रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 76 verses
Verse 21
निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः । वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निर्बन्धेति॥ निर्बन्धेन प्रार्थनातिशयेन संजातरुषा संजातक्रोधेन गुरुणा। अर्थकार्श्यं दारिद्र्यमचिन्तयित्वाऽविचार्य। अहं वित्तस्य धनस्य चतस्रो दश च कोटीश्चतुर्दशकोटीर्मे मह्यमाहरानयेति विद्यापरिसंख्यया विद्यपरिसंख्यानुसारेणैवोक्तः। अत्र मनुः-`अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥` इति ॥

Verse 22
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् । अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सोऽहमितिः॥ सोऽहं सपर्याविधिभाजनेनार्घ्यपात्रेण भवन्तं `प्रभु`-शब्द एव शेषो यस्य तं मत्वा। निःस्वं निश्चित्येत्यर्थः। श्रुतनिष्क्रयस्य विद्यामूल्यस्याल्पेतरत्वादतिमहत्त्वात् संप्रत्युपरोद्धुं निर्बन्धुं नाभ्युत्सहे ॥

Verse 23
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ द्विजराजकान्तिश्चन्द्रकान्तिः। `द्विजराजः शशधरो नक्षत्रेशः क्षपाकरैः` इत्यमरः (अ.को.1|3|17)। `तस्मात्सोमो राजा नो ब्राब्मणानाम्`इति श्रुतेः। द्विजराजकान्तित्वेनार्थावाप्तिवैराग्यं वारयति। एनसः पापान्निवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकनाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेन। इत्थमावेदितो निवेदितः सन्। एनं कौत्सं भूयः पुनर्जगाद ॥

Verse 24
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् । गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गुर्वर्थमिति॥ श्रुतस्य पारं दृष्टवाञ्च्छ्रुतपारदृश्वा। `दृशेः क्वनिप्` (पा3।2।94) इति क्वनिप्। गुर्वर्थं गुरुदक्षिणार्थं यथा तथाऽर्थी याचकः। विशेषणद्वयेनाप्यस्याप्रत्याख्येयत्वमाह। रघोः सकाशात् कामं मनोरथमनवाप्याप्राप्य वदान्यान्तरं तात्रन्तरं गतः। `स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे` इत्यमरः (अ.को.3|1|6)। इत्येवंरेूपोऽयं परीवादस्यापवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्माऽस्तु। `रघोः` इति स्वनामग्रहणं संभावितत्वद्योतनार्थम्। तथा च(भ.गी.2।34)-`संभावितस्य चाकीर्तिर्मरणादतिरिच्यते` इति भावः ॥

Verse 25
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि सोढुमर्हन्! यावद्यते साधयितुं त्वदर्थम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स त्वं महिते पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन् द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि। `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये` (पा.2।2।25) इति बहुव्रीहिः। `बहुव्रीहौ संख्येये डजबहुगणात्` (पा.5।4।73) इति डच्प्रत्ययः समासान्तः। सोढुमर्हसि। हे अर्हन्मान्य! त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते यतिष्ये। `यावत्पुरानिपातयोर्लट्` (पा.3।3।4) इति भविष्यदर्थे लट् ॥

Verse 26
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तथेतीति॥ अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः सन्, तस्य रघोरवितथममोघं संगरं प्रतिज्ञाम्। `अथ प्रतिज्ञाजिसंविदापत्सु संगरः` इत्यमरः। `तां गिरम्` इति केचित्पठन्ति। तथेति प्रत्यग्रहीत्। रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुबेरादर्थं निष्क्रष्टुमाहर्तुं चकम इयेष ॥

Verse 27
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): वसिष्ठेति॥ वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्त्र्य प्रोक्षणं तज्जात्प्रभावात् सामर्थ्याद्धेतोः। उदन्वदाकाशमहीधरेषूदन्वत्युदधावाकाशे महीधरेषु वा। मरुत्सखस्य। मरुतः सखेति तत्पुरुषो बहुव्रीहौ समासान्ताभावात्। ततो वायुसहायस्येति लभ्यते। वारीणां वाहको बलाहकः। पृषोदरादित्वात्साधुः, तस्येव मेघस्येव। तद्रथस्य गतिः संचारो न विजघ्ने न विहता हि ॥

Verse 28
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्त्रगर्भम् । सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रदोषे रजनीमुखे। तत्काले यानाधिरोहणविधानात्। प्रयतो धीरो रघुः। समन्ताद्भवः सामन्तः राजमात्रमिति संभावनयैव कैलासनाथं कुबेरं तरसा बलेन जिगीषुर्जेतुमिच्छुः सन्। कल्पितं सज्जितं शस्त्त्रं गर्भे यस्य तं रथमधिशिश्ये। रथे शयितवानित्यर्थः। `अधिशीङ्स्थासां कर्म` (पा.1।4।46) इति कर्मत्वम् ॥

Verse 29
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः । हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रातरिति॥ प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः। पञ्चम्यास्तसिल्प्रत्ययः। पतितां हिरण्मयीं सुवर्णमयीम्। `दाण्डिनायन-` (पा.6।4।174) इत्यादिना निपातनात्साधुः। वृष्टिं शशंसुः कथयामासुः ॥

Verse 30
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् । दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ भूपती रघुः। अभियास्यमानादभिगमिष्यमाणात् कुबेराल्लब्धम्। वज्रेण कुलिशेन भिन्नं सुमेरोः पादं प्रत्यन्तपर्वनमिव स्थितम्। `पादाः प्रत्यन्तपर्वताः` इत्यमरः (अ.को.2|3|7)। `शृङ्गम्` इति क्वचित्पाठः। तं भासुरं भास्वरम्। `भञ्जभासमिदो घुरच्` (पा.3।2।161) इति घुरच्। हेमराशिं समस्तं कृत्स्नमेव कौत्साय दिदेश ददौ। न तु चतुर्दशकोटिमात्रमित्येवकारार्थः ॥