रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 91 to 100 of 104 verses
Verse 91
रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रावणस्येति॥ रामेणास्तः क्षिप्त आशुगो बाणः। विश्रवसोऽपत्यं पुमान् रावणः। `विश्रवः`शब्दादपत्येऽर्थेऽण्प्रत्यये सति `विश्रवसो विश्रवणरवणौ`इति रावणादेशः। तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदीर्य। उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव। भुवं विवेश ॥

Verse 92
वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः । अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वचसेति॥ वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः। वादिनोः कथकयोरिव। अन्योन्यविषये जयसंरम्भो ववृधे ॥

Verse 93
विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि । जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विक्रमेति॥ जयश्रीर्विक्रमस्य व्यतिहारेण पर्यायक्रमेण तयोर्द्वयोरपि। अन्तरा मध्ये। अव्ययमेतत्। वेदिर्वेद्याकारा भित्तिर्मत्तवारणयोरिव। सामान्या साधारणाऽभूत्। न त्वन्यतरनियतेत्यर्थः। अत्र `मत्तवारणयोः`इत्यत्र `द्वयोः`इत्यत्र च `अन्तरान्तरेण युक्ते` (पा.2।3।4) इति द्वितीया न भवति। `अन्तरा` शब्दस्योक्तरीत्याऽन्यत्रान्वयात्। मध्ये कामपि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः ॥

Verse 94
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः । परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कृतेति॥ स्वयमस्त्रप्रयोगः कृतं प्रतिकृतं परकृतप्रतीकारस्ताभ्यां प्रीतैः सुरासुरैर्यथासंख्यं तयो राम-रावणयोर्मुक्तां पुष्पवृष्टिम्। द्वयीमिति शेषः। परस्परं शरव्राता न सेहिरे। अहमेवालं, किं त्वयेति चान्तराल एवेतरेतरबाणवृष्टिरितरेतरपुष्पवृष्टिमवारयदित्यर्थः ॥

Verse 95
अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे । हृतां वैवस्वतस्येव कृटाशाल्मलिमक्षिपत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अय इति॥ अथ रक्षो रावणोऽयसः शङ्कुभिः कीलैश्चितां कीर्णा शतघ्नीं सोहकण्टककीलितयष्टिविशेषम्। `शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता। यष्टिः` इति केशवः। हृतां विजयलब्धाम्। वैवस्वतस्यान्तकस्य कूटशाल्मलिमिव। शत्रवे राघवायाक्षिपत् क्षिप्तवान्। कूटशाल्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा। कूटशाल्मलिर्नामैकमूलप्रकृतिः कण्टकी वृक्षविशेषः। `रोचनः कूटशाल्मलिः` इत्यमरः (अ.को.2|4|47)। तत्सादृश्यं च गदाया अयःसंङ्कुचितत्वादनुसंधेयम् ॥

Verse 96
राघवो रथमप्राप्तं तामाशां च सुरद्विषाम् । अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): राघव इति॥ राघवो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजयतृष्णां च। `आशा तृष्णादिशोः प्रोक्ता` इति विश्वः। अर्धचन्द्र इव मुखं येषां तैर्बाणैः कदलीवत्सुखं यथा तथा चिच्छिद। अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ॥

Verse 97
अमोघं संदधे चास्मै धनुष्येकधनुर्धरः । ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अमोघमिति॥ एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निषअकर्षणमुद्धारकं यदौषधं तदमोघं ब्राह्मं ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च। तद्वधार्थमित्यर्थः। धनुषि संदधे ॥

Verse 98
तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रम्। करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम्। `करालो दन्तुरे तुङ्गे करालो भीषणेऽपि च` इति विश्वः। महोरगस्य शेषस्य वपुरिव। ददृशे दृष्टम् ॥

Verse 99
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् । स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाज्ञातव्रणवेदनामतिशैघ्र्यादननुभूतव्रणदुःखां रावणशिरःपङ्क्तिं निमेषार्धादपातयत् पातयामास ॥

Verse 100
बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षः कायस्य कण्ठच्छेदपरम्परा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): बालेति॥ पतिष्यत आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य छिद्यन्त इति छेदाः खण्डाः। कण्ठानां ये छेदास्तेषां परम्परा पङ्क्तिः। वीचिमिर्भिन्ना नानाकृताप्सु बालार्कस्य प्रतिमा प्रतिबिम्बमिव। रराज। अर्कस्य बालविशेषणमारुण्यसिद्ध्यर्थमिति भावः ॥

Showing 91 to 100 of 104 verses