रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 82 verses
Verse 71
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः । अरमत मधुराणि तत्र श्रृण्वन्विहगविकूजितबन्दिमङ्गलानि ॥
सञ्जीविनीटीका (मल्लिनाथः): उषसीति॥ उषसि प्रातः पटूनां पटहानामिव ध्वनिर्येषां तैर्गजयूथानां कर्णैरेव तालैर्वाद्यप्रभेदैर्विनीतनिद्रः स नृपस्तत्र वने मधुराणि विहगानां विहंगानां विकूजितान्येव बन्दिनां मङ्गलानि मङ्गलगीतानि शृण्वन्नरमत ॥

Verse 72
अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः । श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥
Metre: औपच्छन्दसिक
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ जातु कदाचिद्रुरोर्मृगस्य गृहीतवर्त्मा स्वीकृतरुरुमार्गो विपिनेवने पार्श्वचरैरलक्ष्यमाणः। तुरगवेगादित्यर्थः। श्रमेण फेनमुचा। सफेनं स्विद्यतेत्यर्थः। तुरंगमेण तपस्विभिर्गाढामवगाढां सेवितां तमसां नाम नदीं सरितं प्राप ॥

Verse 73
कुम्भपूरणभवः पटुरुञ्चैरुञ्चचार निनदोऽम्भसि तस्याः । तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥
Metre: स्वागता
सञ्जीविनीटीका (मल्लिनाथः): कुम्भेति॥ तस्यास्तमसाया अम्भसि कुम्भपूरणेन भव उत्पन्नः। पचाद्यच्। पटुर्मधुरः। उञ्चैर्गम्भूरो निनदो ध्वनिरुञ्चचारोदियाय। तत्र निनदे स नृपः। द्विरदबृंहितं शङ्कत इति द्विरदबृंहितशङ्की सन्, शब्देन शब्दानुसारेण तपतीति शब्दपातिनमिषुं विससर्ज। स्वागतावृत्तम् ॥

Verse 74
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् । अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): नृपतेरिति॥ तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्‌करम् गजवधरूपं पङ्क्तिरथो दशरथो विलङघ्‌य `लक्ष्मी कामो युद्धादन्यत्र करिवधं न कुर्यात्` इति शास्त्रमुल्लङ्घअय कृतवान्। ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह-अपथ इति। श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिता रजोगुणावृताः सन्तः। न पन्था इत्यपथम्। `पथो विभाषा` (पा.5।4।72) इति वा समासान्तः। `अपथं नपुंसकम्` (पा.2।4।30)इति नपुंसकम्। `अपन्थास्त्वपथं तुल्ये` इत्यमरः (अ.को.2|1|18)। तस्निन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि। प्रवर्तन्त इत्यर्थः। वैतालीयं वृत्तम् ॥

Verse 75
हा तातेति क्रन्दितमाकर्ण्य विषण्ण स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः । शल्यप्रोतं प्रेक्षअय सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीत्क्षितिपोऽपि ॥
Metre: मत्तमयूरम्
सञ्जीविनीटीका (मल्लिनाथः): हा तातेति॥ हेत्यार्तौ। तातो जनकः। `हा विषादशुगर्तिषु`इति, `तातस्तु जनकः पिता` इति चामरः। हा तातेति क्रन्दितं क्रोशनमाकर्ण्य। विषण्णो भग्नोत्साहः सन्। तस्य क्रन्दितस्तय वेतसैर्गूढं छन्नम्। प्रभवत्यस्मादिति प्रभवः कारणम्। तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम्। `शल्यं शङ्कौ शरे वंशे`इति विश्वः। सकुम्भं मुनिपुत्रं प्रेक्षअय स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत्। मत्तमयूरं वृत्तम् ॥

Verse 76
तेनावतीर्य तुरगात्प्रथितान्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः । तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानमक्षरपदैः कथयांबभूव ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ प्रथितान्वयेन प्रख्यातवंशेन। एतेन पापभीरुत्वं सूचितम्। तेन राज्ञः तुरगादवतीर्य पृष्टान्वपयो ब्रह्महत्याशङ्कया पृष्टकुलः। जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञे स्खलद्भिः। अशक्तिवशादर्धोञ्चारितैरित्यर्थः। अक्षरप्रायैः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयांबभूव। न तावत्त्रैवर्णिक एवाहमस्मि, किंतु करणः। `वैश्यात्तु करणः शूद्र्यां`(आचार.4।92) इति याज्ञवल्क्यः। कुतो ब्रह्महत्येत्यर्थः। तथा च रामायणे-(अयोध्या.6।50) `ब्रह्महत्याकृतं पापं हृदयादपनीयताम्। न द्विजातिरहं राजन्। मा भूत्ते मनसो व्यथा॥ शूद्रायामस्मि वैश्येन जातो जनपदाधिप!।` इति ॥

