ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः । वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥
Metre: अनुष्टुप्
शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् । गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥
Metre: अनुष्टुप्
भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥
Metre: अनुष्टुप्
विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः । दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥
Metre: अनुष्टुप्
सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः । आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥
Metre: अनुष्टुप्
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः । गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥
Metre: अनुष्टुप्
तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत् । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥
Metre: अनुष्टुप्
शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान् । जयोदाहरणं बाह्वोर्गापयामास किंनरान् ॥
Metre: अनुष्टुप्
परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥
Metre: अनुष्टुप्
तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः । पौसस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥
Metre: अनुष्टुप्