रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 95 verses
Verse 51
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते । अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): सुरतेति॥ सुरतश्रमेण संभृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते। अथ च त्वमात्मना स्वरूपेणास्तं प्राप्ताः। अतः कारणाद्देहभृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ॥

Verse 52
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम्? । ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): मनसेति॥ मया मनसापि तव विप्रियं न कृतपूर्वम्। पूर्वं न कृतमित्त्यर्थः। सुप्सुपेति समासः। किं केन निमित्तेन मां जहासि त्यजसि? नन्वहं क्षितेः शब्दपतिः शब्दत एव पतिः। न त्वर्थत इत्यर्थः। भावनिबन्धनाऽभिप्रायनिबन्धना स्वाभावहेतुका मे रतिः, प्रेम तु त्वय्येव। अस्तीति शेषः ॥

Verse 53
कुसुमोत्स्वचितान्वलीभृतश्चलयन्भृङ्गरुचस्तवालकान् । करभोरु! करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): कुसुमेति॥ कुसुमैरुत्खचितानुत्कर्षेण रचितान् वलीभृतो भङ्गीयुक्तान्। कुटिलानित्यर्थः। भृङ्गरुचो नीलांस्तवालकांश्चलयन्कम्ययन् मारुतः हे करभोरु करभसदृशोरु!`मणिबन्धादाकनिष्ठं करस्य करभो बहिः` इत्यमरः। मे मनस्त्वदुपावर्तनशङ्कि तव पुनरागमने शङ्कावत्करोति। त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ॥

Verse 54
तदपोहितुमर्हसि प्रिये! प्रतिबोधेन विषादमाशु मे । ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ हे प्रिये! तत्तस्मात्कारणादाशु विषादं दुःखम्। नक्तं रात्रावोषधिस्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्धकारमिव। प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ॥

Verse 55
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् । निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): इदमिति॥ इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं निवृत्तसंलापं तव मुखम्। निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तर्वर्तिनां षट्पदानां स्वनो यत्र तत्। निःशब्दभृङ्गमित्यर्थः। एकपङ्कजमद्वितीयं पद्ममिव। मां दुनोति परितापयति ॥

Verse 56
शशिनं पुरनेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् । इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): शशिनमिति॥ शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति। द्वन्द्वीभूटचरतीति द्वन्द्वचरः तं पतत्रिणं चक्रवाकं दयिता चक्रवारी पुनरेति। इति हेतोस्तौ चन्द्र-चक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ। `अन्तरमवकाशावधिपरिधानन्तर्द्धिभेदतादर्थ्ये` इत्यमरः। अत्यन्तगता पुनरावृत्तिरहिता त्वं कथं न मां दहेर्न संतापयेः? अपि तु दहेरेवेत्यर्थः ॥

Verse 57
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् । तदिदं विषहिष्यते कथं वद वामोरु! चिताधिरोहणम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): नवेति॥ नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परिपप्तं भवेत्। वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु। `वामं स्यात्सुन्दरे सव्ये` इति केशवः। `संहितशफलक्षण-` इत्यादिनोङ्प्रत्ययः। तदिदमङ्गं चितायाः काष्ठसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥

Verse 58
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी । गतिविभ्रमसादनीरवा न शुचा नानु मृतेन वक्ष्यते ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): इयमिति॥ इयं प्रथमाऽऽद्या रहःसखी। सुरतसमयेऽप्यनुयानादिति भावः। गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाऽप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम्। मृतामित्यर्थः। त्वामनु त्वया सह। `तृतीयार्थे` (पा.1।4।85)इत्यनुशब्दस्य कर्मप्रवचनीयत्वात् द्वितीया। शुचा शोकेन मृतेव न लक्ष्यत इति न। लक्ष्यत एवेत्यर्थः। संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ॥

Verse 59
कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् । पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): कलमिति॥ त्रिदिवेति॥ युग्मम्। उभयोरेकान्वयः। अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम्। कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम्। पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः। पवनेन वायुना धूतलतास्वीषत्कम्पितलतासु विभ्रमा विलासाः। इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः। त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इत्यर्थथः। तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः। ते तु तत्संगम एव सुखकारणः, नान्यथा। प्रत्युत प्राणानपहरन्तीति भावः ॥

Verse 60
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): कलमिति॥ त्रिदिवेति॥ युग्मम्। उभयोरेकान्वयः। अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम्। कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम्। पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः। पवनेन वायुना धूतलतास्वीषत्कम्पितलतासु विभ्रमा विलासाः। इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः। त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इत्यर्थथः। तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः। ते तु तत्संगम एव सुखकारणः, नान्यथा। प्रत्युत प्राणानपहरन्तीति भावः ॥

Showing 51 to 60 of 95 verses