रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 104 verses
Verse 31
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः । अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पञ्चवट्यामिति॥ ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात्। पञ्चानां वटानां समाहारः पञ्चवटी। `तद्धितार्थ-` (पा.2।1।51)इति तत्पुरुषः । `संख्यापूर्वो द्विगोः` (पा.2।1।22)इति द्विगुसंज्ञायाम् `द्विगोः` (पा.4।1।21)इति ङीप्। `द्विगुरेकवचनम्` (पा.2।4।1)इत्येकवचनम्। तस्यां पञ्चवट्याम्। विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायामिव। अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ ॥

Verse 32
रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रावणावरजेति॥ तत्र पञ्चवट्यां मदनातुरा रावणावरजा शूर्पणखा। `पूर्वपदात्संज्ञायामगः` (पा.8।4।3)इति णत्वम्। राघवम्। निदाघार्ता घर्मतप्ता व्याकुला व्याली भुजंगी मलयद्रुमं चन्दनद्रुममिव। अभिपेदे प्राप ॥

Verse 33
सा सीतासंनिधावेव तं वव्रे कथितान्वया । अत्यारूढो हि नारीणामकालज्ञो मनोभवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा शूर्पणखा सीतासंनिधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती। तथा हि-अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरज्ञो न भवतीत्यकालज्ञो हि ॥

Verse 34
कलत्रवानहं बाल!कनीयांसं भजस्व मे । इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कलत्रवानिति॥ वृषः पुमान्। `वृषः स्याद्वासवे धर्मे सौरभेये च शुक्रले। पुंराशिमेदयोः शृङ्ग्यां मूषकश्रेष्ठयोरपि॥` इति विश्वः। वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी। `वृषस्यन्ती तु कामुकी` इत्यमरः (अ.को.2|6|9)। `सुप आत्मनः क्यच्` (पा.3।1।8)इति क्यच्प्रत्ययः। अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि (पा.7।1।51)इत्यसुगागमः। ततो लटः शत्रादेशः। `उगितशअच` (पा.4।1।6)इति ङीप्। श्लोकार्थस्तु-वृषस्कन्धो रामो वृषस्तन्तीं तां राक्षसीम् `हे बाले! अहं कलत्रवान्, मे कनीयांसं कनिष्ठं भजस्व`इति शशासाः ज्ञापितवान् ॥

Verse 35
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् । साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ज्येष्ठेति॥ पूर्वं ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाष्यनभिनन्दिता नाङअगीकृता भूयो रामाश्रया सा राक्षसी। उभे कूले भजतीत्युभयकूलभाक् नदीवाभूत् सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ॥

Verse 36
संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् । निवातस्मिमितां वेलां चद्रोदय इवोदधेः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): संरम्भमिति॥ मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीम्। निवातेन स्तिमितां निश्चलामुदधेर्वेलामम्बुविकृतिम्। अम्बुपूरमित्र्थः। `अब्ध्यम्बुविकृतौ वेला` इत्यमरः (अ.को.3|3|207)। चन्द्रोदय इव। संरम्भं संक्षोभं निनाय ॥

Verse 37
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् । मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया कृतम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): फलमिति॥ श्लोकद्वयेनान्वयः। अस्योपहासस्य फलं सद्यः संप्रत्येव प्राप्स्यसि। मां पश्य । त्वया कर्त्र्या कृतमुपहासरूपं करणं व्याघ्र्यां विषये मृग्याः कर्त्रअयाः परिभव इत्यवेहि ॥

Verse 38
इत्युक्त्वा मैथिलीं भर्तुरङ्केः निविशतीं भयात् । रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ भयाद्भर्तुरङ्के निविशंतीमालिङ्गन्तीं मैथिलीमित्युक्त्वा शूर्पणखा नाम्नः सदृशम्। शूर्पाकारनखयुक्तमित्यर्थः। रूपमाकारं प्रत्यपद्यत स्वीचकार। अदर्शयदित्यर्थः॥

Verse 39
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् । शइवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): लक्ष्मण इति॥ लक्ष्मणः प्रथमं कोकिलावन्मञ्जुवादिनीं पश्चाच्छिवावद्धोरस्वनां तां शूर्पणखां श्रुत्वा। तस्याः स्वनं श्रुत्वेत्यर्थः। `सुस्वनः शङ्खः श्रूयते`इतिवत्प्रत्योगः। विकृता मायाविनीति बुबुधे बुद्धवान्। कर्तरि लिट्॥

Verse 40
पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः । वैरूप्यपौनरुक्त्येन भीषाणां तामयोजयत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पर्णशालामिति॥ अथ स लक्ष्मणो विकृष्टासिः कोशोद्धृतखङ्गः सन् क्षिप्रं पर्णशालां प्रविश्य। भीषयतीति भीषणाम्। नन्द्यादित्वाल्लयुट् कर्तरि। तां राक्षसीं वैरूप्यस्य पौनरुक्त्यं द्वैगुण्यं लक्षणया। तेन। अयोजयद्योजितवान्, स्वभावत एव विकृतां तां कर्णादिच्छेदेन पुनरतिविकृतामकरोदित्यर्थः ॥