रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 86 verses
Verse 71
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ । सम्यगाराधिता विद्या प्रबोधविनयाविव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सुताविति॥ सुमित्रा लक्ष्मण-शत्रुघ्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ। सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोध-विनयौ तत्त्वज्ञानेन्द्रियजाताविव। सुषुवे ॥

Verse 72
निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् । अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): निर्दोषमिति॥ सर्वं जगद्भूलोको निर्दोषं दुर्भिक्षादिदोषरहितम्। आविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत्। अत्रोत्प्रेक्षते-गां भुवं गतमवतीर्णं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव। स्वर्गो हि गुणनान्निर्दोषश्चेत्यागमः। स्वर्गतुल्यमभूदित्यर्थः ॥

Verse 73
तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः । विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ चतुर्मूर्ते रामादिरूपेण चतूरूपस्य सतस्तस्य हरेरुदये सति। पौलस्त्याद्रावणाञ्चकिता भीता ईश्वरा नाथा इन्द्रादयो यासां ता दिशश्चतस्रो विरजस्कौरपधूलिभिर्नभस्वद्भिर्वायुभिः। मिषेण। उच्छ्वसिता इव इत्युत्प्रेक्षा। श्वसेः कर्तरि क्तः। स्वनाथशरणलाभसंतुष्टानां दिशामुच्छ्वासवाता इव वाता ववुरित्यर्थः। चतुर्दिगीशरक्षणं मूर्तिचतुष्टयप्रयोजनमिति भावः ॥

Verse 74
कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः । रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कृशानुरिति॥ रक्षसा रावणेन विप्रकृतावपकृतौ। पीडितावित्यर्थः। कृशानुरग्निः प्रभाकरः सूर्यश्च यथासंख्यमपधूमत्वात्प्रसन्नत्वाञ्चापविद्धशुचौ निरस्तदुःखाविव। आस्तामभवताम् ॥

Verse 75
दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दशाननेति॥ तत्क्षणं तस्मिन्क्षणे रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबिन्दवो दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः पतिताः। रामोदये सति तद्वध्यस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुर्निमित्तमभूदित्यर्थः ॥

Verse 76
पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः । आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पुत्रेति॥ पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम्। वादनीयानामित्यर्थः। तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः। साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ॥

Verse 77
संतानकमयी वृष्टिर्भवने चास्य पेतुषी । सन्मङ्घलोपचाराणां सैवादिरचनाऽभवत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): संतानकेति॥ अस्य राज्ञो भवने संतानकानां कल्पवृक्षकुसुमानां विकारः संतानकमयी वृष्टिश्च पेतुषी पपात। `क्वसुश्च` (पा.3।2।107) इति क्वसुप्रत्ययः। `उगितश्च` (पा.4।1।6)इति ङीप्। सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाऽभवत् ॥

Verse 78
कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः । आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कुमारा इति॥ कृताः संस्कारा जातकर्मादयो येषां ते। धात्रीणामुपमातॄणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः। ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे। कुमारवृद्ध्या पितामहान्तमानन्दमवापेत्यर्थः। कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ॥

Verse 79
स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा । मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्वाभाविकमिति॥ तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया। हविर्भुजामग्नीनां सहजं तेजो हविषाऽऽज्यादिकेनेव। मुमूर्छ ववृधे। निसर्गसंस्काराभ्यां विनीता इत्यर्थः ॥

Verse 80
परस्परविरुद्धास्ते तद्रघोरनघं कुलम् । अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परस्परेति॥ परस्परविरुद्धा अविद्विष्टाः। सौभ्रात्रगुणवन्त इत्यर्थः। ते कुमाराः। तत्प्रसिद्धमनघं निष्पापं रघोः कुलम्। ऋतवो वसन्तादयो देवारण्यं नन्दनमिव। सहजविरोधानामप्यृतूनां सहावस्थानसंभावनार्थं देवविशेषणम्। अलमत्यन्तम्। उद्द्योतयामासुः प्रकाशयामासुः। सौभ्रात्रवन्तः कुलभूषणायन्त इति भावः ॥

Showing 71 to 80 of 86 verses