रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 93 verses
Verse 1
कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): कौशिकेनेति॥ कौशिकेन कुशिकापत्येन विश्वामित्रेण। एत्याभ्यागत्य। स क्षितीश्वरो दशरथः। अध्वरविघातशान्तये यज्ञविघ्नविध्वंसाय। काकपक्षधरं बालकोचितशिखाधरम्। `बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः` इति हलायुधः। रामं याचितः किल प्रार्थितः खलु। याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः। `अप्रधाने दुहादीनाम्` इति वचनात्। नायं बालाधिकार इत्याशङ्क्याह-तेजसां तेजस्विनां वयो बाल्यादि न समीक्ष्यते हि। अप्रप्रयोजकमित्यर्थः। अत्र सर्गे रथोद्धतावृत्तम्। उक्तं च-`रान्नराविह रथोद्धता लगौ` इति ॥

Verse 2
कृच्छ्रलब्धमपि लब्धवर्णभाक्यं दिदेश मुनये सलक्ष्मणम् । अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): कृच्छ्रलब्धमिति॥ लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः। `सब्धवर्णो विचक्षणः` इत्यमरः (अ.को.2|7|6)। तान्भजत इति लब्ध्वर्णभाक्। विद्वत्सेवीत्यर्थथः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान्। तथा हि-असुप्रणयिनां प्राणार्थिनामप्यर्थिता याञ्चा रघोः कुले कदाचिदपि न व्यहन्यत न विहता। न विफलीकृतेत्यर्थः। यैरर्भिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादित्यागो न विस्मयावह इति भावः ॥

Verse 3
यावदादिशति पार्थिवास्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् । तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): यावदिति॥ पार्थिवः पृथिवीश्वरः। तयो रामलक्ष्मणयोर्निर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसंमार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादिशत्याज्ञापयति तावन्मरुत्सखैर्वायुसखैः। अनेन धूमिसंमार्जनं गम्यते। सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रियाऽऽशु विदधे विहिता। एतेन देवकार्यप्रवृत्तयोर्देवानुकूल्यं सूचितम् ॥

Verse 4
तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः । भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोर्निपेततुः। प्रणतावित्यर्थः। भूपतेरपि बाष्पबिन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः। अत एव नम्नयोः प्रणतयोः। `नमिकम्पि-` (पा.3।2।167)इति रप्रत्ययः। तयोरुपरि निपेततुः पतिताः ॥

Verse 5
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ । धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावीषत्सिक्तचूडौ। `शिखा चूडा शिखण्डः स्यात्` इत्यमरः। `शेषाद्विभाषा` (पा.5।4।154) इति कप्प्रत्ययः। धन्विनौ तावुभौ। पौरदृष्टिभिः कृतानि मार्गतोरणानि संपाद्यानि कुवलयानि ययोस्तौ तथोक्तौ। संघशो निरीक्ष्यमाणावित्यर्थः। तमृषिमन्वगच्छताम् ॥

Verse 6
लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): लक्ष्मणेति॥ ऋषिर्लक्ष्मणानुचरमेव लक्ष्मणमात्रानुगं तं राघवं नेतुमैच्छदिति हेतोः, असौ नृप आशिषं प्रयुयुजे प्रयुक्तवान्। वाहिनीं सेनां न प्रयुयुजे न प्रेषितवान्। हि यस्मात् साऽऽशीरेव तयोः कुमारयो रक्षणविधौ क्षमा शक्ता ॥

Verse 7
मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः । रेचतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): मातृवर्गेति॥ मातृवर्गस्य चरणान्स्पृशत इति मातृवर्गचरणस्पृशौ। कृतमातृवर्गनमस्कारावित्यर्थः। `स्पृशोऽनुदके क्क्न्` (पा.3।2।58) इति क्किन्प्रत्ययः। तौ महौजसो मुनेः पदवीं प्रपद्य। महौजसो भास्करस्य गतिवशान्मेषादिराशिसंक्रान्त्यनुसारात्प्रवर्तिनौ मधुमाधवाविव चैत्रवैशाखाविव रेजतुः। `फणां च सप्तानाम्` (पा.6।4।125) इति वैकल्पिकावेत्वाभ्यासलोपौ। `स्याञ्चैत्रे चैत्रिको मधुः`इति। `वैशाखे माधवो राधः` इति चामरः ॥

Verse 8
वीचिलोलभुजयोस्तयोर्गतं शैशवाञ्चपलमप्यशोभत । तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): वीचीति॥ विचिलोलभुजयोस्तरङ्गचञ्चलबाह्वोः। इदं विशेषणं नदोपमानसिद्ध्यर्थं वेदितव्यम्। तयोश्चपलं चञ्चलमपि गतं गतिः शैशवाद्धेतोरशोभत। किमिव? तोयदागमे वर्षासमये। उज्झत्युदकमित्युद्ध्यः। भिनत्ति कूलमिति भिद्यः, `भिद्योद्ध्यौ नदे` (पा.3।1।115) इति क्यबन्दौ निपातितौ। उद्ध्यभिद्ययोर्नदविशेषयोर्नामधेयसदृशं नामानुरूपं विचेष्टितमिव उदकोज्झन-कूलभेदनरूपव्यापार इव। समयोत्पन्नं चापलमपि शोभत इति भावः ॥

Verse 9
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः । मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविवि ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ मणिकुट्टिमोचितौ मणिबद्धभूमिसंचारोचितौ तौ मुनिप्रदिष्टयोः कौशिकेनोपदिष्टयोर्बलातिबलयोर्विद्ययोर्बलातिबलाख्ययोर्मन्त्रयोः प्रभावतः सामर्थ्यान्मातृपार्श्वपरिवर्तिनौ मातृसमीपवर्तिनाविव पथि न मम्सतुः। न म्लानावित्यर्थः। अत्र रामायणश्लोकः(बाल.23।18)-`क्षुत्पिपासे न ते राम! भविष्येते नरोत्तम!। बलामतिबलां चैव पठतः पथि राघवो!॥` इति॥

Verse 10
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पूर्वेति॥ वाहनोचितः। सानुजो राघवः। पुराविदः पूर्ववृत्ताभिज्ञस्य पितृसखस्य मुनेः पूर्ववृत्तकथितैः पुरावृत्तकथाभिरुह्यमान इव वाहनेन प्राप्यमाण इव। वहेर्धातोः कर्मणि शानच्। `उह्यमानः`इत्यत्र दीर्घादिरपपाठः; दीर्घप्राप्त्यभावात्। पादचारमपि न व्यभावयन्न ज्ञातवान् ॥

Showing 1 to 10 of 93 verses