रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 93 verses
Verse 31
तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाक्लुतो मुनिः । आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ अवभृथे दीक्षान्त आप्लुतः स्नातो मुनिः। `दीक्षान्तोऽवभृथो यज्ञे` इत्यमरः (अ.को.2|7|29)। प्रणामेन चलकाकपक्षकौ चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तः प्रदेशेन। पवित्रेणेत्यर्थः। पाणिना समस्पृशत् संस्पृष्टवान्। संतोषादिति भावः ॥

Verse 32
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी । राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ संभृतक्रतुः संकल्पितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान्। वशी स मुनिर्मिथिलां जनकनगरीं व्रजन्, तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं बिभ्रतौ राघवावपि निनाय नीतवान् ॥

Verse 33
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तैरिति॥ गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थआनमगृह्यत। येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः पत्नी। `पत्नीपरिजनादानमूलशापाः परिग्रहाः` इत्यमरः (अ.को.3|3|252)। अहल्येति यावत्। वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ॥

Verse 34
प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शइलामयी । स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यपद्यतेति॥ शिलामयी भतृशापाच्छिलत्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती। यत् स किल्बिषच्छिदां पापहारिणाम्। `पापं किल्बिषकल्मषम्` इत्यमरः (अ.को.1|4|24)। रामपादरजसामनुग्रहः किलप्रसादः किलेति श्रूयते ॥

Verse 35
राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): राघवेति॥ राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य। अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहम्। मूर्तिमन्तमित्यर्थः। वाहिताग्न्यादित्वात्साधुः। धर्ममिव। सपर्ययाऽभ्यगात् प्रत्युद्गतवान् ॥

Verse 36
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू । मन्यते स पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ दिवः सुरवर्त्मन आकाशात्। `द्यौः स्वर्गसुरवर्त्मनोः`इति विश्वः। गां भुवं गतौ। `स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः` इत्यमरः। पुनर्वसू इव तन्नामकनक्षत्राधिदेवते इव स्थितौ। तौ राघवौ विलोचनैः पिबताम्। अत्यास्थया पश्यतामित्यर्थः। विदेहनगरी मिथिला। तन्निवासिनां मनः कर्तृ पक्ष्मपातं निमेषमपि तद्दर्शनप्रतिबन्धकत्वाद्वञ्जनां विडम्बनां मन्यते स्म मेने। `लट् स्मे` (पा.3।2।118) इति भूतार्थे लट् ॥

Verse 37
यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः । राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): यूपेति॥ यूपवति क्रियाविधौ कर्मानुष्ठाने। क्रतावित्यर्थः। अवसिते समाप्ते सति कालविदवसरज्ञः कुशिकवंशवर्धनः स मुनी रामम्। अस्यतेऽनेनेत्यसनम्, इषूणामसनमिष्वसनं चापम्। तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयांबभूव कथितवान् ॥

Verse 38
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः । स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ पार्थिवा जनकः। प्रथितवंशे जन्म यस्य तस्य तथोक्तस्य । एतेन वरसंपत्तिरुक्ता। शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य। स्वं स्वकीयं दुरानममानमयितुमशक्यम्। नमेर्ण्यन्तात्खल्। धनुर्विचिन्त्य च दुहितृशुल्कं कन्यामूल्यं जामातृदेवयम्। `शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च` इति विश्वः। तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या। `संस्था स्थितौ शरे नाशे` इति विश्वः। पीडितो बाधितः। शिशुना रामेण दुष्करमिति दुःखित इति भावः ॥

Verse 39
अव्रवीञ्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् । तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): अब्ववीदिति॥ अब्रवीञअच। मुनिमिति शेषः किमिति? हे भगवन्मुने! बृहद्भिर्मतंगजैर्महागजैपरि दुष्करं यत्कर्म तत्र कर्मणि कलभस्य बालगजस्य । `कलभः करिशावकः` इत्यमरः (अ.को.2|8|35)। मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहसमनुमन्तुमहं नोत्सहे ॥

Verse 40
ह्रेपिता हि बहवो नरेश्वरास्तेन तात! धनुषा धनुर्भृतः । ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ह्रेपिता इति॥ हे तात! तेन धनुषा बहवो धनुर्भृतो नरेश्वरा ह्रेपिता ह्रियं प्रापिता हि। जिह्रतेर्धातोर्ण्यन्तात्कर्मणि क्तः। `अर्तिह्री-` (पा.7।3।36) इत्यादिना पुगागमः। ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भुजान्धिगिति विधूयवमत्या प्रतस्थिरे प्रस्थिताः ॥