रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 101 to 104 of 104 verses
Verse 101
मरुतां पश्यतां तस्य शिरांसि पतितान्यपि । मनो नातिविशश्वास पुनःसंधानशङ्क्तिनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मरुतामिति॥ पतितानि तस्य रावणस्य शिरांसि पश्यतामपि पुनः-संधानशङ्क्तिनाम्। पूर्वं तथादर्शनादिति भावः। मरुताममराणाम्। `मरुतौ पवनामरौ` इत्यमरः (अ.को.3|3|66)। मनो नातिविशश्वासाऽतिविश्वासं न प्राप ॥

Verse 102
अथ मदगुरुपक्षैर्लोकपालद्विपाना- मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय । उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ मदेन गजगण्डसंचारसंक्रान्तेन गुरुपक्षैर्भारायमाणपक्षैरसिवृन्दैर्लोकपालद्विपानामैरावतादीनां गगनवर्तिनां गण्डभित्तीर्विहायानुगतमनुद्रुतं सुरभि सुगन्धि। `सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः। गन्धोपले सौरभेय्यां सल्लकीमातृभेदयोः॥ सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्।` इति विश्वः। सुरविमुक्तं पुष्पवर्षमुपनत आसन्नो मणिबन्धो राज्याभिषेकसमये भावी यस्य तस्मिन्। पौलस्त्यशत्रो रामस्य मूर्ध्नि पपात। इदमेव राज्याभिषेकसूचकमिति भावः ॥

Verse 103
यन्ता हरेः सपदि संहृतकार्मुकज्य- मापृच्छ्य राघवमनुष्ठितदेवकार्यम् । नामाङ्करावणशराङ्कितकेतुयष्टि- मूर्ध्वं रथं हरिसहस्रयुजं निनाय ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): यन्तेति॥ हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं रावणवधरूपं येन तं राघवमापृच्छ्य `साधु यामि` इत्यामन्त्र्य। नामाङ्कैर्नामाक्षरचिह्नै रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम्। हरीणां वाजिनां सहस्रेण युज्यत इति हरिसहस्रयुक्। तम्। `यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। हरिः` इत्युभयत्राप्यमरः। रथमूर्ध्वं निनाय नीतवान् ॥

Verse 104
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥
Metre: नाराचम्
सञ्जीविनीटीका (मल्लिनाथः): रघुपतिरिति॥ रघुपतिरपि जातवेदस्यग्नौ विशुद्धां जातशुद्धिं प्रियां सीतां प्रगृह्य स्वीकृत्य। प्रियसुहृदि विभीषणे वैरिणो रावणस्य श्रियं राजलक्ष्मीं संगमय्य संगतां कृत्वा। गमेर्ण्यन्ताल्ल्यप्प्रत्ययः। `मितां ह्रस्वः` (पा.6।4।92) इति ह्रस्वः। `ल्यपि लघुपूर्वात्` (पा.6।4।56)इति णेरयादेशः। रविसुतसहितेन सुग्रीवयुक्तेन ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानुयातोऽनुगतः सन् विमानं रत्नमिव विमानरत्नमित्युपमितसमासः। भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन्। पुरीमयोध्यां प्रतस्थे। `समवप्रविभ्यः स्थः` (पा.1।3।22) इत्यात्मनेपदम्। अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशक्रियापेक्षया सकर्मकत्वम्। अस्ति च धातूनां क्रियान्तरोपसर्जनकस्वार्थाभिधायकत्वम्। यथा `कुसूलान्पचति` इत्यादावादानक्रियागर्भः पाको विधीयत इति ॥

Showing 101 to 104 of 104 verses