रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 93 verses
Verse 21
नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् । ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): नैर्ऋतेति॥ अथानन्तरं ताडकान्तको रामः। अवदानं पराक्रमः। `पराक्रमोऽवदानं स्यात्` इति भागुरिः। तेन तोषितान्मुनेः। नैर्ऋतान्राक्षसान्तीति नैर्ऋतघ्नम्। `अमनुष्यकर्तृके च` (पा.3।2।53)इति टक्। मन्त्रवन्मन्त्रयुक्तमस्त्रम्। सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव। प्रापत् प्राप्तवान् ॥

Verse 22
वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान् । उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): वामनेति॥ ततः परं राघवः। ऋषेः कौशिकादाख्यातुः श्रुतं पावनं शोधनं वामनस्य स्वपूर्वावतारविशेषस्याश्रमपदमुपेयिवानुपगतः सन्। `उपेयिवाननाश्वाननूचानश्च` (पा.3।2।109) इति निपातः। प्रथमजन्मचिष्टितानि राम-वामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि। उन्मना उत्सुको बभूव ॥

Verse 23
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् । बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): आससादेति॥ ततो मुनि। शिष्यवर्गेण परिकल्पिता सज्जिताऽर्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम्। बद्धाः पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तम्। दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत्तत्। आत्मनस्तपोवनमाससाद। एतेन विशेषणत्रयेणातिथिसत्कारताच्छील्यविनयशान्तयः सूचिताः ॥

Verse 24
तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः । लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र तपोवने दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः क्रमेण पर्यायेण रात्रि-दिवसयोरुदितौ शशि-दिवाकरौ रश्मिभिरन्धतमसाद्गढध्वान्तात्। `ध्वान्ते गाढेऽन्धतमसम्` इत्यमरः (अ.को.1|8|3)। `अवसमन्धेभ्यस्तमसः` (पा.5।4।79)इति समासान्तोऽच्प्रत्ययः। लोकमिव। ररक्षतुः। रक्षणप्रवृत्तावभूतामित्यर्थः ॥

Verse 25
वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् । संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): वीक्ष्येति॥ अथ बन्धुजीवपृथुभिर्बन्धुजीवककुसुमस्थूलैः। `रक्तकस्तु बन्धूको बन्धुजीवकः` इत्यमरः (अ.को.2|4|73)। रक्तबिन्दुभिः प्रदूषितामुपहतां वेदिं वीक्ष्य। अपोढकर्मणां त्यक्तव्यापाराणां च्युता विकङ्कतस्रुचो येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत्। `विकङ्कत`ग्रहणं खदिराद्युपलक्षणम्। स्रुवादीनां खदिरादिप्रकृतिकत्वात्। स्रुगादिपात्रस्यैव विकङ्कतप्रकृतिकत्वात्। `विकङअकतः स्रुचां वृक्षः` इत्यमरः (अ.को.2|4|73)। यद्वा, -स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु; उभयत्रापि शास्त्रसंभवात्। यथाह भगवानापस्तम्बः-`स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु; उभयत्रापि शास्त्रसंभवात्। यथाह भगवानापस्तम्बः-`खादिरः स्रवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कतीः स्रुचो वा`इति ॥

Verse 26
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् । रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): उन्मुख इति॥ सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात् समुद्धरन्। उन्मुख ऊर्ध्वमुखोऽम्बुरे। गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम्। रक्षसां दुर्निमित्तसूचनमेतत्। तदुक्तं शकुनार्णवे-`आसन्नमृत्योर्निकटे चरन्ति गृध्रादयो मूर्ध्नि गृहोर्ध्वभागे`इति। रक्षसां बलमपश्यत् ॥

Verse 27
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् । किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते? ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ स रामः। तत्र रक्षसां बले यौ मखद्विषामधिपती तौ सुबाहुमारीजौ शरव्यं लक्ष्यमकरोत्। `वेध्यं लक्ष्यं शरव्यं च`इति हलायुधः। इतरान्नाकरोत्। तथा हि-महोरगविसर्पिविक्रमो गरुडो गरुत्मान् राजिलेषु जलव्यालेषु प्रवर्तते किम्? न प्रवर्तत इत्यर्थः। `अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ` इत्यमरः (अ.को.1|8|5) ॥

Verse 28
सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् । तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अस्त्रकोविदोऽस्त्रज्ञः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुर्देवता यस्य तद्वायव्यमस्त्रं धनुषि संदधे संहितवान्। कर्तरि लिट्। तेनास्त्रेण शैलवद्गुरुमपि ताडकासुतं मारीचम्। पाण्डुपत्रमिव। परिणतपर्णमिवेत्यर्थः। अपातयत् पातितवान् ॥

Verse 29
यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया । तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्वहिः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): य इति॥ सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार। क्षुरप्रैः शकलीकृतं खण्डीकृतं तं सुबाहुं कृती कुशलो रामः। `कृती च कुशलः समौ` इत्यमरः (अ.को.3|3|113)। आश्रमाद्बहिः। पत्रिणां पक्षिणाम्। `पत्रिणौ शरपक्षिणौ` इत्यमरः (अ.को.3|3|113)। व्यभजत्। विभज्य दत्तवानित्यर्थः ॥

Verse 30
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् । ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्यपास्तमखविघ्नयोस्तयो राघवयोः। संयुगे रणे साधुः सांयुगीनस्तम्। `प्रतिजनादिभ्यः खञ्` (पा.4।4।99)इति खञ्प्रत्ययः। `सांयुगीनो रणे साधुः` इत्यमरः (अ.को.2|8|77)। विक्रममभिनन्द्य ऋत्विजो याजकाः। वाचि यतो वाग्यतो मौनी तस्य कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन् निषअपादितवन्तः ॥