रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 88 verses
Verse 61
यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यवनीति॥ स रघुर्यवनीनां यवनस्त्त्रीणाम्। `जातेरस्त्त्रीविषयादयोपधात्` (पा.4।1।63)इति ङीष्। मुखानि पद्मानीव मुखपद्मानि। उपमितसमासः। तेषां मधुना मद्येन यो मदो मदरागः। कार्यकारणभावयोरभेदेन निर्देशः। तं न सेहे। कमिव? अकाले प्रावृड्व्यतिरिक्ते काले जलदोदयः। प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां संबन्धिनं बालातपमिव। अब्जहितत्वादब्जसंबन्धित्वं सौरातपस्य ॥

Verse 62
सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सङ्ग्राम इति॥ तस्य रघोरश्वसाधनैर्वाजिसैन्यैः। `साधनं सिद्धिसैन्ययोः` इति हैमः। पश्चाद्भवैः पाश्चात्त्यैर्यवनैः सह `दक्षिणापश्चात्पुरसस्त्यक्` (पा.4।2।98)। सहार्थे तृतीया। शृङ्गाणां विकाराः शार्ङ्गाणि धनूंषि तेषां कूजितैः शब्दैः। `शार्ङ्गं पुनर्धनुषि शार्ङ्गिणः। जये च शृङ्गविहिते चापेऽप्याह विशेषतः॥` इति केशवः। अथवा, -शार्ङ्गैः शृङ्गसंबन्धिभिः कूजितैर्विज्ञेया अनुमेयाः प्रतियोधाः प्रतिभटाः यस्मिंस्तस्मिन् रजसि तुमुलः सङ्गामः संकुलं युद्धमभूत्। `तुमुलं रणसंकुले` इत्यमरः ॥

Verse 63
भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भल्लेति॥ स रघुर्भल्लापवलर्जितैर्बाणविशेषकृत्तैः। `स्नुहीदलफलो भल्लः` इति यादवः। श्मश्रुलैः प्रवृद्धमुखरोमवद्भिः। `सिध्मादिभ्यश्च` (पा.5।2।97) इति लच्प्रत्ययः। तेषां पाश्चात्त्यानां शिरोभिः। सरघाभिर्मधुमक्षिकाभिर्व्याप्तैः। `सरघा मधुमक्षिका` इत्यमरः (अ.को.2|5|29)। क्षुद्राः सरघाः। `क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका` इत्यमरशाश्वतौ। क्षुद्राभिः कृतानि क्षौद्राणि मधूनि। `मधु क्षौद्रं माक्षिकादि` इत्यमरः (अ.को.2|9|107)। `क्षुद्राभअरमरवटरपादपादञ्` (पा.4।3।119) इति संज्ञायामञ्प्रत्ययः। तेषां पटलैः स्तबकैरिव। `पटलं तिलके नेत्ररोगे छन्दसि संचये। पटिके परिवारे च` इति हैमः। महीं तस्ताराच्छादयामास ॥

Verse 64
अपनीतशिरस्त्त्राणां शेषास्तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अपनीतेति॥ शेषा हतावशिष्ठा अपनीतशिरस्त्त्राणा अपसारितशीर्यण्याः सन्तः `शीर्षकम्। शीर्षण्यं च शरिस्त्त्रे` इत्यमरः। शरणागतलक्षणमेतत्। तं रघुं शरणं ययुः। तथा हि-महात्मनां संरम्भः कोपः। `संरम्भः संभ्रमे कोपे` इति विश्वः। प्रणिपातः प्रणतिरेव प्रतीकारो यस्य स हि। महतां परकीयमौद्धत्यमेवासह्यं, न तु जीवितमिति भावः ॥

Verse 65
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विनयन्त इति॥ तस्य रघोर्योधा भटा आस्तीर्णान्यजिनरत्नानि चर्मश्रेष्टानि यासु तासु द्राक्षावलयानां भूमिषु। `मृद्विका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च` इत्यमरः। मधुभिर्द्राक्षाफलप्रकृतिकैर्मद्यैर्विजयश्रमं युद्धखेदं विनयन्ते स्मापनीतवन्तः। `कर्तृस्थे चाशरीरे कर्मणि` (पा.1।3।37) इत्यात्मनेपदम्। `लट् स्मे` (पा.3।2।118) इति भूतार्थे लट् ॥

