रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 93 verses
Verse 11
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः । वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ तौ राघवौ कर्मभूतौ सरांसि कर्तॄणि रसवद्भिर्मधुरैरम्बुभिः सिषेविरे। पतत्रिणः पक्षिणः। सुखयन्तीति सुखानि। पचाद्यच्। श्रुतीनां सुखानि। तैः कूजितैः। वायवः सुरभिपुष्परेणुभिः जलदाश्छायया च। सिषेविरे इति सर्वत्र संबध्यते ॥

Verse 12
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ तप एषामस्तीति तपस्विनः। `तपःसहस्राभ्यां विनीनी` (पा.5।2।102) इति विनिप्रत्ययः। लघुना। `त्रिष्विष्टेऽल्पे लघुः` इत्यमरः (अ.को.3|3|33)। तयोरुभयोः कर्मभूतयोः। दर्शनेन यथा प्रीतिमापुः। तथा कमलशोभिनामम्भसां दर्शनेन नापुः। परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ॥

Verse 13
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः । विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स्थाण्विति॥ स आत्तकार्मुकः। दशरथस्यापत्यं पुमान् दाशरथी रामः। `अत इञ्` (पा.4।1।95) इतीञ्प्रत्ययः। स्थाणुर्हरः। `स्थाणुः कीले हरे स्थिरे` इति विश्वः। तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन। `विग्रहः समरे काये` इति विश्वः। प्रतिनिधिः प्रतिकगृतिः सदृशोऽभवत्, कर्मणा न पुनः, देहेन मदनसुन्दर इति भावः ॥

Verse 14
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि । निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ अत्र रामायणवचनम्(बाल.25।12-13)-`अगस्त्यः परम कुद्धस्ताडकामभिशप्तवान्। पुरुषादी महायक्षी विकृता विकृतानना। इदं रूपमपाहाय दारुणं रूपमस्तु ते॥` इति। तदेतदाह-विदितशापयेति। कौशिकादाख्यातुः `आख्यातोपयोगे` (पा.1।4।29) इत्यपादानात्पञ्चमी। विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि। `खिलमप्रहतं स्थानम्` इति हलायुधः। तौ रामलक्ष्मणौ। स्थले निवेशिते अटनी धनुःकोटी याभ्यां तौ तथोक्तौ। `कोटिरस्याटनिः` इत्यमरः (अ.को.2|8|84)। लीलयैव धनुषी। अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये। `ज्या मौर्वीमातृभूमिषु`इति विश्वः। तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ। नयतिर्द्विकर्मकः ॥

Verse 15
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः । ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ज्येति॥ अथ तयोर्ज्यानिनादं गृह्णती जानती। शृण्वतीत्यर्थः। बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा। `बहुलः कृष्णपक्षे च`इति विश्वः। चले कपाले एव कुण्डले यस्याः सा तथोक्ता ताडका। निबिडा सान्द्रा बलाकिनी बलाकावती। `व्रीह्यादिभ्यश्च` (पा.5।2।116) इतीनिः। कालिकेव घनावलीव। `कालिका योगिनीभेदे कार्ष्ण्ये गौर्यां घनावलौ` इति विश्वः। प्रादुरास प्रादुर्बभूव॥

Verse 16
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया । अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तीव्रेति॥ तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया। प्रेतचीवराणि वस्त इति प्रेतचीवरवाः तया प्रेतचीवरवसा। वसतेराच्छादनार्थात्क्विप्। स्वनेन सिंहनादेनोग्रया तया ताडकया। पितृकानने श्मशान उत्थोत्पन्ना। `आतश्चोपसर्गे` (पा.3।3।106) इत्युत्पूर्वात्तिष्ठतेः कर्तरि क्तप्रत्ययः। तया वात्ययेव वातसमूहेनेव॥ `पाशादिभ्यो यः` (पा.4।2।49)इति यः। भरताग्रजो रामोऽभ्यभाव्यभिभूतः। कर्मणि लुङ्। तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ॥

Verse 17
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् । तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): उद्यतेति॥ उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम्। आयतीमायान्तीम्। इणो धातोः शतरि `उगितश्च` (पा.4।1।6) इति ङीप्। श्रोणिलम्बिनी पुरुषाणामन्त्राण्येव मेखला यस्यास्ताम्। इति विशेषणद्वयेनाप्याततायित्वं सूचितम्। अत एव तां विलोक्य राघवो वनितावधे स्त्रीवधनिमित्ते घृणां जुगुप्सां करुणां वा। `जुगुप्साकरुणे घृणे` इत्यमरः (अ.को.3|3|58)। पत्रिणेषुणा सह। `पत्री रोप इषुर्द्वयोः` इत्यमरः (अ.को.2|8|87)। मुमोच मुक्तवान्। आततायिवधे मनुः(8।350)-`आततायिनमायान्तं हन्यादेवाविचारयन्। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन।` इति ॥

Verse 18
यञ्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): यदिति॥ स रामसायकः शिलावद्धने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार तद्विवरं रक्षसामप्रविष्टविषयस्य। अप्रविष्टरक्षोदेशस्येत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। `विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च`इति विश्वः। अन्तकस्य यमस्य द्वारतामगमत्। इयं प्रथमा रक्षोमृतिरिति भावः ॥

Verse 19
बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): बाणेति॥ बाणभिन्नहृदया निपेतुषी निपतिता सती। `क्कसुश्च` (पा.3।2।107)इति क्वसुप्रत्ययः। `उगितश्च` (पा.4।1।6) इति ङीप्। सा केवला मेकाम्। `निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः` इत्यमरः (अ.को.3|3|212)। स्वकाननभुवं न व्यकम्पयत्। किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत्। ताडकावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ॥

Verse 20
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): रामेति॥ सा। निशासु चरतीति निशाचरी राक्षसी, अभिसारिका च। दुःसहेन सोढुमशक्येन। राम एव मन्मथः। अन्यत्र, -अभिरामो मन्मथः। तस्य शरेण हृदय उरसि मनसि च। `हृदयं मनउरसोः`इति विश्वः। ताडिता विद्धाङ्गा गन्धबद्दुर्गन्धि यद्रुधिरमसृक् तदेव चन्दनं तेनोक्षिता लिप्ता। अपरत्र, -गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कुमचन्दने ताभ्यामुक्षिता, `रुधिरे कुङ्कुमासृजोः` इत्युभयत्रापि विश्वः। जीवितेशस्यान्तकस्य, प्राणेश्वरस्य च। वसतिं जगाम ॥

Showing 11 to 20 of 93 verses