तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः । उञ्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥
Metre: रथोद्धता
आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः । प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥
Metre: रथोद्धता
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥
Metre: रथोद्धता
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् । यौ तयोरवरजौं वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥
Metre: रथोद्धता
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधइभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥
Metre: रथोद्धता
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् । सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥
Metre: रथोद्धता
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः । अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥
Metre: रथोद्धता
तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः । चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥
Metre: रथोद्धता
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः । वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥
Metre: रथोद्धता
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥
Metre: रथोद्धता