रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 104 verses
Verse 51
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् । तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): राघवेति॥ एका शूर्पवन्नखानि यस्याः सा शूर्पणखा। `पूर्वपदात्संज्ञायाम्-` (पा.8।4।3)इति णत्वम्। `नखमुखात्संज्ञायाम्`इति ङीप्प्रतिषेधः। सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरीदीनां दुष्प्रवृत्तिं वार्तां हरति प्रापयतीति दुष्प्रवृत्तिहराऽभवत्। `हरतेरनुद्यमनेऽच्` (पा.3।2।9)इत्यच्प्रत्ययः ॥

Verse 52
निग्रहात्स्वसुराप्तानां वधाञ्च धनदानुजः । रामेण निहितं मेने पदं दशसु मूर्धसु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): निग्रहादिति॥ स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदादाप्तानां बन्धूनां खरादीनां वछाञ्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने ॥

Verse 53
रक्षसा मृगरूपेण वञ्चयित्वा स रागवौ । जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रक्षसेति॥ स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः सन् सीता जहार ॥

Verse 54
तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम् । प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः प्राणैर्दशरथप्रीतेर्दशरथसख्यस्यानृणमृणैर्विमुक्तं गृध्रं जटायुषमपश्यतां दृष्टवन्तौ। दर्शर्लङि रूपम् ॥

Verse 55
स रावणहृतां ताभअयां वचसाचष्ट मैथिलीम् । आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स जटायू रावणहृतां मैथिलीं ताभ्यां रामलक्ष्मणाभ्याम्। `क्रियाग्रहणमपि कर्तव्यम्`इति संप्रदानत्वाञ्चतुर्थी। वचसा वाग्वृत्त्याचष्ट। आत्मनः सुमहत्कर्म युद्धरूपं व्रणैरावेद्य संस्थितो मृतः ॥

Verse 56
तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोकयोः । पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति॥ व्यापत्तिर्मरणम्। नवीभूतः पितृव्यापत्तिशोको ययोस्तौ तयो राघवयोस्तस्मिन्गृध्रे पितरीवाग्निसंस्कारादग्निसंस्कारमारभ्य परा उत्तराः क्रिया ववृतिरेऽवर्तन्त। तस्य पितृवदौर्ध्वदेहिकं चक्रतुरित्यर्थः ॥

Verse 57
वधनिर्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वधेति॥ वधेन रामकृतेन निर्धूतशापस्य देवभूयं गतस्य कबन्धस्य रक्षोविशेषस्योपदेशतो रामस्य समानव्यसने समानापदि। सखअयार्थिनीत्यर्थः। हरौ कपौ सुग्रीवे। `शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु` इत्यमरः (अ.को.3|3|183)। सख्यं मुमूर्च्छ ववृधे ॥

Verse 58
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयथ् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स हत्वा वालिनं वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकाङ्क्षिते तत्पदे वालिस्थाने। धातोः स्थान आदेशमिव। आदेशभूतं धात्वन्तरमिवेत्यर्थः। सुग्रीवं संन्यवेशयत्स्थापितवान्। यथा `अस्तेर्भूः`इत्यस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्विदिति भावः। आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ॥

Verse 59
इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः । कपयश्चेरुरार्तस्य रामस्येव मनोरथाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतस्ततशअचेति॥ वैदेहीमन्वेष्टुं मार्गितुं भर्त्रा सुग्रीवेण चोदिताः प्रयुक्तः कपयो हनुमत्प्रमुखाः। आर्तस्य विरहातुरस्य रामस्य मनोरथाः कामा इव। इतस्ततशअचेरुर्नानादेशेषु बभ्रमुश्च ॥

Verse 60
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् । मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रवृत्ताविति॥ संपातिमर्ना जटायुषो ज्यायान्भ्राता। तस्य दर्शनात्। तन्मुखादिति भावः। तस्यः सीतायाः प्रवृत्तौ वार्तायाम्। `वार्ता प्रवृत्तिर्वृत्तान्तः` इत्यमरः (अ.को.1|6|7)। उपलब्धायां ज्ञातायां सत्याम्। मरुतस्यापत्यं पुमान् मारुतिर्हनुमान्। सागरम्। ममेत्येतदव्ययं ममतावाचि। तद्रहितो निर्ममो निःस्पृहः संसारमविद्याबन्धनमिव। तीर्णस्ततार। तरतेः कर्तरि क्तः ॥

Showing 51 to 60 of 104 verses