रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 81 to 90 of 93 verses
Verse 81
तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् । निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत्। कर्मणे प्रभवतीति कार्मुकं धनुश्च। `कर्मण उकञ्` (पा.5।1।101)इत्युकञ्प्रत्ययः। अधिरोपितम्। भूभृतां रिपुर्भार्गवश्च। धूमशेषौ धूमकेतनोऽग्निरिव। निष्प्रभो निस्तेजस्क आस बभूव। `आस ` इति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा ॥

Verse 82
तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ । पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ परस्परस्थितावन्योन्याभियुक्तौ। वर्धमानं च परिहीनं चेति द्वन्द्वः। वर्धमानपरिहीने तेजसी ययोस्तावुभौ राघव-भार्गवावपि। दिनात्यये सायंकाले। पर्वणि भवौ पार्वणौ शशि-दिवाकराविव। जनता जनसमूहः। `ग्रामजनबन्धुसहायेभ्यस्तल्` (पा.4।2।43)इति तल्प्रत्ययः। पश्यति स्मापश्यत्। अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ॥

Verse 83
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ हरसूनुसंनिभः स्कन्दसमः कृपामृदू राघवः। आत्मनि विषये स्खलितवीर्यं कुण्ठिताशक्तिं तं भार्गवं स्वं स्वकीयं संहितममोघमाशुगं बाणं चावेक्ष्य। व्याजहार बभाषे ॥

Verse 84
न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि । शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ अभिभवत्यपि त्वयि। विप्र इति हेतोः। निर्दयं प्रहर्तुमलं शक्तो नास्मि। किं त्वनेन पत्रिणा शरेण ते गतिं गमनं हन्मि, उत मखार्जितं लोकं स्वर्गं हन्मि शंस ब्रूहि ॥

Verse 85
प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् । गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): प्रतीति॥ ऋषिर्भार्गवस्तं रामं प्रत्युवाच। किमिति? तत्त्वतः स्वरूपतस्त्वां पुरातनं पुरुषं न वेद्मीति न। किंतु वेद्येवेत्यर्थः। किंतु गां गतस्य भुवमवतीर्णस्य तव वैष्णवं धाम तेजो दिदृक्षुणा द्रष्टुमिच्छुना मया कोपितो ह्यसि ॥

Verse 86
भस्मसात्कृतवतः पितृद्विषः पात्रसाञ्च वसुधां ससागराम् । आहितो जयविपर्ययोऽपि मे श्लाध्य एव परमेष्ठिना त्वया ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): भस्मसादिति॥ पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः। `विभाषा साति कार्त्स्न्ये` (पा.5।4।52) इति सातिप्रत्ययः। ससागरां वसुधां च पात्रसात् पात्राधीनं देयं कृतवतः। `देये त्रा च` (पा.5।4।55)इति चकारात्सातिः। कृतकृत्यस्य मे परमेष्ठिना परमपुरुषेण त्वयाऽऽहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव ॥

Verse 87
तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिषअयति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मात्कारणात्, हे मतिमतां वर! पुण्यतीर्थगमनायाप्तुमिष्टामीप्सितां मे गतिं रक्ष पालय। किंतु खिलीकृता दुर्गमीकृतापि स्वर्ग-द्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति। अतस्तामेव जह्रीत्यर्थः ॥

Verse 88
प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् । भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यपद्यतेति॥ राघवस्तथेति प्रत्यपद्यताङ्गीकृतवान्। प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च। स सायकः सुकृतोऽपि साधुकारिणोऽपि। करोतेः क्विप्। भार्गवस्य दुरत्ययो दुरतिक्रमः स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ॥

Verse 89
राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): राघव इति॥ राघवोऽपि क्षम्यतामिति वदंस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशत् प्रणनाम। तथा हि-तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये। भवतीति शेषः ॥

Verse 90
राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा । नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): राजसत्वमिति॥ मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूयपितुरागतं पित्र्यं शमं यदा गमितोऽस्मि। तदा त्वया ममापेक्षितत्वादनिन्दितमगर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु ॥

Showing 81 to 90 of 93 verses