Verse 77
तञ्चोदितः स तमनुद्धृतशल्यमेव पित्रोः सकाशमवसन्नदृशोर्निनाय । ताभ्यां तथागतमुपेत्य तमेकपुत्रमज्ञानतः स्वचरितं नृपतिः शशंस ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तञ्चोदितस्तेन पुत्रेण चोदितः `पितृसमीपं प्रापय` इत्युक्तः स नृपतिरनुद्धृतशल्यमनुत्पाटितशरमेव तं मुनिपुत्रम्। अवसन्नदृशोर्नष्टचक्षुषोः। अन्धयोरित्यर्थः। पित्रोर्मातापित्रोः। `पिता मात्रा` (पा.1।2।70)इत्येकशेषः। सकाशं समीपं निनाय। इदं च रामायणविरुद्धम्। तत्र-`अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ। अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया॥`(अयोध्या.64।28) इति नदीतीर एव मृतं पुत्रं प्रति पित्रोरानयनाभिधानात्। तथागतं वेतसगूढम्। एकश्चासौ पुत्रश्च तमेकपुत्रम्। `एक`ग्रहणं पित्रोरनन्यगतिकत्वसूचनार्थम्। तं मुनिपुत्रमुपेत्य संनिकृष्टं गत्वाऽज्ञानतः करिभ्रान्त्या स्वचरितं स्वकृतं ताभ्यां मातापितृभ्याम्। क्रियाग्रहणाञअचतुर्थी। शशंस कथितवान् ॥

Verse 78
तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातमुदहारयतामुरास्तः । सोऽभूत्परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयनवारिभिरेव वृद्धः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ तौ जाया च पतिश्च दंपती। राजदन्तादिषु `जाया`शब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः। `दंपती जंपती जायापती भार्यापती च तौ` इत्यमरः (अ.को.1|6|16)। बहु विलप्य भूयिष्ठं परिदेव्य। `विलापः परिदेवनम्` इत्यमरः (अ.को.1|6|16)। शिशोरुरस्तो वक्षसः। `पञ्चम्यास्तसिल्` (पा.5।3।7) । निखातं शल्यं शरं प्रहर्त्रा राज्ञोदहारयतामुद्धारयामासतुः। स शिशुः परासुर्गतप्राणोऽभूत्। अथ वृद्धो हस्तार्पितैर्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपतिं शशाप॥

Verse 79
दिष्टान्तमाप्स्यति भवानपि पुत्रशोका दन्त्ये वयस्यहमिवेति तमुक्तवन्तम् । आक्रान्तपूर्वमिव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): दिष्टान्तमिति॥ हे राजन्! भवानप्यन्त्ये वयस्यहमिव पुत्रशोकाह्रिष्टान्तं कालावसानम्। मरणमित्यर्थः। `दिष्टः काले च दैवे स्याद्दिष्टम्` इति विश्वः। आप्स्यति प्राप्स्यति। इत्युक्तवन्तम्। आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः। सुप्सुपेति समासः। तम्। प्रथममपकृतमित्यर्थः। मुक्तविषमपकारात्पश्चादुत्मृष्टविषं भुजंगमिव स्थितं तं वृद्धं प्रति प्रथमापराद्धः प्रथमापराधी। कर्तरि क्तः। इदं च सहने कारणमुक्तम्। शापदानात्पश्चादपराधी कोसलपतिर्दशरथः प्रोवाच ॥

Verse 80
शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम् । कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): शाप इति॥ अदृष्टा तनयाननपद्मशोभा येन तस्मिन्नपुत्रके मयि भगवता पातितः वज्रपायत्वात् `पुत्रशोकान्म्रियस्व`इत्येवंरूपः शापोऽपि सानुग्रहः वृद्धकुमारीवरन्यायेनेष्टावाप्तेरन्तरीयकत्वात्सोपकार एव। निग्राहकस्याप्यनुग्राहकत्वमर्थान्तरन्यासेनाह-कृष्यामिति। इन्धनैः काष्ठैरिद्धः प्रज्वलितो ज्वलनोऽग्निः कृष्यां कर्षणार्हम्। `ऋदुपधाञ्चाक्लृपि चृतेः` (पा.3।1।110) इति क्यप्। क्षितिं दहन्नपि बीजप्ररोहाणां बीजाङ्कुराणां जननीमुत्पादनक्षमां करोति ॥

Showing 71 to 80 of 82 verses