रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 88 verses
Verse 71
ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः । वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततोऽनन्तरमश्वसाधनः सन् गौर्या गुरुं पितरं शैलं हिमवन्तम्। उद्धूतैरश्वस्वुरोद्धूतैर्धातूनां गैरिकादीनां रेणुभिस्तत्कूटांस्तस्य श्रृङ्गाणि। `कूटो।ञस्त्त्री शिखरं शृङ्गम्` इत्यमरः। वर्धयन्निव। आरुरोह। उत्पतद्धूलिदर्शनाद्गिरिशिखरवृद्धिभ्रमो जायत इति भावः ॥

Verse 72
शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् । गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शशंसेति॥ तुल्यसत्त्वानां सैन्यैः समानबलानाम्। गुहासु शेरत इति गुहाशयास्तेषाम्। `अधिकरणे शेते` (पा.3।2।15)इत्यच्प्रत्ययः। `दरी तु कन्दरो वा स्तत्री देवखातबिले गुहा` इत्यमरः। संबन्धि परिवृत्य परावृत्यावलोकितं शयित्वैव ग्रीवाभङ्गेनावलोकनं कर्तृ सैन्यघोषे सेनाकलकले संभ्रमकारणे सत्यप्यसंभ्रममन्तः क्षोभविरहित्वम्। नञः प्रसज्यप्रतिषेधे।ञपि समास इष्यते। शशंस कथयामास। `सैन्येभ्यः` इत्यर्थाल्लभ्यते। बाह्यचेष्टितमेव मनोवृत्तेरनुमापकमिति भावः। असंभ्रान्तत्वे हेतुः-तुल्यसत्त्वानामिति। न हि समबलः समबलाद्बिभेतीति भेवः ॥

Verse 73
भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भूर्जेष्विति॥ भूर्जेषु भूर्जेपत्रेषु। `भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका मता` इति यादवः। मर्मरः शुकपर्णध्वनिः । `मर्मरः शुष्कपर्णानाम्` इति यादवः। अयं च शुक्लादिशब्दवद्गुणिन्यपि वर्तते। प्रयोज्यते च-`मर्मरैरगुरुधूपगन्धिभिः` इति। अतो मर्मरीभूताः। `मर्मर` शब्दवन्तो भूता इत्यर्थः। कीचकानां वेणुविशेषाणां ध्वनिहेतवः। श्रोत्रसुखाश्चेति भावः। गङ्गाशीकरिणः शीतला इत्यर्थः। मरुतो वाता मार्गे तं सिषेविरे ॥

Verse 74
विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः । दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विशश्रमुरिति॥ सैनिकाः सेनायां समवेताः। प्राग्वहतीयष्ठक्प्रत्ययः। नमेरूणां सुरपुंनागानां छायासु निषण्णानां दृषदुपविष्टानां मृगाणां कस्तूरीमृगाणां नाभिभिर्वासितोत्सङ्गाः सुरभिततला दृषदः शिला अध्यास्याधिष्ठाय। अधिशीङ्स्थासां कर्म` (पा.1।4।46) इति कर्म। दृषत्स्वधिरुह्येत्यर्थः। विशश्रमुर्विश्रान्ताः ॥

Verse 75
सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः । आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सरलेति॥ सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातङ्गानां गजानाम्। ग्रीवासु भवानि ग्रैवेयाणि कण्ठशृङ्खलानि। `ग्रीवाभ्योऽण्च` (पा.4।3।57) इति चकाराड्ढतञ्प्रत्ययः। तेषु स्फुरितत्विषः प्रतिफलितभास ओषधयो ज्वलन्तो ज्योतिर्ललाविशेषा नक्तं रात्रौ नेतुर्नायकस्य रघोरस्नेहदीपिकास्तैलनिरपेक्षाः प्रदीपा आसन् ॥

Verse 76
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः । गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य रघोरुत्सृष्टेषूज्झितेषु निवासेषु सेनानिवेशेषु कण्ठरज्जुभिर्गजग्रैवैः क्षता निष्पिष्टास्त्वचो येषां ते देवदारवः किरातेभ्यो वनचरेभ्यो गजानां वर्ष्म प्रमाणम्। `वर्ष्म देहप्रमाणयोः` इत्यमरः (अ.को.3|3|131)। शशंसुः कथितवन्तः, देवदारुस्कन्धत्वक्क्षतैर्गजानामौन्नत्युमनुमीयत इत्यर्थः ॥

Verse 77
तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत् । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र हिमाद्रौ रघोः पर्वते भवैः पर्वतीयैः। `पर्वताञ्च` (पा.4।2।143)इति छप्रत्ययः। गणैरुत्सवसंकेताख्यैः सप्तभिः सह। `गणानुत्सवसंकेतानजयत्सप्तपाण्डवः` इति महाभारते। नाराचानां बाणविशेषाणां क्षेपणीयानां भिन्दिपालानामश्मनां च निष्पेषेण संघर्षेणोत्पतिता अनला यस्मिंस्तत्तथोक्तम्। `क्षेपणीयो भिन्दिपालः खङ्गो दीर्घो महाफलः` इति यादवः। घोरं भीमं जन्यं युद्धमभूत्। `युद्धमायोधनं जन्यम्` इत्यमरः (अ.को.2|8|103)॥

Verse 78
शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान् । जयोदाहरणं बाह्वोर्गापयामास किंनरान् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शरैरिति॥ स रघुः शरैर्बाणैरुत्सवसंकेतान्नाम गणान्विरतोत्सवान्कृत्वा। डित्वेत्यर्थः। किंनरान्बाह्वोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेषं गापयामास। `गतिबुद्धि-` (पा.1।4।52) इत्यादिना किंकराणां कर्मत्वम्॥

Verse 79
परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परस्परेति॥ तेषु गणेषूपायनयुक्ताः पाणयो येषां तेषु सत्सु परस्परेणान्योन्यं राज्ञा हिमवतः सारो धनरूपो विज्ञातः। हिमाद्रिणाऽपि राज्ञः सारो बलरूपो विज्ञातः। एतेन तत्रत्यवस्तूनामनर्ध्यत्वं गणानामभूतपूर्वश्च पराजय इति ध्वन्यते ॥

Verse 80
तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः । पौसस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ स रघुस्तत्र हिमाद्रावक्षोभ्यमधृष्यं यशोराशिं निवेश्य निधाय पौलस्त्येन रावणेन तुलितस्य चालितस्याद्रेः कैलासस्य ह्रियमादधानो जनयन्निव। अवरुरोहावततार। कैलासमगत्वैव प्रतिनिवृत्त इत्यर्थः। न हि शूराः परेण पराजितमभियुज्यन्त इति भावः ॥

Showing 71 to 80 of 88 verses