रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 76 of 76 verses
Verse 71
यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर! याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति? ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): यावदिति॥ प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति। `आङउद्गमने` (पा.1।3।40) इत्यात्मनेपदम्। तावत्। भानावनुदित एवेत्यर्थः। अह्नाय झिटिति। `द्राग्झटित्यञ्जसाह्राय` इत्यमरः (अ.को.2|8|103)। अरुणेनानूरुणा। `सूर्यसूतोऽरुणोऽनूरुः` इत्यमरः (अ.को.2|8|103)। तमो निरस्तम्। तथा हि- हे वीर। त्वय्यायोधनेषु युद्धेषु। `युद्धमायोधनं जन्यम्` इत्यमरः (अ.को.2|8|103)। अग्रसरतां पुरःसरतां याते सति तव गुरुः पिता रिपून् स्वयमुच्छिनत्ति किं वा? नोच्छिनत्त्येवेत्यर्थः। न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ॥

Verse 72
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरश्रृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): शय्यामिति॥ उभाभ्यां पक्षाभ्यां पार्श्वाभ्यां विनीताऽपगता निद्रा येषां त उभयपक्षविनीतनिद्राः। अत्र समासविषय `उभ`शब्दस्थाने `उभय` शब्दप्रयोग एव साधुरित्यनुसंधेयम्। यथाह कैयटः-`-"उभादुदात्तो नित्यम्" इति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय `उभ`शब्दस्य प्रयोगो मा भूत्। `उभय`शब्दस्यैव यथा स्यात्। उभयपुत्र इत्यादि भवति` इति। मुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीति तथोक्तास्ते तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः। `स्तम्बकर्णयो रमिजपाः` (पा.3।2।13)इत्यच्प्रत्ययः। `हस्तिसूचकयोः`(वा.1994)इति वक्तव्यात्। `इभः स्तम्बेरमः पद्मी` इत्यमरः (अ.को.2|8|35)। `तत्पुरुषे कृति बहुलम्` (पा.6।3।14) इति सप्तम्या अलुक्। शय्यां जहति त्यजन्ति येषां स्तम्बेरमाणाम्। दन्ताः कोशाः इव दन्तकोशाः। दन्तकुडम्भलास्तरुणारुणरागयोगाद्बालार्कारुणसंपर्काद्धेतोर्भिन्नाद्रागैरिकतटा इव विभान्ति। धातुरक्ता इव भान्तीत्यर्थः॥

Verse 73
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष! वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): दीर्घेष्विति॥ हे वनजाक्ष नीरजाक्ष! `वनं नीरं वनं सत्त्वम्` इति शाश्वतः। दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः। `पारसीका वनायुजाः` इति हलायुधः। अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्व्नाद्यानि सैन्धवशिलाशकनलानि। `सैन्धवोऽस्त्त्री सितशिवं माणिमन्थं च सिन्धुजे` इत्यमरः। वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति। उक्तं च सिद्धयोगसंग्रहे-`पूर्वाह्णकाले चाश्वानां प्रयाशो लवणं हितम्। शूलानाहविबन्धघ्नं लवणं सैन्धवं वरम् ॥` इत्यादि ॥

Verse 74
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः । अयमपि च गिरं नस्त्वत्प्रवोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्यञ्जरस्थः ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): भवतीति। म्लानः पुष्पोपहारः पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरलरचनो भवति। प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति, निस्तेजस्का भवन्तीत्यर्थः। अपि चायं मञ्जुवाङ्मधुरवचनः पञ्चरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्ते प्रयुक्तामुञ्चारितां नोऽस्माकं गिरं वाणीमनुवदति, अनुकृत्य वदतीत्यर्थः। इत्थं प्रभातलिङ्गानि वर्तन्ते, अतः प्रबोद्धव्यमिति भावः ॥

Verse 75
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पमुज्झांचकार । मदपटुनिनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इतीत्थँ विरचितवाग्भिर्बन्दिपुत्रैर्वैतालिकैः। `पुत्र`ग्रहणं समानवयस्कत्वद्योतनार्थम्। सपदि विगतनिद्रः कुमारः। तल्पं शय्याम्। `तल्पं शय्याट्टदारेषु` इत्यमरः (अ.को.3|3|138)। उज्झांचकार विससर्ज। `इजादेश्च गुरुमतोऽनृच्छः` (पा.3।1।36) इत्याम्प्रत्ययः। कथमिव? मदेन पटु मधुरं निनदद्भी राजहंसैर्बोधितः सुप्रतीकाख्यः सुरगज ईशानदिग्गजः। गङ्गाया इदं गाङ्गम्। सैकतं पुलिनमिव। `तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्` इत्यमरः (अ.को.1|10|9)। `सिकताशर्कराभ्यां च` (पा.5।2।104) इत्यण्प्रत्ययः। `सुप्रतीक`ग्रहणं प्रायशः कैलासवालिनस्तस्य नित्यं गङ्गातटविहारसंभवादित्यनुसंधेयम् ॥

Verse 76
अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा । कुशलविरचितानुकूलवेषः क्षितिपसमाजमगात्स्वयंवरस्थम् ॥
Metre: पुष्पिताग्रा
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथोत्थानानन्तरम्। अञ्चितानि चारुण्यक्षिपक्ष्माणि यस्य सोऽजः शास्त्रे दृष्टमवगतं दिवसमुखोचितं प्रातःकालोचितं विधिमनुष्ठानमवसाय्य समाप्य। स्ततेर्ण्यन्ताल्लयम्। कुशलैः प्रसाधनदक्षैर्विरचितोऽनुकूलः स्वयंवरोचितो वेषो नेपथ्यं यस्य स तथोक्तः सन् स्वयंवरस्थं क्षितिपसमाजं राजसमूहमगादगमत्-`इणो गा लुङि` (पा.2।4।45)इति गादेशः। पुष्पिताग्रावृत्तमेतत्। तल्लक्षणम्-`अयुजि नयुगरेफलो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` इति॥

Showing 71 to 76 of 76 verses