रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 86 verses
Verse 61
विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः । प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): विन्ध्यस्येति॥ विन्ध्यस्य नाम्नो महाद्रेः। तपनमार्गनिरोधाय वर्धमानस्येति शेषः। संस्तम्भयिता निवारयिता। निःशेषं पीत उज्झितः पुनस्त्यक्तः सिन्धुराजः समुद्रो येन सोऽगस्त्योश्वमेधस्यावभृथे दीक्षान्ते कर्मणि। `दीक्षान्तोऽवभृथो यज्ञे` इत्यमरः (अ.को.2|7|29)। आर्द्रमूर्तेः। स्नातस्येत्यर्थथः। यस्य पाण्ड्यस्य प्रीत्या स्नेहेन। न तु दाक्षिण्येन। सुस्नातं पृच्छतीति सौस्नातिकः। भवति। `पृच्छतौ सुस्रातादिभ्यः`(वा.2953) इत्युपसंख्यानाट्टक् ॥

Verse 62
अस्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः । पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अस्त्रमिति॥ पुरा पूर्वं जनस्थानस्य खरालयस्य विमर्दशङ्की दृप्त उद्धतो लङ्काधिपती रावणो दुरापं दुर्लभमस्त्रं ब्रह्मशिरोनामकं हरादाप्तवता येन पाण्ड्येन संधाय इन्द्रलोकावजयायेन्द्रलोकं जेतुं प्रतस्थे। इन्द्रविजयिनो रावणस्यापि विजेतेत्यर्थः॥

Verse 63
अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी । रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ महाकुलीनेन महाकुले जातेन। `महाकुलादञ्खञौ` (पा.4।1।141) इति खञ्प्रत्ययः। अनेन पाण्ड्येन पाणौ त्वदीये विधिवद्यथाशास्त्रं गृहीते सति गुर्वी गुरुः। `वोतो गुणवचनात्` (पा.4।1।44)इति ङीष्। महीव रत्नैरनुविद्धो व्याप्तोऽर्णव एव मेखला यस्यास्तस्याः। इदं विशेषणं मह्यामिन्दुमत्यां च योज्यम्। दक्षिणस्या दिशः सपत्नी भव। अनेन सपत्न्यन्तराभावो ध्वन्यते ॥

Verse 64
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ताम्बूलेति॥ ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका यासु तासु। `ताम्बूलवल्ली ताम्बूली नागवल्ल्यपि`इति, `घोण्टा तु पूगः क्रमुकः` इति चामरः। एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु। `गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्` इत्यमरः (अ.को.2|6|132)। तमालस्य तापिच्छस्य पत्राण्येवास्तरणानि यासु तासु। `कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि` इत्यमरः (अ.को.2|6|132)। मलयस्थलीषु शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ॥

Verse 65
इन्दीवरशअयामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): इन्दीवरेति॥ असौ नृप इन्दीवरश्यामतनुः, त्वं रोजना गोरोचनेव गौरी शरीरयष्टिर्यस्याः सा। ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽन्योन्यशोभायाः परिवृद्धयेऽस्तु ॥

Verse 66
स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः । दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स्वसुरिति॥ विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्याश्चेतसि तदीयः सुनन्दासंबन्ध्युपदेशो वाक्यम्। दिवाकरस्यादर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथांशुश्चन्द्रकिरण इव। अन्तरमवकाशं न लेभे ॥

Verse 67
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): संचारिणीति॥ पतिंवरा सेन्दुमती रात्रौ संचारिणी दीपशिखेव यं यं भूमिपालं व्यतीयायातीत्य गता स स भूमिपालः। स सर्व इत्यर्थः। `नित्यवीप्सयोः` (पा.8।1।4) इति वीप्सायां द्विर्वचनम्। नरेन्द्रमार्गे राजपथेऽट्टाख्यो गृहभेद इव। `स्यादट्टः क्षौममस्त्रियाम्` इत्यमरः (अ.को.2|2|12)। विवर्णभावं विच्छायत्वम्। अट्टस्तु तमोवृतत्वम्। प्रपेदे ॥

Verse 68
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्यामिति॥ तस्यामिन्दुमत्यामुपस्थितायामासन्नायां सत्यां रघोः सूनुरजो मां वृणीत न वेति समाकुलः संशयितोऽभूत्। अथास्याजस्य वामेतरो वामादितरो दक्षिणो बाहुः। केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानम्। तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ॥

Verse 69
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी । न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्भपदाली ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ कुमारी। सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य। अन्योपगमाद्राजान्तरोपगमाद्व्यावर्तत निवृत्ता। तथा हि-षट्पदानी भृङ्गावलिः। प्रफुल्लतीति प्रफुल्लं विकसितम्। पुष्पितमित्यर्थः। प्रपूर्वात्फुल्लतेः पचाद्यच्। फलतेस्तु प्रफुल्लमिति पठितव्यम्। `अनुपसर्गात्-` (पा.8।2।55) इति निषेधात्। इत्युभयश्चापि न कदाचिदनुपपत्तिरित्युक्तं प्राक्। सहकारं चूतविशेषमेत्य। `आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः` इत्यमरः (अ.को.2|4|33)। वृक्षान्तरं न काङ्क्षति। न हि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः॥

Verse 70
तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य । प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम्। इन्दोः प्रभेव प्रभा यस्यास्ताम्। आह्लादकत्वादिन्दुसाम्यम्। इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम्। `प्रथने वाचशब्दे` (पा.3।3।33) इति घञो निषेधात्` , `ॠदोरप्` (पा.3।3।57)इत्यप्प्रत्ययः। `विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः` इत्यमरः (अ.को.3|2|22)। वाक्यं वक्तुं प्रचक्रमे ॥