रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 82 verses
Verse 11
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः । विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अवनिमिति॥ वरूथिना गुप्तिमता। `वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितिम्` इति सज्जनः। एकरथेनाद्वितीयरथेन। अवनिं जितवतो धनुर्भृतो नरवाहनसंपदः कुबेरतुल्यश्रीकस्य तस्य दशरथस्य घनरवा मेघसमघोषा अर्णवा विजयदुन्दुभितां किल ययुः। अर्णवान्तविजयीत्यर्थः ॥

Verse 12
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः । स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): शमितेति॥ पुरंदर इन्द्रः शतकोटिना शतास्त्रिणा कुलिशेन वज्रेण शिखरिणां पर्वतानां शमितपक्षबलो विनाशितपक्षसारः। नवतामरसाननो नवपङ्कजाननः। `पङ्केरुहं तामरसम्` इत्यमरः (अ.को.1|10|41)। स दशरथः शरवृष्टिमुचा स्वनवता धनुषा द्विषां शमितो नाशितः पक्षः सहायो बलं च येन स तथोक्तः। `पक्षः सहायेऽपि` इत्यमरः (अ.को.1|10|41) ॥

Verse 13
चरणयोर्नखरागसमृद्धिभिर्मुकुटरन्तमरीचिभिरस्पृशन् । नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): चरणयोरिति॥ शतशो नृपतयोऽखण्डितपौरुषं तं दशरथम्। मरुतो देवाः शतमखं यथा शतक्रतुमिव। नखरागेण चरणनखकान्त्या समृद्धिभिः संपादितर्द्धिभिर्मुकुटरत्नमरीचिभिश्चरणयोरस्पृशन्। तं प्रणेमुरित्यर्थः॥

Verse 14
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् । समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): निववृत इति॥ स दशरथः सचिवैः संप्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान्। स्वयमसंमुखागतानित्यर्थः। अनलकान्हतभर्तृकतयालकसंस्कारशून्यान्। सपत्नपरिग्रहाञ्छत्रुपत्नीः। `पत्नीपरिजनादनमूलशापाः परिग्रहाः` इत्यमरः। समनुकम्प्यानुगृह्य। अलकानवमामलकानगरादन्यूनां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तान्निववृते। शरणागतवत्सल इति भावः ॥

Verse 15
उपगतोऽपि च मण्डलनाभितामनुभितामनुदितान्यसितातपवारणः । श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): उपगत इति॥ अनुदित मनुच्छ्रितमन्यत्स्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः। अनलसोमयोरग्निचन्द्रयोः समे द्युती तेजः कान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य। श्रीर्हि केनचिन्मिषेण पुमांसं परिहरति। स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि। चक्रवर्ती सन्नपीत्यर्थः। `अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः॥ आद्यक्षत्रियभेदे तु मतो मुख्यमहीपतौ।` इति केशवः। अनलसोऽप्रमत्तोऽभूत्। `अजितमस्ति नृपास्पदम्` इति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्ध्यानलसोऽप्रमत्तोऽभूत्। विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्टतेत्यर्थथः। द्वादशराजमण्डलं तु कामन्दकेनोक्तम्-`अरेर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। तथारिमित्रमित्रं च विजिगीषोः पुरःसराः॥ पर्ष्णिग्रहास्ततः पश्चादाक्रन्दस्तदनन्तरम्। आसारावनयोश्चैव विजिगीषोस्तु पृष्टतः`॥ `अरेश्च विजिगीषोश्च मध्यमोभूम्यनन्तरः। अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे॥ मण्डलाद्बहिरेषामुदासीनो बलाधिकः। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः॥` इति॥ `अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः। पार्ष्णिग्राहाक्रन्दपार्ष्णिग्राहासाराश्च पृष्ठतः॥` इति पृष्ठतश्चत्वारः। मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादश राजमण्डलम्। तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती। दशरथश्चैतादृगिति तात्पर्यार्थः ॥

Verse 16
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता । नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ पत्यौ व्रतं नियमो यस्याः सा पतिव्रता सकमला कमलहस्ता देवता लक्ष्मीरर्थिषु विषयेऽलाघवं लघुत्वरहितम्। अपराङ्मुखमित्यर्थः। ककुत्स्थकुलोद्भवं तं दशरथमात्मभवं पुरुषं विष्णुं चापहाय त्यक्त्वा। अन्यं कं नृपतिमसेवत? कमपि नासेवतेत्यर्थः। विष्णाविव विष्णुतुल्ये तस्मिन्नपि श्रीः स्थिराभूदित्यर्थः ॥

Verse 17
तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः । मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ परिरेव देवता यासां ताः पतिदेवताः पतिव्रताः। मगधाश्च कोसलाश्च केकयाश्च ताञ्जनपदाञ्छासतीति तच्छासिनः। तेषां राज्ञां दुहितरः पुत्र्यः। सुमित्राक-कौसल्या-कैकेय्य इत्यर्थः। अत्र क्रमो न विवक्षितः। अहितरोपितमार्गणं शत्रुनिखातशरम्। `कदम्बमार्गणशराः` इत्यमरः। तं दशरथँ शिकरिणां क्ष्माभृतां दुहितरः। आ समन्तादपगच्छन्तीति। अथवा, -`आपेनाप्संबन्धिना वेगेन गच्छन्तीत्यापगाः` इति क्षीरस्वामी। नद्यः सागरमिव। पतिं भर्तारमलभन्त प्रापुः ॥

Verse 18
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): प्रियतमाभिरिति॥ अरीन्घ्रन्तीत्यरिहणो रिपुघ्नाः। हन्तेः क्विप्। `ब्रह्मभ्रूणवृत्रेषु क्विप्` इति नियमस्य प्रायिकत्वात्। यथाह न्यासकारः-`प्रायिकश्चायं नियमः क्वचिदन्यस्मिन्नप्युपपदे दृश्यते मधुहा। प्रायिकत्वं च वक्ष्यमाणस्य बहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते` इति। तेषु योगेषूपायेषु विचक्षणो दक्षः। `योगः संनहनोपायध्यानसंगतियुक्तिषु` इत्यमरः। इन्द्रेऽपि योज्यमेतत्। असौ दशरथस्तिसृभिः प्रियतमाभिः सह। प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रियतमाभिः सह। प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव। बभौ ॥

Verse 19
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ महारथथः स दशरथः संयुगमूर्ध्नि रणाङ्गणे मघवत इन्द्रस्य सहायतां प्रतिपद्य प्राप्य शरैरवधूतभया निवर्तितत्रासाः सुरवधूरुच्छ्रितं स्वभुजवीर्यमगापयत्किल खलु। गायतेः शब्दकर्मत्वात् `गतिबुद्धि-` (पा.1।4।52)इत्यादिना सुरवधूनामपि कर्मत्वम् ॥

Verse 20
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः । कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): क्रतुष्विति॥ क्रतुष्वश्वमेधेषु विसर्जितमौलिनाऽवरोपितकिरीटिन। `यावद्यज्ञमध्वर्युरेव राजा भवति` इति राज्ञश्चिह्नत्यागविधानादित्यभिप्रायः। `मौलिः किरीटे धम्मिल्ले` इति विश्वः। भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसंपदा। अनेन क्षत्रियस्य विजितत्वमुक्तम्। नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते। वितमसा तमोगुणरहितेन तेन दशरथेन। तमसा च सरयू नद्यौ। तयोस्तटः कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभिनः कृताः। कनकमयत्वं च यूपानां शोभार्थं विध्यभावात्। `हेमयूपस्तु शोभिकः` इति यादवः ॥

Showing 11 to 20 of 82 verses