रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 86 verses
Verse 51
अध्यास्य चाम्भःपृषतोक्षितानि शैलायगन्धीनि शिलातलानि । कलापिनां प्रवृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अध्यास्येति॥ किंच, प्रावृषि वर्षासु कान्तासु गोवर्धनस्याद्रेः कन्दरासु दरीषु। `दरी तु कन्दरो वा स्त्री` इत्यमरः (अ.को.2|3|6)। अम्भसः पृषतैर्बिन्दुभिरुक्षितानि सिक्तानि। शिलायां भवंशैलेयम्। `शिलाजतु च शैलेयम्` इति यादवः। यद्वा, -शिलापुष्पाख्य ओषधिविशेषः। `कालानुसार्यवृद्धाश्यपुष्पशीतशिवानि तु। शैलेयम्` इत्यमरः (अ.को.2|3|6)। `शिलाया ढः` (पा.5।3।102) इत्यत्र शिलाया इति योगविभागादिवार्थे ढप्रत्ययः। तद्गनधवन्ति शैलेयगन्धीनि शिलातलान्यध्यास्याधिष्ठाय कलापिनां बर्हिणां नृत्यं पश्य ॥

Verse 52
नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री । महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नृपमिति॥ `स्यादावर्तोऽम्भसां भ्रमः` इत्यमरः (अ.को.1|10|6)। आवर्तमनोज्ञा नाभिर्यस्याः सा। इदं च नदीसाम्यार्थमुक्तम्। अन्यवधूरन्यपत्नी भवित्री भाविनी सा कुमारी महीधरं तं नृपम्। सागरगामिनी सागरं गन्त्री स्रोतोवहा नदीमार्गवशादुपेतं प्राप्तं महीधरं पर्वतमिव। व्यत्यगादतीत्य गता ॥

Verse 53
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषीं सादितशत्रुपक्षं बालामवालेन्दुमुखीं बभाषे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ भुजिष्या किंकरी सुनन्दा। `भुजिष्या किंकरी मता` इति हलायुधः। अङ्गदाश्लिष्टभुजं केयूरनद्धबाहुं सादितशत्रुपक्षं विनाशितशत्रुवर्गं हेमाङ्गदं नाम कलिङ्गनाथमासेदुषीमासन्नामबालेन्दुमुखीं पूर्णेन्दुमुखीं बालामिन्दुमतीं बभाषे ॥

Verse 54
असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च । यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महोदधेश्च पतिः स्वामी। महेन्द्रमहोदधी एवास्य गिरिजलदुर्गे इति भावः। यस्य यात्रासु क्षरतां मदस्राविणां सैन्यगजानां छलेन महेन्द्रो महेन्द्राद्रिः पुरोऽग्रे यातीव। अद्रिकल्पा अस्य गजा इत्यर्थः॥

Verse 55
ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः । रिपुश्रियां साञ्जनबाष्पसेके बन्दीकृतानामिव पद्धती द्वे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ज्याघातेति॥ सुभुजश्चापभृतां पुरोगो धनुर्धराग्रेसरो यः। बन्दीकृतानां प्रगृहीतानाम्। `प्रग्रहोपग्रहौ बन्द्याम्` इत्यमरः (अ.को.2|8|119)। रिपुश्रिया साञ्जनो बाष्पसेको ययोस्ते। कज्जलमिश्राश्रसिक्ते इत्यर्थः। पद्धती इव। द्वे ज्याघातानां मौर्वीकिणानां रेखे राजी भुजाभ्यां बिभर्ति । द्विवचनात्सव्यसचित्वं गम्यते। रिपुश्रियां भुजाभ्यामेवाहरणात्तद्गतरेखयोस्तत्पद्धतित्वेनोत्प्रेक्षा। तयोः श्यामत्वात्साञ्जनाश्रुसेकोक्तिः ॥