Verse 66
ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो रघुर्भास्वान् सूर्य इव शरैर्बाणैरुस्रैः किरणैरिव। `किरणोस्रमयूखांशुगभस्तघृणिरश्मयः` इत्यमरः। उदीच्यानुदग्भवान्नृपान् रसानुदकानीवोद्धरिष्यन् कौबेरीं कुबेरसंबन्धिनीं दिशमुदीचीं प्रतस्थे। अनेकेवशब्देनेयमुपमा। यथाह दण्डी-`एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा` इति ॥

Verse 67
विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः । दुधुवुर्वाजिनः स्कन्धाँल्लग्न्कुङ्कुमकेसरान् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विनीतेति॥ सिन्धुर्नाम काश्मीरदेशेषु कश्चिन्नदविशेषः। `देशे नदविशेषेऽब्धेः सिन्धुर्ना सरिति स्त्त्रियाम्` इत्यमरः। सिन्धोस्तीरे विचेष्टनैरङ्गपरिवर्तनैर्विनीताध्वश्रमास्तस्य रघोर्वाजिनोऽश्वा लग्नाः कुङ्कुमकेसराः कुङ्कुमकुसुमकिञ्जल्का येषां तान्। यद्वा, -लग्नकुङ्कुमाः केसराः सटा येषां तान्। `अथ कुङ्कुमम्। काश्मीरजन्म` इत्यमरः। `केसरो नामकेसरे। तुरंगसिंहयोः स्कन्धकेशेषु बहुलद्रुमे। पुंनागवृक्षे किञ्जल्के स्यात्` इति हैमः। स्कन्धान् कायान्। `स्कन्धः प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु। नृपे समूहे व्यूहे च` इति हैमः। दुधुवुः कम्पयन्ति स्म ॥

Verse 68
तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् । कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्रोदीच्यां दिशि भर्तृषु व्यक्तविक्रमम्। भर्तृवधेन स्फुटपराक्रममित्यर्थः। रघुचेष्टितं रघुव्यापारः। हूणा जनपदाख्याः क्षत्रियाः। तेषामवरोधा अन्तः पुरस्त्त्रियस्तासां कपोलेषु पाटलस्य पाटलिम्रस्ताडनादिकृतारुण्यस्यादेश्युपदेशकं बभूव। अथवा, -पाटल आदेश्यादेष्टा यस्य तद्बभूव। स्वयं लेख्यायत इत्यर्थः ॥

Verse 69
काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः । गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): काम्बोजा इति॥ काम्बोजा राजानः समरे तस्य रघोर्वीर्यं प्रभावम्। `वीर्यं तेजःप्रभावयोः` इति हैमः॥ सोढुमनीश्वरा अशक्ताः सन्तः। गजानामालानं बन्धनम्। भावे स्युटि `विभाषा लीयतेः` (पा.6।1।51) इत्यात्वम्। तेन परिक्लिष्टैः परिक्षतैरक्षोटैर्वृक्षविशेषैः सार्धमानताः ॥

Verse 70
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः । उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तेषामिति॥ तेषां काम्बोजानां सद्भिरश्वैर्भूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम्। `हिरण्यं द्रविणं द्युम्नम्` इत्यमरः (अ.को.2|9|90)। राशय एवोपदा उपायनानि। `उपायनमुपग्राह्यमुपहारस्तथोपदा` इत्यमरः (अ.को.2|8|28)। कोसलेश्वरं कोसलदेशाधिपतिं तं रघुं शश्वदसकृद्विविशुः। `मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः` इत्यमरः (अ.को.3|4|1)। तथाप्युत्सेका गर्वास्तु न विविशुः। सत्यपि गर्पकारणे न जगर्वेत्यर्थः ॥