रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 86 verses
Verse 71
इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् । काकुत्स्थशब्दं य उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): इक्ष्वाक्किति॥ इक्ष्वाकोर्मनुपुत्रस्य वंश्यो वंशे भवः। नृपाणां ककुदं श्रेष्ठः। `ककुञ्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि` इति विश्वः। आहितलक्षणः प्रख्यातगुणः। `गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ` इत्यमरः (अ.को.3|1|3)। ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाभूत्। यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः। `महेच्छस्तु महाशयः` इत्यमरः (अ.को.3|1|3)। उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाध्यं प्रशस्तम्। ककुत्स्थस्यापत्यं पुमान् काकुत्स्थ इति शब्दं संज्ञां दधति बिभ्रति। तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः। पुरा किल पुरंजयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदैक्ष्वाको राजा देवैः सह समयबन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिलमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभ इति पौराणिकी कथाऽत्रानुसंधेया। वक्ष्यते चायमेवार्थ उत्तरश्लोके ॥

Verse 72
महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः । चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): महेन्द्रमिति॥ यः ककुत्स्थः संयति युद्धे। महानुक्षा महोक्षः। `अचतुर-` (पा.5।4।77) इत्यादिना निपातः। तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य। अत एव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन् बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार। तद्भर्तॄनसुरानवधीदित्यर्थः। न हि विधवाः प्रसाध्यन्त इति भावः॥

Verse 73
ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदमङ्गदेन । उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽधितष्ठौ ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ऐरावतेति॥ यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमङ्गदेन स्वकीयेन संघट्टयन् संघर्षयन् स्वामग्र्यां श्रेष्ठां मूर्तिमुपेयुषोऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनस्यार्धासनम्। `अर्धं नपुंसकम्` (पा.2।2।2) इति समासः। अधितष्ठावधिष्ठितवान्। `स्थादिष्वभ्यासेन चाभ्यासस्य` (पा.8।3।64) इत्यभ्यासेन व्यवायेऽपि षत्वम्। न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुरुक्षत्। किंतु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः। अथवा, -अर्धासनमपीत्यपेरन्वयः ॥

Verse 74
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः । अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): जात इति॥ उरुकीर्तिर्महायशाः कुलप्रदीपो वंशप्रदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल। यो दिलीपः शक्राभ्यसूयाविनिवृत्तये। न त्वशक्त्येति भावः। एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुस्तस्य भावे तत्त्वेऽतिष्ठत्। इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः॥

Verse 75
यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् । वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): यस्मिन्निति॥ यस्मिन् दिलीपे महीं शासति सति। विहरत्यत्रेति विहारः क्रीडास्थानम्। तस्यार्धपथे निद्रां गतानां वाणिनीनां मत्ताङ्गनानाम्। `वाणिनी नर्तकीमत्ताविदग्धवनितासु च` इति विश्वः। `वाणिन्यौ नर्तकीमत्तेै`इत्यमरश्च। अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत्। आहरणायापहर्तुं को हस्तं लम्बयेत्? तस्याज्ञासिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः। अर्धश्चासौ पन्थाश्चेति विग्रहः। समप्रविभागे प्रमाणाभावान्नैकदेशिसमासः ॥

Verse 76
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पुत्र इति॥ विश्वजितो नाम महाक्रतोः प्रयोक्ताऽनुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पैत्र्यमेव। प्रशास्ति पालयति। यो रघुश्चतसृभ्यो दिग्भ्य आवर्जिताहृता संभृता सम्यग्वर्धिता च या तां चतुर्दिगावर्जितसंभृतां विभूर्ति संपदं मृत्यात्रमेव शेषो यस्यास्तामकरोत्। विश्वजिद्यागस्य सर्वस्वदक्षिणाकत्वादित्यर्थः ॥

Verse 77
आरूढमद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टम् । ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आरूढमिति॥ किंच, अद्रीनारूढम्। उदधीन्वितीर्णमवगाढम्। सकलभूगोलव्यापकमित्यर्थः। भुजंगमानां वसतिं पातालं प्रविष्टम्। ऊर्ध्वं स्वर्गादिकं गतं व्याप्तम्। इत्थं सर्वदिग्व्यापीत्यर्थः। अनुबध्नातीत्यनुबन्धि चाविच्छेदि। कालत्रयव्यापकं चेत्यर्थः। अत एवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिन्मानेन परिच्छेत्तुं परिमातुं नालं न शक्यम् ॥

Verse 78
असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः । गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ असावजाख्यः कुमारः। त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव। `जयन्तः पाकशासनिः` इत्यमरः (अ.को.1|1|56)। तं रघुमनुजातः। तस्माज्जात इत्यर्थः। तज्जातोऽपि तदनुजातो भवति; जन्यजनकयोरानन्तर्यात्। `गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च` (पा.3।4।72) इति क्तः। सोपसृष्टत्वात्सकर्मकत्वम्। आह चात्रैव सूत्रे वृत्तिकारः-`श्लिषादयः सोपसृष्टाः सकर्मका भवन्ति` इति। दम्यः शिक्षणीयावस्थः। योऽजो गुर्वीं भुवनस्य धुरं धुर्येण धुरंधरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति। यथा कश्चिद्वत्सतरोऽपि धुर्येण महोक्षेण समं वहतीत्युपमालंकारो ध्वन्यते। `दम्यवत्सतरौ समौ` इत्यमरः (अ.को.2|9|63) ॥

Verse 79
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कुलेनेति॥ कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मनस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व। किं बहुना, रत्नं काञ्चनेन समागच्छतु संगच्छताम्। प्रार्थनायां लोट्। रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वाद्युवयोः समागमः प्रार्थ्यत इत्यर्थः ॥

Verse 80
ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः सुनन्दावचनस्यावसानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जां तनूकृत्य संकोच्य प्रसादेन मनःप्रसादेनामलया प्रसन्नया दृष्ट्या संवरणस्य स्रजा स्वयंवरणार्थं स्रजेव कुमारमजं प्रत्यग्रहीत् स्वीचकार। सम्यक्सानुरागमपश्यदित्यर्थः ॥

Showing 71 to 80 of 86 verses