चकम्पे तीर्णलौहित्ये तस्मिन्प्रागन्ज्योतिषेश्वरः । तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ॥
Metre: उद्गीति
न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् । रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम् ॥
Metre: अनुष्टुप्
तमीशः कामरूपाणामत्याखण्डलविक्रमम् । भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥
Metre: अनुष्टुप्
कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण छायामानर्च पादयोः ॥
Metre: अनुष्टुप्
इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् । रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ॥
Metre: अनुष्टुप्
स विश्वजितमाजह्ने यज्ञं सर्वस्वदक्षिणम् । आदानं हि विसर्गाय सतां वारिमुचामिव ॥
Metre: अनुष्टुप्
सत्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् । काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥
Metre: प्रहर्षिणी
प्रस्थानप्रणतिभिरङ्गुलीषु चकुर्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