रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 71 verses
Verse 51
कश्चिद्विषत्खङ्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य । वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): कश्चिदिति॥ द्विषतः खङ्गेन हृतोत्तमाङ्गश्छिन्नशिराः कश्चिद्वीरः सद्यो विमानप्रभुतां विमानाधिपत्यम्। देवत्वमित्यर्थः। उपेत्य प्राप्य वामाङ्गसंसक्ता सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन्, समरे नृत्यत्स्वं निजं कबन्धं अशिरस्कं कलेवरं ददर्श। `कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्` इत्यमरः (अ.को.2|8|118) ॥

Verse 52
अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथइनौ च कौचित् । व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): अन्योन्येति॥ कौचिद्वीरावन्योन्यस्य सूतयोः सारथ्योरुन्मथनान्निघनात्तावेव सूतौ रथिनौ योद्धारौ चाभूताम्। तावेव व्यश्वौ नष्टाश्वौ सन्तौ गदाभ्यां व्यायतो दीर्घः संप्रहारो युद्धं ययोस्तावभूताम्। ततो भग्नायुधौ सन्तौ बाहुविमर्दे निष्ठा नाशो ययोस्तौ बाहुयुद्धसक्तावभूताम्। `निष्ठा निष्पत्तिनाशान्ताः` इत्यमरः (अ.को.3|3|47)॥

Verse 53
परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव । अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरः प्रार्थितयोर्विवादः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): परस्परेणेति॥ परस्परेणान्योन्यं क्षतयोः क्षततन्वोः समकालमेककालं यथा तथोत्क्रान्तवाय्वोर्युगपदुद्गतप्राणयोः। एकैवाप्सराः प्रार्थिता याभ्यां तयोरेकाप्सरः प्रार्थितयोः। प्रार्थितैकाप्सरसोरित्यर्थः। `वाहिताग्न्यादिषु` (पा.2।2।37) इति परनिपातः। अथवा, -एकस्यामप्सरसि प्रार्थितं प्रार्थना ययोरिति विग्रहः। `स्त्रियां बाहुष्वप्सरसः` इति बहुत्वाभिधानं प्रायिकम्। कयोश्चित्प्रहर्त्रोर्योधयोरमर्त्यभावेऽपि देवत्वेऽपि विवादः कलह आसीत्। एकामिषाभिलाषो हि महद्वैरबीजमिति भावः ॥

Verse 54
व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् । पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): व्यूहाविति॥ तावुभौ व्यूहौ सेनासंघातौ। `व्यूहस्तु बलविन्यासः` इत्यमरः (अ.को.2|8|79)। पश्चात्पुरश्च यौ मारुतौ तयोः पर्यायवृत्त्या क्रमवृत्त्या प्रवृद्धौ महान्तावर्णवोर्मी महार्णवोर्मी इव। इतरेतरस्मादन्योन्यस्मादव्यवस्थं व्यवस्थारहितमनियतं जयं भङ्गं पराजयं चापतुः प्राप्तवन्तौ ॥

Verse 55
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव । भूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): परेणेति॥ बले स्वलैन्ये परेण परबलेन भग्नेऽपि महौजा महाबलोऽजोऽरिसैन्यं प्रत्येव ययौ। तथा हि--समीरणेन वायुना धूमो निवर्त्येत कक्षादपसार्येत। वर्ततेर्ण्यन्तात्कर्मणि संभावनायां लिङ्। वह्निस्तु यतो यत्र कक्षस्तृणम्। `कक्षौ तु तृणवीरुधौ` इत्यमरः। तत एव तत्रैव। प्रवर्तत इति शेषः। सार्वविभक्तिकस्तसिः ॥

Verse 56
रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः । निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): रथीति॥ रथी रथारूढो निषङ्गी तूणीरवान्। `तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः` इत्यमरः (अ.को.2|8|88)। कवची वर्मधरो धनुष्मान् धनुर्धरो दृप्तो रणदृप्त एकवीरोऽसहायशूरः सोऽजो राजन्यकं राजसमूहम्। `गोत्रोक्ष-` (पा.4।2।39) इत्यादिना वुञ्प्रत्ययः। महावराहो वराहावतारो विष्णुः कल्पक्षये कल्पान्तकाल उद्वृत्तमुद्वेलमर्णवाम्भ इव। निवारयामास ॥

Verse 57
स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ । आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान्सुषुवे रिपुघ्नान् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽजः। आजौ संग्रामे दक्षिणं हस्तं तूणमुखेन निषङ्गविवरेण वाममतिसुन्दरम्। `वामं सव्ये प्रतीते च द्रविणे चातिसुन्दरे` इति विश्वः। व्यापारयन्नलक्ष्यत, शरसंधानादयस्तु दुर्लक्ष्या इत्यर्थः। सकृदाकर्णकृष्टा। योद्धुरस्याजस्य मौर्वी ज्या रिपून्घ्नन्तीति रिपुघ्नाः। तान्। `अमनुष्यकर्तृके च` (पा.3।2।53) इति क्प्रत्ययः। बाणान्सुषुव इव सुषुवे किमु। इत्युत्प्रेक्षा ॥

Verse 58
स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भ्रुकुटीर्वहद्भिः । तस्तार गां भल्लनिकृत्तकण्ठैर्हूंकारगर्भैर्द्विषतां शिरोभिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ शोऽजः रोषेण दष्टा अत एवाधिकलोहिता ओष्ठा येषां तानि तैः। व्यक्ता ऊर्ध्वा रेखा यासां ता भ्रुकुटीर्भ्रूभङ्गान्वहद्भिः। भल्लनिकृत्ता बाणविशेषच्छिन्नाः कण्ठा येषां तैः। हूंकारगर्भैः सहूंकारैः। हूंकुर्वद्भिरित्यर्थः। द्विषतां शिरोभिर्गां भूमिं तस्तार छादयामास ॥

Verse 59
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च । सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सर्वैरिति॥ द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलाङ्गैः सेनाङ्गैः। `हस्त्यश्वरथपादातं सेनाङ्गं स्याञ्चतुष्टयम्` इत्यमरः। कङ्कटभेदिभिः ककवचभेदिभिः। `उरश्छदःकङ्कटकोऽजगरः कवचोऽस्त्रियाम्` इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः। तं प्रजह्रुरित्यर्थः। सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी। तदुक्तम्-`अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः। सर्वदा सर्वथाभावात्क्वचित्किंचिद्विवक्ष्यते` ॥

Verse 60
सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः । नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ परेषां द्विषामस्त्रव्रजैश्छन्नरथः सोऽजः। नीहारैर्हिमैर्मग्नो दिनपूर्वभागः प्रातःकालः किंचित्प्रकाशेनेषल्लक्ष्येण विवस्वतेव। ध्वजाग्रमात्रेण लक्ष्यो बभूव। ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ॥