रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 93 verses
Verse 51
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः । उञ्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ बलभित्सख इन्द्रसहचरो वशी स्वाधानतावान्। `वश आयत्ततार्या च` इति विश्वः। कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवान् श्रुतवान्। शृणोतेः क्वसुः। सैन्यरेणुमुषितार्कदीधितिः सन्, उञ्चचाल प्रतस्थे ॥

Verse 52
आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः । प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): आससादेति॥ स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वेष्टयन् परिधीकुर्वन्। आससाद। सा पुरी। स्त्री युवतिः। आयतमतिप्रसक्तं कान्तपरिभोगं प्रियसंभोगमिव प्रीत्या रोधं प्रीतिरोधम्। असहिष्ट सोढवती, द्वेषरोधं तु न सहत इति भावः ॥

Verse 53
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ समये स्थितावाचारनिष्ठौ । `समयाः शपथाचारकालसिद्धान्तसंविदः` इत्यमरः (अ.को.3|3|157)। वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ। तावुभौ भूपती जनक-दशरथौ समेत्य। स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तनयानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ। तनोतेर्लिट् ॥

Verse 54
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् । यौ तयोरवरजौं वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पार्थिवीमिति॥ उद्वहतीत्युद्वहः। पचाद्यच्। रघूणामुद्वहो रघूद्वहो रामः। पृथिव्या अपत्यं स्त्री पार्थिवी। `तस्यापत्यम्` (पा.4।1।92) इति `टिड्ढाणञ्` (पा.4।1।15) इति ङीप्। तां सीतामुदवहत् परिणीतवान्। अथ लक्ष्मणस्तस्याः सीताया अनुजां जनकस्यौरसीमूर्मिलामुदवहत्। यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरत-शत्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुतकीर्तिं चोदवहताम्। नात्र व्युत्प्रमविवाहदोषः; भिन्नोदरत्वात्। तदुक्तम्-`पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च। विवाहाधानयज्ञादौ परिवेत्ताद्यदूषणम् ॥` इति ॥

Verse 55
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधइभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते चतुर्थसहितास्त्रयः। चत्वार इत्यर्थः। वृत्तानुसारादेवमुक्तम्। सूनवो नववधूपरिग्रहाः सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्यसामदानविधिमेदनिग्रहाश्चत्वार उपाया इव बभुः। विधीयत इति विधिः। दानमेव विधिः। निग्रहो दण्डः। सूनूनामुपायैर्वधूनां सिद्धिभिश्चौपम्यमित्यनुसंधेयम् ॥

Verse 56
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् । सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ता इति॥ ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन्। ते च ताभिस्तथा। किंच, स वराणां वधूनां च समागमः। प्रत्ययानां प्रकृतीनां च योग इव संनिभातीति संनिभः। अभवत्। पचाद्यच्। प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः। यथा प्रकृति-प्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ॥

Verse 57
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः । अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवमात्तरतिरनुरागवान् स दशरथस्तांश्चतुरोऽप्यात्मसंभवान् पुत्रांस्तत्र, मिथिलायां निवेश्य विवाह्य। `निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः` इति विश्वः। त्रिष्वध्वसु प्रयाणेषु सत्सु विसृष्टमैथिलः सन्। स्वां पुरीं न्यवर्तत। उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ॥

Verse 58
तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः । चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ जातु कदाचितद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वजतरुप्रमाथिनः प्रतीपगाः प्रतिकूलगामिनो मरुतः। उत्तटा नदीरयाः स्थलीमकृत्रिमभूमिमिव। `जानपदकुण्ड-` (पा.4।1।42)इत्यादिना ङीप्। तस्य वरूथिनीं सेनां भृशतया मृशं चिक्लिशुः क्लिश्यन्ति स्म ॥

Verse 59
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः । वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): लक्ष्यत इति॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेषस्य परिधेर्मण्डलं यस्य सः। `परिवेषस्तु परिधिरुपसूर्यकमण्डले` इत्यमरः (अ.को.1|3|36)। रविः। वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन। `भोगः सुखे स्त्रअयादिभृतावहेश्च फणकाययोः` इत्यमरः (अ.को.1|3|36)। वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव लक्ष्यते स्म ॥

Verse 60
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): श्येनेति॥ श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः। सांध्यमेधा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः। रजो धूलिरासामस्तीति रजस्वलाः। `रजः कृष्यासुतिरपरिषदो वलच्` (पा.5।2।112)इति वलच्प्रत्ययः। दिशः। रजस्वला ऋतुमत्योऽङ्गना इव। `स्याद्रजः पुष्पमार्तवम्` इत्यमरः (अ.को.2|6|21)। अवलोकनक्षमा दर्शनार्हा नो बभूवुः। एकत्र, -दृष्टिदोषात्, परत्र, -शास्त्रदोषादिति विज्ञेयम्। अत्र रजोवृष्टिरुत्पात उक्तः ॥

Showing 51 to 60 of 93 verses