। प्रवेशे प्रवेशकाले प्रासादवातायनसंश्रितानां राजभवनगवाक्षस्थितानां पुष्पपुराङ्गनानां पाटलिपुराङ्गनानां नेत्रोत्सवं कुरु। सर्वोत्तमानां तासामपि दर्शनीया भविष्यसीति भावः ॥

Verse 25
एवं तयोक्ते तमवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला । क्रजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवं तया सुनन्दयोक्ते सति तं परंतपमवेक्ष्य किंचिद्विस्रंसिनी दूर्वाङ्का दूर्वाचिह्ना मधूकमाला गुहपुष्पमाला यस्याः सा। `मधूके तु गुडपुष्पमधुद्रुमौ` इत्यमरः (अ.को.2|4|27)। वरेण शिथिलप्रयत्नेति भावः। तन्वीन्दुमती। एनं नृमभाषमाणम्। ऋज्व्या भावशून्यया प्रणामक्रिययैव प्रत्यादिदेश परिजहार ॥

Verse 26
तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । समीरणोत्थेव तरंगलेखा पद्मान्तरं मानसराजहंसीम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ सैव नान्या। चित्तज्ञत्वादिति भावः। वेत्रग्रहणे नियुक्ता दौवारिकी सुनन्दा तां राजसुतां राजान्तरमन्यराजानं निनाय। नयतिर्द्विकर्मकः। कथमिव? समीरणोत्था वातोत्पन्ना तरंगलेखोर्मिपङ्क्तिर्मानसे सरसि या राजहंसी तां पद्मान्तरमिव ॥

Verse 27
जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): जगादेति॥ एनामिन्दुमतीं जगाद। किमिति? अयमङ्गनाथोऽङ्गदेशाधीश्वरः सुराङ्गनाभिः प्रार्थिता कामिता यौवनश्रीर्यस्य स तथोक्तः। पुरा किलैनमिन्द्रसाहाय्यार्थमिन्द्रपुरागामिनमकामयन्ताप्सरस इति प्रसिद्धिः। किंच, सूत्रकारैर्गजशास्त्रकृद्भिः पालकाप्यादिभिर्महर्षिभिर्विनीतनागः शिक्षितगजः। `किल` इत्यैतिह्ये। अत एव भूमिगतोऽप्यैन्द्रं भुङ्क्ते। भूर्लोक एव स्वर्गसुखमनुभवतीत्यर्थः। गजाप्सरोदेवर्षिसेव्यत्वं `ऐन्द्रपद`शब्दार्थः। पुरा किल कुतश्चिच्छापकारणाद्भुवमवतीर्णं दिग्गजवर्गमालोक्य स्वयमशक्तेरिन्द्राभ्यनुज्ञयानीतैर्देवर्षिभिः प्रणीतेन शास्त्रेण गजान्वशीकृते भुवि संप्रदायं प्रावर्तयदिति कथा गीयते ॥

Verse 28
अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु । प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ शत्रुविलासिनीनां स्तनेषु मुक्ताफलस्थूलतमानश्रुबिन्दून्। `अस्रमश्रुणि शोणिते` इति विश्वः। प्रयासयता प्रस्तारयता। भर्तृवधादिति भावः। अनेनाङ्गनाथेनोन्मुच्याक्षिप्य सूत्रेण विना हारा एव प्रत्यर्पिताः। अविच्छइन्नाश्रुबिन्दुप्रवर्तनादुत्सूत्रहारार्पणमेव कृतमिवेत्युत्प्रेक्षा गम्यते ॥

Verse 29
निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च । कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि! तयोस्तृतीया ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निसर्गेति॥ निसर्गतः स्वभावतो भिन्नास्पदं भिन्नाश्रयम्। सहावस्थानविरोधीत्यर्थः। श्रीश्च सरस्वती चेति द्वयमस्मिन्नङ्गनाथ एकत्र संस्था स्थितिर्यस्य तदेकसंस्थम्। उभयमिह संगतमित्यर्थः। हे कल्याणि!`बाह्वादिभ्यश्च` (पा.4।1।96) इति ङीप्। कान्त्या सूनृतया सत्यप्रियया गिरा च योग्या संसर्गार्हा त्वमेव तयोः श्रीसरस्वत्यो स्तृतीया। समानगुणयोर्युवयोर्दांपत्यं युज्यत एवेति भावः। दक्षिणनायकत्वं चास्य ध्वन्यते-तदुक्तम्-`तुल्योऽनेकत्र दक्षिणः` इति ॥

Verse 30
अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी । नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ कुमार्यङ्गराजाञ्चक्षुरवतार्य। अपनीयेत्यर्थः। जन्यां मातृसखीम्। `जन्या मातृसखीमुदोः` इति विश्वः। सुनन्दां याहि गच्छेत्यवदत्। `यातेति जन्यानवदत्` इति पाठे-जनीं वधूं वहन्तीति जन्या वधूबन्धवः। तान्यात गच्छतेत्यवदत्। `जन्यो वरवधूज्ञातिप्रियतुल्यहिते।ञपि च` इति विश्वः। अथवा, -जन्या वधूभृत्याः। `भृत्याश्चापि नवोढायाः` इति केशवः। `संज्ञायां जन्या` (पा.4।4।82) इति यत्प्रत्ययान्ते निपातः। यदत्राह वृत्तिकारः-`जनीं वधूं वहन्तीति जन्या जामातुर्वयस्याः` इति। यञ्चामरः-`जन्याः स्निग्धा वरस्य ये` इति। तत्सर्वमुपलक्षणार्थमित्यविरोधः। न चायमङ्गराजनिषेधो दृश्यदोषान्नापि द्रष्टृदोषादित्याह-नेत्यादिना॥ असावङ्गराजः काम्यः कमनीयो नेति न, किंतु काम्य एवेत्यर्थः। सा कुमारी च सम्यग्द्रष्टुं विवेक्तुं न वेदेति न, वेदेत्यर्थः। लोको जनो भिन्नरुचिर्हि रुचिरमपि किंचित्कस्मैचिन्न रोचते। किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः ॥