रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 104 verses
Verse 71
तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः । द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ रामस्तेन पथा सेतुमार्गेणोत्तीर्य, सागरमिति शेषः । पिङ्गलैः सुवर्णवर्णैरत एव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ॥

Verse 72
रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् । दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रण इति॥ तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयंकरो दिग्विजृम्भितं काकुत्स्थः-पौलस्त्ययो राम-रावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणः प्रववृते प्रवृत्तः। `अस्त्रियां समरानीकरणाः कलहनिग्रहौ` इत्यमरः ॥

Verse 73
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः । अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पादपेति॥ किविधो रणः? पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः। `परिघः परिघातनः` इत्यमरः (अ.को.2|8|91)। शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोघना यस्मिन्स तथोक्तः। `द्रुघणो मुद्गरघनौ` इत्यमरः (अ.को.2|8|91)। अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखान्यासा यस्मिन्स तथोक्तः। शैलै रुग्णा भग्ना मतंगजा यस्मिन्स तथोक्तः ॥

Verse 74
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् । सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथानन्तरम्। छिद्यत इति छेदः खण्डः। शिर एव छेद इति विग्रहः। रामशिरश्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोद्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं न त्वेतत्सत्यमिति शंसन्ती ब्रुवाणा। `शप्श्यनोर्नित्यम्` (पा.7।1।81) इति नित्यं नुमागमः। समजीवयत् ॥

Verse 75
कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीविता स्मीति लज्जिता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ सा सीता मे नाथो जिवतीति हेतोः शुचं शोकं कामं विजहौ। किंतु प्राक् पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता जिवितवत्यस्मीति हेतोर्लज्जिता लज्जावती। कर्तरि क्तः। दुःखादपि दुःसहो लज्जाभर इति भावः ॥

Verse 76
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः । दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): गरुडेति॥ गरुडस्तार्क्ष्यः तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण नागपाशेन बन्धनं यस्मिन्स तथोक्तः क्षणक्लेषो दाशरथ्यो रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थानुभूत इवाभवत् ॥

Verse 77
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् । रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः पौसस्त्यो रावणः शक्त्या कासूनामकेनायुधेन। `कासूसामर्थ्योः शक्तिः` इत्यमरः। लक्ष्मणं वक्षसि बिभेद विदारयामास। रामस्त्वनाहतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ॥

Verse 78
स मारुतिसमानीतमहौषधिहतव्यथः । लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजिविन्या हतव्यथः सन् पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने। `विलापः परिदेवनम्` इत्यमरः (अ.को.1|6|16)। आचार्यकमाचार्यकर्म। `योपधाद्गुरूपोत्तमाद्वुञ्` (पा.5।1।132)इति वुञ्। चक्रे। पुनरपि राक्षसाञ्जघानेति व्यज्यते ॥

Verse 79
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् । मेघस्येव शरत्कालो न किंचित्पर्यशेषयत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स लक्ष्मणः शरत्कालो मेघस्येव। मेघनादस्येन्द्रजितो नादं सिंहनादम्। अन्यत्र, -गर्जितं च इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किंचिदल्पमपि न पर्यशेषयन्नावशेषितवान्। तमवधीदित्यर्थः ॥

Verse 80
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः । रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनः शिलः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कुम्बकर्ण इति॥ कपीन्द्रेण सुग्रीवेण स्वसुः शूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः। कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्ना मनःशिला रक्तवर्णधातुविशेषो यस्य स तथोक्तः। `टङ्कः पाषाणदारणः`इति, `धातुर्मनः शिलाद्यद्रेः`इति चामरः। शृङ्गी शिखरीव। रामं रुरोध ॥