रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 76 verses
Verse 51
स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः । स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स गजो विद्धमात्रस्तडितमात्रः किल न तु प्रहृतस्तथापि नागरूपं गजशरीरमुत्सृज्य तेन वृत्तान्तेन विस्मितैस्तद्विस्मितैः सैन्यैर्दृष्टः सन् । स्फुरतः प्रभामण्डलस्य मध्यवर्ति कान्तं मनोहरं व्योमचरं वपुः प्रपेदे प्राप ॥

Verse 52
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः । उवाच वाग्मी दशनप्रभाभिः संवर्धितोरः स्थलतारहारः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रभावेनोपनतैः प्राप्तैः कल्पद्रुमोत्थैः कल्पवृक्षोत्पन्नैः पुष्पैः कुमारमजमवकीर्याभिवृष्य दशनप्रभाभिर्दन्तकान्तिभिः संवर्धिता उरःस्थले ये तारहाराः स्थूलमुक्ताहारास्ते येन स तथोक्तः। वाचोऽस्य सन्तीति वाग्मी वक्ता। `वाचो ग्मिनिः` (पा.5।2।124) इति ग्मिनिप्रत्ययः। स पुरुष उवाच ॥

Verse 53
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् । अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): मतङ्गेति॥ अवलेपमूलाद्गर्वहेतुकात्। `अवलेपस्तु गर्वे स्याल्लेपने द्वेषणेऽपि च` इति विश्वः। मतङ्गस्य मुनेः शापान्तमङ्गजत्वमवाप्तवानस्मि। मां प्रियदर्शनस्य प्रियदर्शनाख्यस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम्। `स्त्त्रियां मूर्तिस्तनुस्तनूः` इत्यमरः। `तन्वादेर्वा` (पा.3।1।79) इत्यूङिति केचित्। प्रियंवदं प्रियंवदाख्यमवेहि जानीहे। प्रियं वदतीति प्रियंवदः। `प्रियवशे वदः खच्` (पा.3।2।38) इति खच्प्रत्ययः ॥

Verse 54
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् । उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स महर्षिश्च प्रणतेन मयाऽनुनीतः सन् पश्चान्मृदुतां शान्तिमगच्छत्। तथा हि-जलस्योष्णत्वमग्नेरातपस्य वा संप्रयोगात् संपर्कात्। न तु प्रकृत्योष्णत्वम्। यच्छैत्यं सा प्रकृतिः स्वभावः। विधेयप्राधान्यात् `सा` इति स्त्रीलिङ्गनिर्देशः। महर्षीणां शान्तिरेव स्वभावो न क्रोध इत्यर्थः ॥

Verse 55
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन । संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): इक्ष्वाक्विति॥ इक्ष्वाकुवंशः प्रभवो यस्य सोऽजो यदा ते कुम्भमयोमुखेन लोहाग्रेण शरेण भेत्स्यति विदारयिष्यति तदा स्वेन वपुषो महिम्ना पुनः संयोक्ष्यसे संगंस्यस इति स तपोनिधिर्मामवोचत् ॥

Verse 56
संमोचितः सत्त्ववता त्वयाहं शापाञ्चिरप्रार्थितदर्शनेन । प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): संमोचित इति॥ चिरं प्रार्थितं दर्शनं यस्य तेन सत्त्ववता बलवता त्वयाऽहं शापात्संमोचितो मोक्षं प्रापितः। भवतः प्रतिप्रियं प्रत्युपकारं न कुया चेन्मे स्वपदोपलब्धिः स्वस्थानप्राप्तिः। `पदं व्यवसितत्राणस्थानलक्ष्माङ्घिवस्तुषु` इत्यमरः। वृथा स्याद्धि। तदुक्तम्-`प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्` इति ॥

Verse 57
संमोहनं नाम सखे! ममास्त्त्रं प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): संमोहनमिति॥ हे सखे! `सखि`शब्देन समप्राणतोक्ता। यथोक्तम्-`अत्यागसहनो बन्धुः सदैवानुमतः सुहृत्। एकक्रियं भवेन्मित्रं समप्राणः सखा मतः ॥` इति॥ प्रयोगसंहारयोर्विभक्तमन्त्रं गान्धर्वं गन्धर्वदेवताकम्। संमोह्यतेऽनेनेति संमोहनं नाम ममास्त्रमादत्स्व गृहाण। यतोऽस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणोऽरिहिंसा न च विजयश्च हस्ते। हस्तगतो विजयो भवतीत्यर्थः॥

Verse 58
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभूः प्रहरन्नपि त्वम् । तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अलमिति॥ किं च, मां प्रति ह्रिया प्रहारनिमित्तयाऽलम्। कुतः? यद्यतो हेस्तोस्त्वं मां प्रहरन्नपि मुहूर्तं दयापरः कृपालुरभूः। तस्मादुपच्छन्दयति प्रार्थयमाने मयि त्वया। प्रतिषेधः परिहारः स एव रौक्ष्यं पारुष्यम्। तन्न प्रयोज्यं न कर्तव्यम् ॥

Verse 59
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः । उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ ना सोमश्चन्द्र इव नृसोमः। उपमितसमासः। `सोम ओषधिचन्द्रयोः` इति शाश्वतः। पुरुषश्रेष्ठ इत्यर्थः। अस्त्रविदस्त्रज्ञः सोऽजः। `तथा` इति। सोम उद्भवो यस्याः सा तस्याः सोमोद्भवायाः सरितो नर्मदायाः। `रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका` इत्यमरः। पवित्रं पय उपस्पृश्य पीत्वा। आचम्येत्यर्थः। उदङ्मुखः सन्निगृहीतऽशापान्निवर्तितशापात्। उपकृतादित्यर्थः। तस्मात् प्रियंवदादस्त्रमन्त्रं जग्राह ॥

Verse 60
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु । एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवमध्वनि मार्गे दैवयोगाद्दैववशादचिन्त्यहेत्वनिर्धार्यहेत्तुकं सख्यं सखित्वम्। `सख्युर्यः` (पा.5।1।126) इति यप्रत्ययः। आसेदुषोः प्राप्तवतोस्तयोर्मध्य एको गन्धर्वश्चैत्ररथस्य कुबेरोद्यानस्य प्रदेशान्। `अस्योद्यानं चैत्ररथम्` इत्यमरः (अ.को.1|1|85)। अपरोऽजः सौराज्येन राजन्वत्तया रम्यान्विदर्भान्विदर्भदेशान् ययौ ॥