Verse 56
यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः । प्रासादवातायनदृश्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यमिति॥ आत्मनः सद्मनि सुप्तं यं हेमाङ्गदं संनिकृष्टः समीपस्थोऽत एव प्रासादवातायनैर्द्दश्यवीचिर्मन्द्रेण गम्भीरेण। `मन्द्रस्तु गम्भीरे` इत्यमरः (अ.को.1|7|2)। ध्वनिना त्याजितं विवर्जितं यामस्य तूर्यं प्रहरावसानसूचकं वाद्यं येन स तथोक्तः। `द्वौ यामप्रहरौ समौ` इत्यमरः (अ.को.1|4|7)। अर्णव एव प्रबोधयति। अर्णवस्यैव तूर्यकार्यकारित्वात्तद्वैयर्थ्यमित्यर्थथः। समुद्रस्यापि सेव्यः किमन्येषामिति भावः ॥

Verse 57
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ अनेन राज्ञा सार्धं तालीवनैर्मर्मरेषु मर्मरेति ध्वनत्सु। `अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्`इत्यमरवचनाद्गुणपरस्यापि `मर्मर` शब्दस्य गुणिपरत्वं प्रयोगादवसेयम्। अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः। `लवङ्गं देवकुसुमम्` इत्यमरः (अ.को.2|6|126)। मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्याः सा तथाभूता सती त्वं विहर क्रीड ॥

Verse 58
प्रलोभिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् । तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रलोभितेति॥ आकृत्या रूपेण लोभनीयाऽऽकर्षणीया। न तु वर्णनमात्रेणेत्यर्थः। विदर्भराजावरजा भोजानुजेन्दुमती तया सुनन्दयैवं प्रलोभितापि प्रचोदितापि। नीत्या पुरुषकारेण द्वरकृष्टा दूरमानीता लक्ष्मीः प्रतिकूलं दैवं यस्य तस्मात्पुंस इव। तस्माद्धेमाङ्गदादपावर्तत प्रतिनिवृत्ता ॥

Verse 59
अथोरगाख्यस्य पुरस्य नाथं दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि! विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ द्वारे नियुक्ता दौवारिकी सुनन्दा। `तत्र नियुक्तः` (पा.4।4।69) इति ठक्प्रत्ययः। `द्वारादीनां च` (पा.7।3।4)इत्यौ-आगमः। आकारेण देवसरूपं देवतुल्यम्। उरगाख्यस्य पुरस्य पाण्ड्यदेशे कान्यकुब्जतीरवर्तिनागपुरस्य नाथमेत्य प्राप्य। हे चकोराक्षि! इतो विलोकयेति पूर्वानुशिष्टां पूर्वमुक्तां भोजस्य राज्ञो गोत्रापत्यं स्त्रियं भोज्यामिन्दुमतीम्। `क्रौड्यादिभ्यश्च` (पा.4।1।80)इत्यत्र `भोजाक्षत्रियात्`इत्युपसंख्यानात्ष्यङ्प्रत्ययः। `यङश्चाप्` (पा.4।1।74) इति चाप्। निजगाद। `इतो विलोक्य` इति पूर्वमुक्त्वा पश्चाद्वक्तव्यं निजगादेत्यर्थः ॥

Verse 60
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन । आभाति बाला4तपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पाण्ड्य इति॥ अंसयोरर्पिता लम्बन्त इति लम्बा हारा यस्य सः। हरिचन्दनेन गोशीर्षाख्येन चन्दनेन। `तैलपर्णकगोशीर्षे हरिचन्दनमस्त्रियाम्` इत्यमरः (अ.को.2|3|5)। क्लृप्ताङ्गरागः सिद्धानुलेपनोऽयं पाण्डूनां जनपदानां राजा पाण्ड्यः। `पाण्डोर्जनपदशब्दात्क्षत्रियाड्ड्यण्वक्तव्यः`(वा.2671) इति ड्यण्प्रत्ययः। `तस्य राजन्यपत्यवत्` इति वचनात्। बालातपेन रक्ता अरुणाः सानवो यस्य स सनिर्झरोद्गारः प्रवाहस्यन्दनसहितः। `वारिप्रवाहो निर्झरो झरः` इत्यमरः (अ.को.2|3|5)। अद्रिराज इवाभाति ॥