रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 104 verses
Verse 21
प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् । कदाचिदङ्के सीतायाः शिशअये किंचिदिव श्रमात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रभावेति॥ स रामः कदाचित् प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया यस्य तं वनस्पतिमाश्रितः सन्। किंचिदीषच्छ्रमादिव सीताया अङ्के शिश्ये सुष्वाप ॥

Verse 22
ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः । प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ऐन्द्रिरिति॥ ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकस्तस्याः सीताया स्तनौ। प्रियस्य रामस्योपभोगचिह्नेषु। तत्कृतनखक्षतेष्वित्यर्थः। पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम्। `दोषैकदृक्पुरोभागी` इत्यमरः (अ.को.3|1|46)। दुःश्लिष्टदोषघातमाचरन्कुर्वन्निव। नखैर्विददार विलिलेख। `किल`इत्यैतिह्ये ॥

Verse 23
तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः । आत्मानं मुमुचे तस्मादिकेनेत्रव्ययेन सः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ रामस्य सीतयाऽवबोधितो रामस्तस्मिन् काक इषीकास्त्रं काशास्त्रम्। `इषीका काशमुच्यते`इति हलायुधः। आस्थदस्यति स्म। `असु क्षेपणे` इति धातोर्लुङ्। `अस्यतिवक्तिख्यातिभ्योऽङ्` (पा.3।1।52) इत्यङ्प्रत्ययः। `अस्यतेस्थुक्` (पा.7।4।17)इति थुगागमः। स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे मुक्तवान्। मुचेः कर्तरि लिङ्। `धेनुं मुमोचज`(2।1)इतिक्प्रयोगः ॥

Verse 24
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः । आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): राम इति॥ रामस्त्वासन्नदेशत्वाद्धेतोः पुनर्भरतागमनमाशङ्क्योत्सुकसारङ्गामुत्कण्ठितहरिणां चित्रकूटस्थलीं जहौ तत्याज। आसन्नश्चासौ देशश्चेति विग्रहः ॥

Verse 25
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रययाविति॥ सः रामः। अतिथिषु साधूनि आतिथेयानि। `पथ्यतिथिवसतिस्वपतेर्ढञ्` (पा.4।4।104)इति ढञ्प्रत्ययः। तेषु। ऋषिकुलेष्वृष्याश्रमेषु। `कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये`इति हैमः। वर्षासु भवानि वार्षिकाणि। `वर्षाभ्यष्ठक्` (पा.4।3।18)इति ठक्प्रत्ययः। तेषु। ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन् दक्षिणां दिशं प्रययौ ॥

Verse 26
बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): बभाविति॥ तं राममनुगच्छन्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारिताऽपि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीरिव बभौ॥

Verse 27
अनसूयातिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराङ्गरागेण पुष्पोञ्चलितषट्पदम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अनसूयेति॥ सा सीताऽनसूययाऽत्रिभार्यया। अतिसृष्टेन दत्तेन पुण्यगन्धेनाङअगरागेण काननं वनं पुष्पेभ्य उञअचलिता निर्गताः षट्पदा यस्मिंस्तत्तथाभूतं चकार ॥

Verse 28
संध्याभ्रकपिशस्तस्य विरोधो नाम राक्षसः । अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): संध्येति॥ संध्याभ्रकपिशो विराधो नाम राक्षसः। ग्रहो राहुरिन्दोरिव। तस्य रामस्य मार्गमध्वानमावृत्यावरुध्यातिष्ठत् ॥

Verse 29
स जहार तयोर्मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ लोकस्य शोषणः शोषकः स राक्षसस्तयो रामलक्ष्मणमयोर्मध्ये मैधिलीम्। नभो-नभस्ययोः श्रावण-भाद्रपदयोरन्तरे मधअये वृष्टिमवग्रहो वर्षप्रतिबंध इव। जहार। `वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ` इत्यमरः (अ.को.1|3|13)॥

Verse 30
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् । गन्धेनाशुचिना चेति वसुधायां निचटख्नतुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा। अशुचिनाऽपवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः। `यावत्पुरानिपातवोर्लट्` (पा.3।3।4) इति भविष्यदर्थे लट्। वसुधायां निचख्नतुर्भूमौ खनित्वा निक्षिप्तवन्तौ च ॥