रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 82 verses
Verse 51
ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः । तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): ग्रथितेति॥ वनमालया वनपुष्पस्रजा ग्रथितमौलिर्बद्धधम्मिल्लः । तरुणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः। इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासार्थम्। तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिर्भृगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासु विरुरुचे विदिद्युते ॥

Verse 52
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः । ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): तन्विति॥ तनुषु लतासु विनिवेशितविग्रहाः संक्रमितदेहाः। भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्या नन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः। प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ॥

Verse 53
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिगतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): श्वगणीति॥ स दशरथः। शुनां गणः स एषामस्तीति श्वगणिनः श्वप्राहिणः। तैः। वागुरा मृगबन्धनरज्जुः। `वागुरा मृगबन्धनी` इत्यमरः (अ.को.2|10|26)। तया चरन्तीति वागुरिका जालिकाः। `चरति` (पा.4।4।8) इति ठक्प्रत्ययः। `द्वौ वागुरिकजालिकौ` इत्यमरः (अ.को.2|10|14)। तैशअच प्रथममास्थइतमधिष्ठितम्। व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च। यस्मात्तथोक्तम्। `दस्युतस्करमोषकाः` इत्यमरः (अ.को.2|10|24)। `कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः। आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठेत्॥` इति कामन्दकः। स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत्। निपानवदाहावयुक्तम्। `आहावस्तु निपानं स्याद्गुपकूपजलाशये` इत्यमरः (अ.को.2|10|26)। मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ॥

Verse 54
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् । धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः। रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा। कनकमिव पिङ्गः पिशङ्गो यस्तडिदेवप गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव। `स्युर्नभस्यप्रौष्टपदभाद्रभाद्रपदाः समाः` इत्यमरः। अधिज्यमधिगतमौर्वीकं धनुरुपापदे जग्राह ॥

Verse 55
तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः। `पृथुकः शावकः शिशु` इत्यमरः (अ.को.2|5|40)। व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत्। कुशा गर्भे येषां तानि मुखानि यस्य तत् कुशगर्भमुखम्। तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत्। मृगाणां यूथं कुलम्। `सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्` सारो यस्य तत्। मृगाणां यूथं कुलम्। `सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्` इत्यमरः (अ.को.2|5|40)। तस्य दशरथस्य पुरस्तादग्र आविर्बभूव। वसन्ततिलका वृत्तम् ॥

Verse 56
तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूर्णीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनमाकुलदृष्टिपातै र्वातेरितोत्पलदलप्रकरैरिवार्द्रैः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ जवनो जवशीलः। `जुचंक्रम्य`- (पा.3।2।150) इत्यादिना युच्प्रत्तययः। `तरस्वी त्वरितो वेगी प्रजवी जवनो जवः` इत्यमरः (अ.को.2|8|73)। तं वाजिनमश्वं गतेनारूडेन। तूणीषुधिः। `बह्वादिभ्यश्च` (पा.4।1।54)इति स्त्रियां ङीष्। तस्या मुखाद्विवरादुद्धृतशरेण राज्ञा प्रार्थितमभियाचितम्। `याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः`इति केशवः। अत एव विशीर्णा पङ्क्तिः संघीभावो यस्य तत्। मृगयूथं कर्तृ आद्रैर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः। वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव। वनं श्यामीचकार ॥

Verse 57
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः प्रतिसंजहार ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): लक्ष्यीकृतेति॥ हरिरिन्द्रो विष्णुर्वा तस्येव प्रभावः सामर्थ्य यस्य स तथोक्तः। धन्वी धनुष्मान् स नृपः। लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थिताम्। सह चरतीति सहचरी। पचादिषु चरतेष्टित्करणान्ङीप्। यथाह वामनः-`अनुचरीति चरेष्टित्त्वात्` इति। तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात्। कृपामृदुमनाः करुणार्द्रचितः सन्। आकर्णकृष्टमपि। दुष्प्रतिसंहरमपीत्यर्थः। बाणं प्रतिसंजहार। नैपुण्यादित्यर्थः। नैपुण्यं तु `धन्वी` इत्यनेन गम्यते ॥

Verse 58
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः । त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्ताविलोचनविवलासव्यापारान्सादृश्यात्स्मरतः। अपरेष्वपि मृगेषु शरान्मुमुक्षोर्मोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे। स्वयमेव भिद्यते स्म। भिदेः कर्मकर्तरि लिट्। कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः। न त्वनैपुण्यादिति तात्पर्यार्थः ॥

Verse 59
उत्तस्थुषः सपदि पल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णम् । जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): उत्तस्थुष इति॥ स नृपः मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः तेषामवयवैः श्रमविवृतमुखभ्रंशिभिः शकलैरनुकीर्णं व्याप्तम्। आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तम्। सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुसस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार ॥

Verse 60
तं वाहनादवनतोत्तरकायमीषद्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः । नात्मानमस्य विविदुः सहसा वराहा वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ वराहाः। वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहरन्तं तं नृपम्। उद्धृतसटा ऊर्ध्वकेसराः सन्तः। `सटा जटाकेसरयोः` इति केशवः। प्रतिहन्तुमीषुः प्रतिहर्तुमैच्छन्। अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः। एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं चोक्तम् ॥