रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 76 verses
Verse 41
तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः । मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ उपकार्यासु राजयोग्येषु पटभवनादिषु। `सौधोऽस्त्री राजसदनमुपकार्योपकारिका` इत्यमरवचनव्याख्याने क्षीरस्वामी। उपक्रियत उपकरोति वा पटमण्डपादि राजसदनमिति। रचिता उपचाराः शयनादयो येषु ते तथोक्ताः। जानपदानां जनपदेभ्य आगतानामुपदाभिरुपायनैः। वन्या वने भवा इतरे येषां ते वन्येतराः। अवन्या इत्यर्थः। `न बहुव्रीहौ` (पा.1।1।29) इति सर्वनामसंज्ञानिषेधः। तत्पुरुषे सर्वनामसंज्ञा दुर्वारैव। तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः। `पुमानाक्रीड उद्यानम्` इत्यमरः (अ.को.2|4|3)। तान्येव विहारा विहारस्थानानि तत्कल्पाः। तत्सदृशा इत्यर्थः। `ईषदसमाप्तौ-` (पा.5।3।67) इति कल्पप्प्रत्ययः। बभूवुः ॥

Verse 42
स नर्मदारोधसि सीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले । निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ विलङ्घिताध्वाऽतिक्रान्तमार्गः सोऽजः सीकरार्द्रैः। शीतलैरित्यर्थः। मरुद्भिर्वातैरानर्तिताः कम्पिता नक्तमालाश्चिरबिल्वाख्यवृक्षभेदाः। `चिरबिल्वो नक्तमालः करजश्च करञ्जके` इत्यमरः (अ.को.2|4|47)। यस्मिंस्तस्मिन्। निवेशार्ह इत्यर्थः। नर्मदाया रोधसि रेवायास्तीरे क्लान्तं श्रान्तं रजोभिर्धूसराः केतवो ध्वजा यस्य तत्सैन्यं निवेशयामास ॥

Verse 43
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः । निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथोपरिष्टादूर्ध्वम्। `उपर्युपरिष्टात्` (पा.5।3।31) इति निपातः। भ्रमद्भिः। मदलोभादिति भावः। भ्रमरैः प्रागुन्मज्जनात्पूर्वं सूचितो ज्ञापितोऽन्तः सलिले प्रवेशो यस्य स तथोक्तः। निर्धौतदाने क्षालितमदे अत एव, अमले गण्डिभित्ती यस्य स तथोक्तः। `दानं गजमदे त्यागे` इति शाश्वतः। प्रशक्तौ गण्डौ गण्डभित्ती। `प्रशंसावचनैश्च` (पा.2।1।66) इति समासः। `भित्ति`शब्दः प्रशस्तार्थः। तथा च गणरत्नमहोदधौ-ौ`मतल्लिकोद्धमिश्राः स्युः प्रकाण्डस्थलभित्तयः` इति। भित्तिः प्रदेशो वा । `भित्तिः प्रदेशे कुड्येऽपि` इति विश्वः। निर्धौतदानेनामला गण्डभित्तिर्यस्येति वा। वन्यो गजः सरित्तो नर्मदायाः सकाशात्। पञ्चम्यास्तसिल्प्रत्ययः। उन्ममज्जोत्थितः॥

Verse 44
निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु । नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): निःशेषेति॥ कथंभूतो गजः? निःशेषविक्षालितधातुनापि धौतगैरिकादिनापि। नीलाभिरूर्ध्वाभी रेखाभिस्तटाभिघातजनिताभिः शबलेन कर्वुरेण। `चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे` इत्यमरः (अ.को.1|5|18)। अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठीकृतेन दन्तद्वयेन ऋक्षवान्नाम कश्चित्तत्रत्यः पर्वतः तस्य तटेषु वप्रक्रियां वप्रक्रीडाम्। `उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते` इति शब्दार्णवः। शंसन् कथयन्। सूचयन्नित्यर्थः। युग्मम्॥

Verse 45
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन्बृहतस्तरंगान्वार्यर्गलाभङ्ग इव प्रवृत्तः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): संहारेति॥ संहारविक्षेपयोः संकोचनप्रसारणयोर्लघुक्रियेण क्षिप्रव्यापारेण। `लघु क्षिप्रमरं द्रुतम्` इत्यमरः (अ.को.1|1|79)। हस्तेन शुण्डादण्डेन। `हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि` इति विश्वः। सशब्दं सघोषं बृहतस्तरंगान्भिन्दन्विदारयंस्तीराभिमुखः स गजः वारी गजबन्धनस्थानम्। `वारी तु गजबन्धनी` इति यादवः। वार्या अर्गलाया विष्कम्भस्य भङ्गे भञ्जने प्रवृत्त इव बभौ ॥

Verse 46
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् । पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): शैलेति॥ शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कर्षन् पश्चात्तटमुत्ससर्प। पूर्वं तेन गजेनोत्पीडितो नुन्नो वारिराशिर्यस्य स सरित्प्रवाहस्तटमुत्ससर्प ॥

Verse 47
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता । वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्यैकनागस्यैकाकिनो गजस्य कपोलभित्त्योर्जलावगाहेन क्षणमात्रं शान्ता निवृत्ता मददुर्दिनश्रीर्मदवर्षलक्ष्मीर्वन्येतरेषां ग्राम्याणामनेकपानां द्विपानां दर्शनेन पुनर्दिदीपे ववृधे ॥

Verse 48
सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् । विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सप्तच्छदेति॥ सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत् कटुः सुरभिः प्रवाहः प्रसारो यस्य तम्। `कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः` इति यादवः। असह्यं तदीयं मदमाघ्राय सेनागजेन्द्राः। विलङ्घितस्तिरस्कृत आधोरणानां हस्तिपकानां तीव्रो महान् यत्नो यैस्ते तथोक्ताः सन्तः। `आधोरणा हस्तिपका हस्त्यारोहा निषादिनः` इत्यमरः (अ.को.2|8|59)। विमुखाः पराङ्मुखा बभूवुः ॥

Verse 49
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स गजः। छिन्ना बन्धा यैस्ते छिन्नबन्धा द्रुताः पलायिताः युगं वहन्तीति युग्या वाहा यस्मिन्सः। स चासौ शून्यश्च तम्। भग्ना अक्षा रथावयवदारुविशेषाः। `अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रियम्` इति शाश्वतः। येषां ते भग्नाक्षा अत एव पर्यस्ताः पतिता रथा यस्मिंस्तम्। रामाणां स्त्त्रीणां परित्राणे संरक्षणे विहस्ता व्याकुलाः। `विहस्तव्याकुलौ समौ` इत्यमरः (अ.को.3|1|43)। योधा यस्मिंस्तं सेनानिवेशं शिबिरं क्षणेन तुमुलं संकुलं चकार ॥

Verse 50
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः । निवर्तियिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ नृपते राज्ञो वन्यः कर्यवध्य इति श्रुतवान् शास्त्त्राज्ज्ञातवान्। कमार आपततन्मभिधावन्तं तं गजं निवर्तयिष्यन्न तु प्रहरिष्यन्। अत एव नात्यायतमनतिदीर्घँ यथा स्यात्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। कृष्टशार्ङ्गं ईषदाकृष्टचापः सन्विशिखेन बाणेन कुम्भे जघान। अत्र चाक्षुषः- `लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्। इयं हि श्रीर्ये करिणः` इति। अत एव `युद्धादन्यत्र` इति द्योतनार्थमेव `वन्य`ग्रहणं कृतम् ॥