रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 93 verses
Verse 71
क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः । सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): क्षत्रेति॥ क्षत्रजातं क्षत्रजातिर्मेऽयकारेण पितृवधरूपेण वैरि द्वेषि। तत् क्षत्रजातं बहुश एकविंशतिवारान्निहत्य शमं गतोऽस्मि। तथापि सुप्तसर्पो दण्डघट्टनादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोषं प्रापितोऽस्मि ॥

Verse 72
मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः । तन्निशम्य भवता समर्थये वीर्यश्रृङ्गमिव भग्नमात्मनः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मैथिलस्येति॥ अन्यैः पार्थइवैः। अनमितपूर्वं पूर्वमनमितम्। सुप्सुपेति समासः। अस्य मैथिलस्य धनुस्त्वमक्षणोः क्षतवान्। `किल`इति वार्तायाम्। `वार्तासेभाव्ययोः किल` इत्यमरः। तद्धनुर्भग्नं निशम्याकर्ण्य भवतात्मनो मम वीर्यमेव शृङगं भग्नमिव समर्थये मन्ये ॥

Verse 73
अन्यदा जगति राम इत्ययं शब्द उञ्चरित एव मामगात् । व्रीडमावहति मे स संप्रति व्यास्तवृत्तिरुदयोन्मुखे त्वयि ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): अन्यदेति॥ अन्यदाऽन्यस्मिन्काले जगति राम इत्ययं शब्द उञ्चरितः सन् मामेवागात्। संप्रति त्वय्युदयोन्मुखे सति व्यस्तवृत्तिर्विपरीतवृत्तिः। अन्यगामीति यावत्। स शब्दो मे व्रीडमावहति लज्जां करोति ॥

Verse 74
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ । धेनुवत्सहरणाञ्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): बिभ्रत इति॥ अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधौ रिपू मतौ। धेनोः पितृहोमधेनोर्वत्सस्य हरणाद्धेतोर्हैहयः कार्तवीर्यश्च। कीर्तिमपहर्तुमुद्यत उद्युक्तस्त्वं च। वत्सहरणे भारतश्लोकः-`प्रमत्तश्चाश्रमात्तस्य होमधेन्वास्ततो बलात्। जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥` इति ॥

Verse 75
क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि । पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): क्षत्रियेति॥ तेन कारणेन। क्रियते येनासौ करणः। क्षत्रियान्तस्य करणोऽपि विक्रमः। त्वय्यजिते मां नावति न प्रीणाति। तथा हि-पावकस्याग्नेर्महिमा स गण्यते यः कक्षवत् कक्ष इव। `तत्र तस्येव` (पा.5।1।116) इति सप्तम्यर्थे वतिः। सागरेऽपि। ज्वलति ॥

Verse 76
विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया । खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): विद्धीति॥ किंच ऐश्वरं धनुर्हरेर्विष्णोरोजसा बलेनात्तबलं हृतसारं च, विद्धि। यद्धनुस्त्वयाऽभाज्यभञ्जि। `भञ्जेश्च चिणि` (पा.6।4।36) इति विभाषया नलोपः। तथा हि-नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति। ततः शिशुरपि रौद्रं धनुरभाङ्क्षमिति मा गर्वीरिति भावः ॥

Verse 77
तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् । तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मात्, मदीयमिदमायुधं कार्मुकं ज्यया संगमय्य संयोज्य। `ल्यपि लघुपूर्वात्` (पा.6।4।56)इति णेरयादेशः। सशरं यथा तथा त्वया विकृष्यताम्। प्रधानं रणस्तिष्ठतु। प्रधानं तावदास्तामित्यर्थः। `प्रधनं मारणे रणे` इति विश्वः। एवमपि मद्धनुःकर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन। `तरसी बलरंहसी` इत्यमरः। त्वया जितः ॥

Verse 78
कातरोऽसि यदि वाद्गतार्चिषा तर्जितः परशुधारया मम । ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभयययाचनाञ्जलिः ॥
Metre: आर्यागीति
सञ्जीविनीटीका (मल्लिनाथः): कातर इति॥ यदि वोद्गतार्चिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि। वृथा ज्यानिघातेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थनाञ्जलिर्बध्यताम्। `तौ युतावञ्जलिः पुमान्` इत्यमरः (अ.को.2|6|86) ॥

Verse 79
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः । तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ भीमदर्शने भार्गव एवमुक्तवति सति। राघवः स्मितेन हासेन विकम्पिताधरः सन्। तद्धनुर्ग्रहणमेव समर्थमुचितामुत्तरं प्रत्यपद्यताङ्गीचकार ॥

Verse 80
पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् । केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पूर्वेति॥ पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन समागतः संगतः स रामोऽतिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत्। तथा हि-नवाम्बुदः केवलो रिक्तोऽपि सुभगः। त्रिदशचापेनेन्द्रधनुषा लाञ्छितश्चिह्नितः किं पुनः? सुभग एवेति भावः ॥