तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः । द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥
Metre: अनुष्टुप्
रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् । दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥
Metre: अनुष्टुप्
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः । अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः ॥
Metre: अनुष्टुप्
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् । सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥
Metre: अनुष्टुप्
कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीविता स्मीति लज्जिता ॥
Metre: अनुष्टुप्
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः । दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥
Metre: अनुष्टुप्
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् । रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥
Metre: अनुष्टुप्
स मारुतिसमानीतमहौषधिहतव्यथः । लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥
Metre: अनुष्टुप्
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् । मेघस्येव शरत्कालो न किंचित्पर्यशेषयत् ॥
Metre: अनुष्टुप्
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः । रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनः शिलः ॥
Metre: अनुष्टुप्