यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर! याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति? ॥
Metre: वसन्ततिलका
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरश्रृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥
Metre: वसन्ततिलका
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष! वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥
Metre: वसन्ततिलका
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः । अयमपि च गिरं नस्त्वत्प्रवोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्यञ्जरस्थः ॥
Metre: मालिनी
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पमुज्झांचकार । मदपटुनिनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥
Metre: मालिनी
अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा । कुशलविरचितानुकूलवेषः क्षितिपसमाजमगात्स्वयंवरस्थम् ॥
Metre: पुष्पिताग्रा