रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 86 verses
Verse 11
बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः । आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): बाहुभिरिति॥ विटपाकारैः शाखाकारैर्दिव्याभरणभूषितैर्बाहुभिरुपलक्षितम्। अत एव अपां सैन्धवानां मध्य आविर्भूतमपरं द्वितीयं पारिजातमिव स्थितम्॥

Verse 12
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः । हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दैत्येति॥ दैत्यस्त्रीगण्डलेखानामसुराङ्गनागण्डस्थलीनां यो मदरागस्तं विलुम्पन्ति हरन्तीति मदरागविलोपिनः। तैश्चेतनावद्भिः सजीवैर्हेतिभिः सुदर्शनादिभिः शश्त्रैः। `रवेरर्चिश्च शश्त्रं च वह्निज्वाला च हेतयः।` इत्यमरः। उदीरितजयस्वनम्। जयशब्दमुद्धोषयन्तीभिर्मूर्तिमतीभिरस्त्रदेवताभिरुपास्यमानमित्यर्थः ॥

Verse 13
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा । उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मुक्तेति॥ मुक्तो भगवत्संनिधानात्त्यक्तः शेषेणाहीश्वरेण सह विरोधः सहजमपि वैरं येन तेन। कुलिशव्रणा अमृताहरणकाल इन्द्रयुद्धे ये वज्रप्रहारास्त एव लक्ष्माणि यस्य स तेन। प्रबद्धोऽञ्जलिर्येन तेन प्राञ्जलिना। कृताञ्जलिनेत्यर्थः। विनीतेनानुद्धतेन गरुत्मतोपस्थितमुपासितम्। पुरा किल मातलिप्रार्थितेन भगवता तद्दुहितुर्गुणकेश्याः पत्युः कस्यचित्सर्पस्य गरुडादभयदाने कृते स्वविपक्षरक्षणक्षुभितं पक्षिराजं `त्वद्वोढाऽहं त्वत्तो बलाढ्यः` इति गर्वितं स्ववामतर्जनीभारेणैव भङ्यक्त्वा भगवान्विनिनायेति महाभारतीयां कथां सूचयति `विनीतेन`इत्यनेन ॥

Verse 14
योगनिद्रान्तविशदैः पावनैरवलोकनैः । भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): योगेति॥ योगो मनसो विषयान्तरव्यावृत्तिः, तद्रूपा या निद्रा तस्या अन्तेऽवसाने विशदैः प्रसन्नैः पावनैः शोधनैरवलोकनैः। सुखशयनं पृच्छन्तीति सौखशायनिकास्तान्। `पृच्छतौ सुस्नातादिभअयः`(वा.2943)इत्युपसंख्यानाटुक्प्रत्ययः। भृग्वादीनृषीननुगृह्णन्तम् ॥

Verse 15
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रणिपत्येति॥ अथ दर्शनानन्तरं सुराः सुरद्विषामसुराणां शमयित्रे विनाशकाय तस्मै विष्णवे प्रणिपत्य स्तुत्यं स्तोत्रार्हम्। `एतिस्तुशास्वृदृजुषः क्यप्` (पा.3।1।109)इति क्यप्प्रत्ययः। वाक्च मनश्च वाङ्मनसे। `अचतुर-` (पा.5।4।77)इत्यच्प्रत्ययान्तो निपातः। तयोर्गोचरो विषयो न भवतीत्यवाङ्मनसगोचरः। तमेनं विष्णुं तुष्टुवुरस्तुवन् ॥

Verse 16
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नम इति॥ पूर्वमादौ विश्वसृजे विश्वस्रष्ट्रे तदनु सर्गानन्तरं विश्वं विभ्रते पुष्णते। अथ विश्वस्य संहर्त्रे। एवं त्रेधा सृष्टि-स्थिति-संहारकर्तृत्वेन स्थित आत्मा स्वरूपं यस्य तस्मै ब्रह्म-विष्णु-हरात्मने तुभ्यं नमः ॥

Verse 17
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते । देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रसान्तराणीति॥ एकरसं मधुरैकरसं दिवि भवं दिव्यं पयो वर्षोदकं देशे देश ऊषरादिदेशेऽन्यान्रसान्रसान्तराणि लवणादीनि यथाऽश्नुते प्राप्नोति। एवमविक्रियो निर्विकारः। एकरूप इत्यर्थः। त्वं गुणेषु सत्त्वादिष्ववस्थाः स्रष्टृत्वादिरूपा अश्नुषे ॥

Verse 18
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः । अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अमेय इति॥ हे देव! त्वममेयो लोकैरियत्तया न परिच्छेद्यः। मितलोकः परिच्छिन्नलोकः। अनर्थी निःस्पृहः। आवहतीत्यावहः। पचाद्यच्। प्रार्थनानामावहः कामदः। अजितोऽन्यैर्न जितः। जिष्णुर्जयशीलः। अत्यन्तमव्यक्तोऽतिसूक्ष्मरूपः। व्यक्तस्य स्थूलरूपस्य कारणम् ॥

Verse 19
हृदयस्थमनासन्नमकामं त्वां तपस्विनम् । दयालुमनघस्पृष्टं पुराणमजरं विदुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): हृदयेति॥ हे देव! त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसंनिहितं तथाप्यनासन्नमगम्यरूपत्वाद्विप्रकृष्टं च विदुः। संनिकृष्टस्यापि विप्रकृष्टत्वमिति विरोधः। त्तथाऽकामम्। न कामोऽभिलाषोऽस्य तं परिपूर्णत्वान्निःस्पृहत्वाञ्च निष्कामम् । तथापि तपस्विनं तापसं विदुः। यो निष्क्रामः स कथं तपः कुरुत इति विरोधः। परिहारस्तु-ऋषिरूपेण दुस्तरं तपस्तप्यते। दयालुं परदुःखप्रहाणपरं तथाप्यनधस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः। `अघं दुरितदुःखयोः` इति विश्वः। दयालुरदुःखी चेति विरोधः। `ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः॥` इति महाभारते। पुराणमनादि मजरं निर्विकारत्वादक्षरं विदुः। चिरंतनं न जीर्यत इति विरोधालंकारः। उक्तं च -`आभासत्वे विरोधस्य विरोधालंकृतिर्मता` इति। विरोधेन चालौकिकमहिमत्वं व्यज्यते ॥

Verse 20
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः । सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सर्वज्ञ इति॥ त्वं सर्वं जानातीति सर्वज्ञः । `इगुपध-` (पा.3।1।135) इति कप्रक्ययः। अविज्ञातः। न केनापि विज्ञात इत्यर्थः। त्वं सर्वस्य योनिः कारणम्। त्वमात्मन एव भवतीत्यात्मभूः। न ते किंचित्कारणमस्तीत्यर्थः। त्वं सर्वस्य प्रभुः। त्वमनीशः। त्वमेकः सर्वरूपभाक्। त्वमेक एव सर्वात्मना वर्तस इत्यर्थः ॥

Showing 11 to 20 of 86 verses