यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥
Metre: अनुष्टुप्
सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥
Metre: अनुष्टुप्
भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥
Metre: अनुष्टुप्
अपनीतशिरस्त्त्राणां शेषास्तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥
Metre: अनुष्टुप्
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥
Metre: अनुष्टुप्
ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥
Metre: अनुष्टुप्
विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः । दुधुवुर्वाजिनः स्कन्धाँल्लग्न्कुङ्कुमकेसरान् ॥
Metre: अनुष्टुप्
तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् । कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥
Metre: अनुष्टुप्
काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः । गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ॥
Metre: अनुष्टुप्
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः । उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥
Metre: अनुष्टुप्